________________
४१६ साहित्यदर्पणः।
[षष्ठः३१० विना विशेष सर्वेषां लक्ष्म नाटकवन्मतम् ॥ ३०३ ॥ सर्वेषां प्रकरणादिरूपकाणाम् , नाटिकाऽऽापरूपकाणां च । ३११ नाटकं ख्यातवृत्तं स्यात्पञ्चसन्धिसमन्वितम् ।
विलासादिगुणवद् युक्तं नानाविभूतिभिः ॥ ३०४ ॥ सुखदुःखसमुद्भात नानारसनिरन्तरम् । पञ्चादिका दशपरास्तत्राङ्काः परिकीर्तिताः ॥ ३०५ ॥ प्रख्यातवंशो राजर्षिीरोदात्तः प्रतापवान् । दिव्योऽथ दिव्यादिव्यो वा गुणवान्नायको मतः ॥ ३०६ ॥
ननु एषां किंकि लक्षणमित्याशङ्कय बोधसौकायाह-३६० विनेत्यादिना ।
३१० विशेष विशेषकं लक्षणमित्यर्थः । विशिनष्टयवच्छिनत्तीति तं तथोक्तम् । पचादित्वादच । विना। सर्वषामुद्दिष्टानां रूपकाणां प्रकरणादीनां नवानामुपरूपकाणां नाटिकाऽऽदीनामष्टादशानां चेत्यर्थः । लक्ष्म लक्षणम् । नाटकवत् नाटकस्येव । 'तत्र तस्येव ।' ५।१।११६ इति वतिः । मतं भरतादिभिरङ्गीकृतमित्यर्थः ॥ ३०३ ॥
कारिकां सुगमयितुमाह-सर्वेषाम् इत्यस्यार्थ' इति शेषः । प्रकरणादिरूपकाणां प्रकरणादीनां नवानां रूपकाणामित्यर्थः । च तथा । नाटिकाऽऽद्युपरूपकाणां नाटिकाऽऽदीनामष्टादशानामुपरूपकाणामित्यर्थः ।
ननु तर्हि किं नाम नाटकमित्याशङ्कायामाह-३११ नाटकमित्यादि।
३११ ख्यातवृत्तं ख्यातं महाऽनुभावैर्वर्णिततया प्रसिद्धं वृत्तं चरितं नायकादेर्यत्र तथोक्तम् । एतेन-पूर्ववर्णितमेव चरितमुपजीव्य नायकादेश्वरितं नाटके वर्णनीयमिति दर्शितम् , पश्चसन्धिसमन्वितं पञ्चसन्धयो वक्ष्यमाणास्तै। समन्वितम् । विलासद्भर्यादिगुणवत् विलासः (प्रियासङ्ग उद्यानविहारादिवा)च ऋद्धिः(अभ्युदयः)च गुणाः (धैर्यादयः) चेत्येते सन्त्यस्मिन् वय॑मानास्तथोक्तम् । नानाविभूतिभिर्नानाविभूतिभिरमात्यादिभिःसद्भिः सहायैः । युक्तम् । सुखदुःखसमुद्धति सुखदुःखाभ्यां समुद्भतिः समुद्भवो यत्र तथोक्तम् । 'सुखदुःखोत्पत्तिकृतम्'इति मातृगुप्ताचार्याः । नानारसनिरन्तरं नाना विविधा रसास्तैः शृङ्गारहास्यादिभी रसैनिरन्तरं व्याप्तम् । समस्तपाठे तु-सुखं च दु:खं च समुद्भः (मुदा हर्षेण सह वर्त्तते, इति समुद् असौ भूरिति तथोक्ता) च ऊतिश्च नानारसाश्चेति तैर्निरन्तरं व्याप्तमिति तथोक्तम् । मुत् हर्षः, भूः स्थानम् , ऊतिः रक्षा च । अवनं रक्षणमित्यूतिः 'ऊतियूतिजूतिसातिहेतिकीर्तयश्च ।' ३।३।९७ इति निपातनम् । यद्वा-सुखदुःखयोः समुद्भतिस्तया नानारसनिरन्तरमित्यर्थः । नाटकं नटेन निर्वृत्तो नाटः (नटकर्ताकोऽभिनयः) तेन गर्वितमिति तथोक्तम् । अत एव-'विना विशेष सर्वेषां लक्ष्म नाटकवन्मतम् ।' इत्युक्तम् । अभिनय. प्रधानभूतमिति भावः । तेन निवृत्तम् ।' ४१२१६८ इत्यण् । 'अवक्षेपणे कन्।' ५।३।९५ इति कन् । यद्वा-नाटयति अभिनयोत्कर्षमहिम्नाऽभिनयपरानिव करोतीति तथोक्तम् । स्पात् । तत्र तस्मिन्नाट के इत्यर्थः । पश्चादिकाः पञ्चसङ्ख्यातो न न्यूना इति भावः । दशपरा दशसङ्ख्यातो नाधिका इति भावः । अङ्का वक्ष्यमाणलक्षणा विभागविशेषा इति तात्पर्य्यम् । अत एव मेदिनीकारेणोक्तम्-"अङ्को रूपकभेदाङ्गश्चिह्न रेखाऽऽजिभूषणे ।" इति । परिकीर्तिताः। तथा-'तत्रेति पूर्वतोऽन्वेति । प्रख्यातवंशः प्रख्यातो वंश: पितृपितामहादिपूर्वजव! यस्य तथोक्तः । धीरोदात्तो निरुक्तलक्षणो नायकविशेषः, यद्वा-धीरोऽसावुदात्त इति तथोक्तः । विशेषणविशेष्यभावस्य प्रायिकत्वाद्विशेषणसमासः । प्रतापवान् दिग्विजयादिसमर्थः । राजर्षिः। अथ यद्वेति भावः । दिव्यो दिव्यत्वाभिमानी। वाऽथवा । दिव्यादिव्यो दिव्यत्वेऽप्यदिव्यत्वाभिमानीत्यर्थः । गुणवान् गाम्भीय्यौदार्यादिगुणसम्पन्नः । नायकः। मतः।