________________
परिच्छेदः ]
रूपकस्य भेदानाह
किञ्श्व
रुचिराख्यया व्याख्यया समेतः ।
३०८ नाटकमथ प्रकरणं भाणव्यायोगसमवकाराडेमाः । हामृगाङ्कवयः प्रहसनमिति रूपकाणि दश ॥ ३०० ॥
३०९ नाटिका त्रोटकं गोष्ठी सहकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥ ३०९ ॥ संलापकं श्रीगदितं शिल्पकं च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥ ३०२ ॥ अष्टादश प्राहुरुप रूपकाणि मनीषिणः ।
४१५
वा, तत्त्वं च दृश्यत्वरूपकत्वाभिन्नम्, तथा - रूपकं नाम रूपयति अन्यसाधर्म्यमन्यत्र प्रत्याययतीति तथोक्तम्, तत्त्वमस्येवं दृश्यत्वाभिनेयत्वाभिन्नम् । तथा सति अभिधानपार्थक्यं केवलमभिधानवैलक्षण्यव्युत्पादनार्थम् । एवं दृश्यमभिनेयं रूपकं वा नाम्नैव भिन्नं तच्चाभिनयमूलम् अभिनयश्च नायिकादिसाधर्म्यानुकरणम् । अत एवोक्तं भरतमुनिना - "विभावयति यस्माच्च नानाऽर्थान् हि प्रयोगतः । शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयो मतः ॥” इति । मन्दारमरन्दकृता तु–“उत्पादयन् सहृदये रसज्ञानं निरन्तरम् । अनुकर्तृस्थितो योऽर्थोऽभिनयः सोऽभिधीयते ॥" इति । एतस्य चत्वारो भेदाः, भरतमुनिनाऽपि तथोक्तम् - "आङ्गिको वाचिकचैवमाहार्यः सात्त्विकस्तथा । इत्येवाभिनयो विप्राः ! चतुर्धा परिकीर्तितः ॥” इति । तत्राङ्गिको नाम, अङ्गेषु शिरोहस्तवक्षः पार्श्वकटिचरणेष्वक्षिभ्रुकुटिनासाऽधरकपोलचिबुकेषु च नियुक्त इति तथोक्तः । 'तत्र नियुक्त: । ४/४/६९ इति ठक् । 'अङ्गैर्जयतीति, जित इति वाssङ्गिकः । ' तेन दीव्यति खनति जयति जितम् ।' ४/४/२ इति ठक्' इत्येके । 'अङ्गैः संस्कृत इत्याङ्गिकः । 'संस्कृतम् | ४|४|३ इति ठक्' इत्यपरे । 'अझैर्निर्वृत्त इत्याङ्गिकः । 'निर्वृत्तेऽक्षद्यूतादिभ्यः । ४|४|१९' इति बहवः । ' अक्षद्यूतादिष्वपठितस्वात् 'निर्वृते' इति योगविभागाद्रक्' इति केचित् । वाचि नियुक्तो वाचिकः, अत्रापि पूर्ववहक् । न तु - " वाचो व्याहतार्थायाम् ।' ५।४।३५ इति ठक् । अभिनयविशेषणत्वानुपपत्तेः । आहियते वेषादिना साम्यमधिक्रियते इत्याहार्यः । 'ऋहलोर्प्यत् ।' ३।१।१२४ इति ण्यत् । वेषादिना साम्यानुकरणमाहार्यो नामाभिनय इति तात्पर्यम् । सत्त्वेन जितः संस्कृतो वेति सत्त्वे वा नियुक्त इति सात्त्विकः । सत्त्वं च रजस्तमोभ्यां शून्यस्य मनसः काऽपि अवस्था, सात्त्विकश्व स्तम्भस्वेदादिभावात्माऽभिनयः । इति ।
एवमभिनयं निरूप्य रूपकं विशेषतो निरूपयितुं प्रवृसस्तत्रतावत्तस्य भेदाभिधानं प्रतिजानीते-रूपकस्येत्यादिना । स्पष्टम् ।
३०८ नाटकम् | अथ | प्रकरणम् । भाणव्यायोगसंमवकारडिमा भाणः, व्यायोगः, समवकारः, डिमश्चेत्यर्थः । ईहामृगाङ्कवीथ्य ईहामृगः, अङ्कः, वीथी चेत्यर्थः । तथा-प्रहसनम् । इत्येवम् । दश । रूपकाणि मतानीति शेषः ॥ ३०० ॥
अस्य भेदान्तरं निर्दिशति किञ्च भेदान्तरमपि निर्दिश्यते ३०९ नाटकेत्यादिना ।
३०९ नाटिका । त्रोटकम् । गोष्ठी । सट्टकम् । नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रस्थानम्, उल्लाप्यम्, काव्यं चेत्यर्थः । प्रेङ्खणम् । तथा। रासकम् । संल्लापकम् । श्रीगदितम् । शिल्पकम् । च तथा । विलासिका । दुर्मल्लिका । प्रकरणी । हल्लीशः । च पुनः । भाणिका । इत्येवम् । अष्टादश । उपरूपकाणि (कर्म) । मनीषिणो विद्वज्जनाः ( कर्तृ ) । प्राहुः ॥ ३०१ ॥ ३०२ ॥