________________
४१७
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । एक एव भवेदङ्गी शृङ्गारो वीर एव वा। अङ्गमन्ये रसाः सर्वे कार्यो निर्वहणेऽद्भुतः ॥ ३०७ ॥ चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः।
गोपुच्छाग्रसमाग्रं तु बन्धनं तस्य कीर्तितम् ॥ ३०८ ॥ ख्यातं रामायणादिप्रसिद्धं वृत्तम्, यथा रामचरितादि । सन्धयो वक्ष्यन्ते । 'नानाविभूतिभिर्युक्त'मिति महासहायम् । सुखदुःखसमुद्भतित्वं युधिष्ठिरादिवृत्तान्तेष्वभिव्यक्तम् । राजर्षयो दुष्यन्तादयः। दिव्याः श्रीकृष्णादयः । दिव्यादिव्याः, ये दिव्या अप्यात्मनि नराभिमानिनः; यथा श्रीरामचन्द्रादयः । “गोपुच्छाग्रसमान"मिति क्रमेणाङ्काः सूक्ष्माः कर्त्तव्याः इति केचित् । अन्ये त्वाहः, यथा-गोपुच्छे केचिद्धाला द्वस्वाः केचिद्दीर्धाः, तथेह कानिचित् कार्याणि मुखसन्धौ समाप्तानि, कानिचित् प्रतिमुखे, एवमन्येष्वपि कानिचित्कानिचित् । इति ।
एवम्-'तत्रेति पूर्वतोऽनुकान्तम् । एकः । एव । नतु बहव इति भावः। शङ्कारः। वा। वीरः । एव नतु बीभत्साधन्यतमोऽप्यन्यः । अङ्गी प्रधानभूतः । भवेत् । अन्ये हास्यबीभत्सादय इत्यर्थः । सर्वे। रसाः। अङ्मप्रधानभूताः । इदमववधेयम्-‘एक एवे'त्यभिधानमुत्कर्षाधानाय, 'शृङ्गारो वीर एव वेति पुनः हास्यबीभत्सभयानकरौद्रमात्रव्यवच्छेदाय तेन-प्रबोधचन्द्रे शान्तस्योत्तरचरिते करुणस्य च प्राधान्यं सङ्गच्छते । उक्तं च ध्वनिकृता-"प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने। एको रसोऽङ्गीकर्तव्यस्तेषामुत्कर्षमिच्छता ॥” इति । तथा-निर्वहणे निर्वहणसन्धावित्यर्थः । उपसंहाराहो चरमसन्धाविति भावः । अद्धतः । 'रस' इति शेषः। कार्यः । तथोक्तम्-"सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् । निर्वहणे कर्तव्यो नित्यं हि रसोऽद्भुतस्ततः ॥” इति । एवम्-"तो" ति पूर्वतोऽन्वेति । चत्वारः। पश्च । वा। कार्य्यव्यापृतपूरुषाः कार्येषु नायककर्मसु व्यापृताः, तेऽमी पूरुषाः पुरुषा इति तथोक्ताः । 'पुरुषाः पूरुषा नरः।' इत्यमरः। मुख्याः प्रधानतयाऽङ्गीकृताः । 'भवन्ती' ति शेषः । एतेन-अन्येऽपि कतिचिदमुख्याः क्वापि स्युरिति सूचितम् । अत एवोक्तम्-"न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा । येनात्र कार्य्यपुरुषाश्चत्वारः पञ्च वा ते स्युः ॥” इति, “व्यायोगेहामृगसमवकारडिमसञ्चितानि कार्याणि । दशभिर्वा द्वादशभिर्वा षोडशभिर्वाऽपि पुरुषैः स्युः ।" इति च । गोपुच्छाग्रसमाग्रं गोपुच्छाग्रेण सममिति तथोक्तमग्रमग्रभागो यस्य यत्र वा तत्तथोक्तम् । त पुनः। तस्य नाटकस्य । बन्धनं गुम्फनं रचनेति यावत् । कीर्तितम् ।' अत एवोक्तं मुनिना-काव्यं गोपुच्छाग्रं कर्तव्यं 'बन्धमासाद्य ।' इति ॥३०४ ॥ ३०५॥ ३०६ ॥ ३०७॥ ३०८ ॥
बोधसौकाय कठिनांशस्य तात्पर्य्य निर्दिशति-ख्यातम् । रामायणादिप्रसिद्धं रामायणादिषु प्रसिद्धम् । आदिना महाभारतश्रीमद्भागवतादीनां ग्रहणम् । वृत्तं चरितम् 'यत्र तत्' इति शेषः । 'वृत्तं पद्ये चरित्रे त्रिवतीते दृढनिस्तले।' इत्यमरः । उदाहरति-यथा। रामचरितादि । आदिना नलयुधिष्ठिरहरिश्चन्द्रादिचरितस्य ग्रहणम् । सन्धयो मुखप्रति मुखादयः पञ्च सप्रभेदा' इति शेषः । वक्ष्यन्ते 'मुखं प्रतिमुख' मित्यादिनेति शेषः । 'नानाविभूतिभिः। युक्तम् ।' इति । 'अस्थे' ति शेषः । महासहायं महान् सहायः महान्तो वा सहाया यत्र तत् । 'इत्यर्थ' इति शेषः। 'सुखदुःखसमुद्भति' इति पदार्थ निर्दिशति-सुखदुःखसमुद्भतित्वं सुखदुःखाभ्यां समुद्भूतियंत्र तस्य भावस्तत्त्वं तथोक्तम् । युधिष्ठिरादिवृत्तान्तेषु युधिष्ठिरहरिश्चन्द्रादिचरितेषु । अभिव्यक्तम् । राजर्षिदिव्यो दिव्यादिव्यो वा नायकः स्यादित्युक्तं स्पष्टयति-राजर्षयः । दुष्यन्तादयः । आदिना नलादीनां ग्रहणम् । दिव्याः । श्रीकृष्णादयः । आदिना कपिलवामननृसिंहादीनां प्रणम् । दिव्यादिव्या दिव्याश्च तेऽदिव्या इति तथोक्ताः । ये। दिव्याः । अपि । आत्मनि । नराभिमानिनः 'इव प्रतीयमानास्ते इत्यर्थः' इति शेषः । यथा। श्रीरामचन्द्रादयः। आदिना पृथ्वादीनां ग्रहणम् । श्रीरामचन्द्रस्य नरत्वानङ्गीकारे रावणवधाद्यसम्भव आपद्यतेति बोध्यम् । 'गोपुच्छाग्रसमाग्रम् ।' इति 'अस्येति शेषः । क्रमेणानुपुर्येण । अङ्काः परिच्छेदाः वक्ष्यमाणलक्षणा विभागवि.