________________
४१८
[षष्ठः
साहित्यदर्पणः। ३१२ प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः ।
भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः ॥ ३०९ ॥ विच्छिन्नावान्तरेकार्थः किश्चित्संलग्नबिन्दुकः। युक्तो न बहुभिः कार्य-ौजसंहृतिमान्न च ॥ ३१० ॥ नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् ।
आवश्यकानां कार्याणा-मविरोधाद्विनिम्मितः ॥ ३११ ॥ नानेकदिननिर्वर्त्य-कथया सम्प्रयोजितः । आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा ॥ ३१२ ॥
शेषा इति यावत् । सुक्ष्माः । कर्तव्याः । 'प्रथमापेक्षया द्वितीयः, द्वितीयापेक्षया तृतीय इत्येवं पूर्वपूर्वापेक्षया परः परः सूक्ष्मोऽहो विधेय इति भावः । 'इत्यर्थः' इति शेषः । इति । केचित् 'कायं गोपुच्छाग्रं कर्त्तव्यं बन्धमासाद्येति भरत
याचक्षाणेष्वन्यतमा इति शेषः । 'आहुरिति शेषः । अन्ये इतो भिन्नास्तदेव व्याचक्षाणेष्वन्यतमा इत्यर्थः । तु पुनः । आहुः । “यथा । गोपुच्छे । केचित् । वालाः । द्वस्वा अदीर्घाः । केचित । वाला'इति पूर्वतोऽन्वेति । दीर्घा आताः । 'भवन्तीति शेषः । तथा । इहास्मिन् नाटके इत्यर्थः । कानिचित् 'गुम्फनानी'ति शेषः । मुखसन्धौ । लमाप्तानि । कार्याणि । काानेचित् 'गुम्फनानि' इति शेषः । प्रतिमुखे तदाख्ये सन्धौ । 'समाप्तानि कार्याणी'ति शेषः । एवम् । अन्येषु 'गर्भविमर्श निर्वहणेषु सन्धिष्विति शेषः । अपि । कानिचितत्कानिचित् । वीप्सायां द्विरुक्तारयम् ।" इति ।
एवं नाटकलक्षणं निरूप्य तदंशभूतस्याङ्कस्य प्रतिपाद्यमर्थमाह-३१२ प्रत्यक्षनेतृचरित इत्यादिना ।
३१२ प्रत्यक्षनेतृचरितः प्रत्यक्षं प्रत्यक्षवद्भासमानं नेतु यकस्य चरितं यत्र तथोक्तः । रसभावस. मुज्ज्वलो रसस्य भावः सद्भावस्तेन रसभावाभ्यां वा समुज्ज्वल: सम्यक् शोभमान इति भावः । अगूढशब्दार्थों न गूढो दुर्बोध्यः शब्दार्थों यत्र तथोक्तः । शुद्रचूर्णकसंयुतः क्षुद्रं स्वल्पं यत् चूर्णकं सरलं गद्य तेन संयुतः । अन्यथा बोधमान्थर्येण सभ्यानां तदास्वादो न स्यादिति तथोक्तम् । विच्छिन्नावान्तरैकार्थों विच्छिन्नमवान्तरमेकांशो यस्य तादृश एकांशो मुख्यप्रतिपार्योऽर्थो यत्र तथोक्तः । महावाक्येन प्रतिपाद्यस्यार्थस्यैकांशो यत्र विभज्य वर्णितः सोऽङ्क इत्यर्थः । किश्चित्संलग्नबिन्दुकः किञ्चित् संलग्नो बिन्दुर्वक्ष्यमाणलक्षणो वर्णनविशेषो यत्र तादृशः । 'शेषाद्विभाषा ।' ५।४।१५४ इति कप् । भवेत् । 'अङ्क'इति तु प्रसङ्गप्रसक्तम् । बहुभिरनेकैः । कायापारैः । युक्तः। न 'भवेदिति शेषः, तथात्वे हि वैरस्यमापद्यतेति बोध्यम् । बीजसंहतिमान् बीजसंहृती अस्मिन् स्त इति तथोक्तः । बीजं प्रथमार्थप्रकृतिः, संहृतिश्च निर्वहणसन्धिः। अन्ये तु'बीजस्य ग्रन्थप्रतिरूपस्थमूलकारणस्य संहृतिः संहारस्तद्वा'निति व्याचक्षते । च अपीत्यर्थः । न । बीजसंहृत्योर्नाके विधानं श्रेय इति भावः । नानाविधानसंयुक्तो बहुविधैः रुचिरताऽऽपादकैवर्णनैः संयुक्त इत्यर्थः । अथ-अतिप्रचुरपद्यवान् । न, 'किन्तु मध्येमध्ये क्षुद्रचूर्णकवा'निति शेषः । आवश्यकानामवश्यमनुष्ठेयानाम् । कार्याणां सन्ध्योपासनादीनाम् । अवि. रोधाद्विरोधमनुपपायेति भावः । विनिर्मितः कृतरचनः । सन्ध्योपासनादीनां कर्मणां लोपो न दर्शनीयः, किन्तु तदर्थ कार्यान्तरव्याघातः प्रदर्शितः श्रेयानिति भावः । अनेकदिननिर्वर्त्यकथयाऽनेकदिनैर्निर्वाः समाप्या या कथा चरितं तया तथोक्तया । न । सम्प्रयोजितः, 'किन्तु दिनान्तरैरपि निर्वत्यै चरितं तथा दर्शयेत्, यथा तदानीमेव संवृत्तमिदमिति सामाजिका विभावयेयु'रिति शेषः । आसन्ननायक आसन्नः प्राप्तो नायको यत्र तादृशः, प्रायः-नायकोपस्थित्या सनाथीकृत इति भावः, प्राय इत्यनेन कचितदभावः क्वचिच्चतदभावे नायि. काया अप्युपस्थितिर्न दुष्टेति सूचितम् । तथा । त्रिचतुरैः त्रीणि वा चत्वारि वेति तैस्तथोक्तैः ।। त्रिभिश्चतु.