________________
-
पारच्छेदः) • रुचिराख्यया व्याख्यया समेतः।
दुरावानं वधो युद्धं राज्यदेशादिविप्लवः । विवाहो भोजनं शापो-त्सर्गौ मृत्यू रतं तथा ।। ३१३ ॥ दन्तच्छेद्यं नखच्छेद्य-मन्यद् व्रीडाकरं च यत् । शयनाधरपानादि नगराधवरोधनम् ॥ ३१४ ॥ स्नानानुलेपने चैभि-वर्जितो नातिविस्तरः। देवीपरिजनादीना-ममात्पवणिजामपि ॥ ३१५ ॥ प्रत्यक्षचित्रचरितै-र्युक्तो भावरसोद्भवैः ।
अन्तनिष्क्रान्तनिखिल-पात्रोऽङ्कः इति कीर्तितः ॥ ३१६ ॥ विन्द्वादयो वक्ष्यन्ते । आवश्यकं सन्ध्यावन्दनादि । अङ्कप्रस्तावाद्गर्भाङ्कमाह
३१३ अङ्कोदरप्रविष्टो यो रङ्गदारामुखादिमान् ।
अङ्कोऽपरः स गर्भारः सबीजः फलवानपि ॥ ३१८ ॥ भिर्वेत्यर्थः । पात्रैः योग्यै राजमन्यादिभिर्जनैरिति भावः । 'पात्रं स्रवादी योग्ये च नाटकीये च पूरुषे । तीरद्वयान्तरे राजामात्येऽमत्रे च पल्लवे ॥' इति गोपालः । यतः सम्पन्नः । 'अङ्कः स्यात्, अत्र चेति शेषः । दूराह्वानम् । बधः। युद्धम् । राज्यदेशादिविपवः। आदिना-नगरप्रामादिदाहनादीनां ग्रहणम् । विवाहः । भोजनम् । शापोत्खों शापश्चोत्सर्गो मलत्यागश्चेत्यर्थः । मृत्युर्मरणम् । तथा । रतं रमणम् । दन्तच्छेद्यं दन्तैश्छेद्यमिति तथोक्तम् , नायककृतं नायिकायाः कपोलयोः दन्तैहननमिति भावः । नखच्छेद्यम नायककर्तकं नायिकाकुचयोव्रणोद्भावनमिति भावः । यत् । च पुनः । अन्यत् ‘एवविधम्'इति शेषः । ब्रीडाकरं लज्जोत्पादक कर्म । एवम् शयनाधपानादि। आदिना कुचमर्दनादि । नगराधवरोधनं नगरादेरवरोधनं शत्रुसैनिकादिकर्तकप्रतिबन्धः । आदिनेत्यन्तरोपद्रवादेर्ग्रहणम् स्नानानु टेपने स्नानं चानुलेपनं चन्दनादिना मण्डनक्रिया चेति तथोक्ते । च ( समुच्चयाथैमिदमव्ययम्) । एभिराहानमित्यारभ्य स्नानानुलेपने इत्यन्तरित्यर्थः । वर्जितः। नातिवि तरोऽत्यन्त विस्तरमप्राप्त यद्वा नातिविस्तरोऽत्यन्तं शब्दव्यासो यत्र तथोक्तः । स च शब्दस्य विस्तरः ।' इत्यमरः । 'नैकधे'त्यादिवनेन समासः, न तु नवा । देवीपरिजनादीनां देवी देवाङ्गना कृताभिषेका राज्ञी वेति सा च परिजनः सखीजनो दासीगणो वेति स चेत्येतावादी येषाम् (कञ्चुक्यादीनाम् तेषाम् । 'देवी कृताभिषेकायां दुर्गायां देवयोषिति । मेदिन्यां पिशुनायां च'इति गोपालः । अमात्यवणिजाम् । अपि । भावरसोद्भवैर्भावो रत्यादिश्च रस आह्वादविशेषश्च तयोरुद्भवा उत्पत्तिस्थानभूताः तरित्यर्थः । भावः सतास्वभावाभिप्रायचेष्टाऽऽत्मजन्मसु।...रत्यादौ च'इति मेदिनी । उद्भव नमुद्भवः । 'ऋदोरम् ।' ३।३१५७ इत्यप् 'जनिरुत्पत्तिरुद्भवः । इत्यमरः । प्रत्यक्षचित्रचरितैः प्रत्यक्षाणि प्रत्यक्षवद्भासमानानि यानि चित्रचरितानि तैस्तथोक्तैः । 'चित्राणि चरितानि चेति 'चित्राणि यानि चरितानि'इति वा तैस्तथोक्तैः । चित्राणि प्रतिमूर्तयः । 'चित्रमद्भुत आलेख्ये प्रतिमूर्ती नपुंसके । इति गोपालः । युक्तः । अन्तनिष्क्रान्तनिखिलपात्रोऽन्ने निष्कान्तानि निखिलानि पात्राणि नाटकीयपुरुषा यस्मात्तथोक्तः । अः। इतीत्थम्भूत इत्यर्थः । कीर्तितः। ॥ ३०९॥३१०॥ ३११ ॥ ३१२ ॥३१३ ॥ ३१४ ॥ ३१५ ॥३१६ ॥
सन्देहनिवृत्तये प्राह-बिन्द्रादय इत्यादि।
विन्द्रादयः । आदिना बीजसंहृत्यादीनां ग्रहणम् । वक्ष्यन्ते । आवश्यकमावश्यकानामिति पदमिति भावः । सन्ध्योपासनादि । 'अभिधत्ते'इति शेषः ।
एवं नाटकस्याकलक्षणं निरूप्य तदवान्तरभेदस्वरूपं गर्भात निरूपयितुं प्रतिजानीते-अप्रस्तावादित्यादिना । : अङ्कप्रस्तावादशस्याङ्कलक्षणनिरूपणस्य प्रस्तावस्तस्मात् कारणादित्यर्थः । गर्भाङ्कम् । आह-३१३ अङ्कोदरः प्रविष्टइत्यादिना।