________________
- साहित्यदर्पणः। ।
[ षष्ठःयथा बालरामायणे-रावणं प्रति । "कोहल:... श्रवणैः पेयमनेकैदृश्य दीर्धेश्च लोचनैर्बहुभिः । भवदर्थमिव निबद्धं नाट्यं सीतास्वयंवरणम् ॥२२०॥" इत्यादिना विरचितः सीतास्वयंवरो नाम गर्भाङ्कः ।
३१४ तत्र पूर्व पूर्वरङ्गा, सभापूजा ततः परम् ।
___ कवेः सज्ञादिकथनं नाटकस्याप्यथामुखम् ॥ ३१८ ॥ ____३१३ यः । अङ्कोदरप्रविष्टोऽङ्कस्य निरुक्तलक्षणस्य "अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान् । नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः ॥” इति निरुक्तार्थस्योदरं मध्यं तत्र प्रविष्ट इति तथोक्तः । रङ्गद्धारामुखादिमान रङ्गद्वारं सूत्रधारेण क्रियमाणं मङ्गलं तच्च, आमुखं प्रस्तावना च; इति ते आदौ यस्य तदस्मिन्नस्तीति तथोक्तः । आदिना सभापूजादेग्रहणम् । सबीजो बीजेन सह वर्तमानः । बीजं च वक्ष्यते । फलवान् फलं नायकनिष्पाद्यप्रधानप्रयोजनम्, तदस्यास्तीति तथोक्तः । अपि एवं विशेषणचतुष्टयसम्पन्नः । अपरो निरुक्तलक्षणात् प्रधानभूतादकाद्भिन्न इति भावः । अङ्कः। सः। गर्भाडो गर्भ इवाङ्क इति तथोक्तः ॥ ३१७ ॥
उदाहरति-यथेत्यादिना।
यथा। बालरामायणे तदाख्ये राजशेखररचिते महानाटक इत्यर्थः। रावणम् । प्रति । “कोहलः तदाख्यो वाद्यविशेष उपचारात्तन सङ्गीतप्रवर्तको नट इत्यर्थः ।...अनेकैर्बहुभि“न तु एकेन द्वाभ्यां वे"ति शेषः । अनेकशब्दस्य द्विवाचकत्वेऽपि बहुवचनप्रत्ययान्तत्वेनेदमुक्तम् । श्रवणैः कर्णैः । पेयं पानविषयीकरणीयमाखादनीयमिति यावत्, श्रवणैश्च याअसम्भवात् श्रोतव्यमिति भावः । च । दीर्घरायतैरुत्सुकतया गृहीतदारति यावत् ।बहभिः। लोचनत्रैः । दृश्यं दर्शनीयम् । तस्मात्-भवदर्थ भवते रावणायेति तथोक्तम् । 'अर्थेन नित्यसमासो विशेष्यलि. गता चेति वक्तव्यम् ।'* इति साधु । इव (उत्प्रेक्षाऽर्थमिदमव्ययम् ) । निबद्धं रचितम् 'भवतो बहश्रवणलोचनत्वादिति शेषः । सीतास्वयंवरणं सीतास्वयंवराख्यमिति भावः । नाट्यं नाटकमिति भावः। अत्रोत्प्रेक्षाऽलङ्कारः । आर्य्यावृत्तम् । तल्लक्षणं चोक्तं यथा-"खरा अर्द्ध चाऱ्यार्द्धम् । अत्रायुड़नज् । षष्टो । न्लो वा न्लौचेत्यदं द्वितीयादि। सप्तमः प्रथमादि । अन्त्ये पञ्चमः । षष्ठश्चल ।" इति ।' इत्यादिना। विरचितः । सीतास्वयंवरः । नाम । गर्भाङ्कः । इदमवधेयम्-बालरामायणे तृतीयेऽङ्के एवं दृश्यते-"रावणः-दिष्टया गतं दिवसेन । भोभो प्रहस्त ! तदुच्यन्तां वैरिश्चा मुनयः, प्रस्तूयतामिति । प्रहस्तः (नेपथ्याभिमुखमवलोक्य) भोभो भरतपुत्राः ! प्रेक्षणकृते कृतक्षणः क्षणदाचरचका वर्ती तत्प्रस्तूयताम् । (प्रविश्य ) कोहल:-" कपूर इव दग्धोऽपि शक्तिमान् यो जने जने । नमः शृङ्गारबीजाय तस्मै कुसुमधन्वने ॥” रावण:-द्वादशपदेयं प्रवर्त्तिता नान्दी, तत् प्रस्तावयिष्यति । कोहल:-तत्रभवतः परमेष्ठिनो मानसभुवः प्रथमपुत्रस्य नाट्ययोनेर्भरताचार्य्यस्य कृतिरभिनवं सीतास्वयंवर इति नाटकं प्रयोक्तव्यम् अतः कमलसम्भवोपदिष्टनाट्यवेदेन खपौरुषपरितोषितखण्डपरशुदर्शितलास्यताण्डवप्रपञ्चचतुरेण भवता दीनमवधानमभ्यर्थये । यतः-"श्रवणैः पेयमनेकै..." रावणः-किं पुनरिदमसंस्तुतं प्रस्तूयते । कः पुनरसौ योऽयमत्र मयि रावणेऽपि सति सीतां स्वयं वृणुते ? (विमृष्य ) भवतु निरङ्कुशाः कविवाचः । कोहलः ( समन्तादवलोक्य ) अहो राक्षसराजस्य त्रिभुवनशिरः शेखरायमाणा प्रभुशक्तिः ।...। (नेपथ्ये गीयते) "प्रकटितरामाम्भोजः कौशिकवान् सपदि लक्ष्मणा नन्दी। सुरचापदमनहेतोरयमवतीर्णः शरत्समयः ॥" कोहलः कथमुपक्रान्तं भरतपुत्रैः, यदियं लक्ष्मणानुगतस्य भगवतो विश्वामित्रस्य प्रावेशिकी ध्रुवा तदहमप्यनन्तरकरणीयाय सज्जो भवामि (इति निष्क्रान्तः) । (प्रस्तावना)। (ततः प्रविशति विश्वामित्र रामलक्ष्मणौ च ) विश्वामित्रः-अहो तत्त्वेऽभिनिविष्ट मनो जनकस्य..." इत्येवं दृश्यते एतेन "रावणं प्रति कञ्चुकी" त्युपलभ्यमानोऽपपाठ एवेति सूचितम् ॥ २२०॥
एव नाटकीयाङ्कस्य लक्षणं सप्रभेदं दर्शयित्वा कथं तावन्नाटकमुपक्रमणीयमित्याह-३१४ तत्रेत्यादि ।
३१४ तत्र तस्मिन् नाटके इति यावत् । पूर्व प्रथममारम्भे इति यावत् । पूर्वरङ्गो वक्ष्यमाणलक्षणः कर्मविशेषः । 'विधातव्य' इति शेषः । ततः परं तनदन्तरम् । सभापूजा सभाया उपस्थितसत्समाजस्य पूजा प्रशं