________________
४१४
तस्य रूपकसञ्ज्ञाहेतुमाह
साहित्यदर्पणः ।
३०६ तदूपारोपात्तु रूपकम् ॥ २९८ ॥
तद् दृश्यं काव्यं नटे रामादिस्वरूपारोपाद्रूपकमित्युच्यते । कोऽसाभिनय इत्याह
३०७ भवेदभिनयोऽवस्थाग्नुकारः, स चतुर्विधः । आङ्गिको वाचिकचैवमाहाय्यः सात्विकस्तथा ॥ २९९ ॥ नरङ्गादिभी रामयुधिष्ठिरादीनामवस्थाऽनुकरणमभिनयः ।
[ षष्टः
समौ ।' इत्यमरोक्त्याः मनोगतभावाभिव्यञ्जकस्तत्तदवस्थाऽनुकारात्मा नृत्यविशेषः । तथा च-नाटयेन तत्तदवस्थानु करणात्मनाऽभिनीयमानं नायकादिचारितमभिनेयं, तत्स्वरूपत्वाच्च काव्यमिति फलितम् । नायकादिचरितं च ' शब्दबोध्यो व्यक्त्यर्थः' इतिदृशा शब्दोन्नेयम् । यद्वा-अभिनेयमत्रास्तीति अभिनेयम् । अर्शादित्वादच् । एवं च - अभिनयोचित - नायकादिचरिताद्यभिन्नः शब्दबोध्योऽर्थस्तच्छालि वा काव्यम् । इति फलितम् ।
कारणान्तरेण सञ्ज्ञान्तरं वक्तुं प्रतिजानीते तस्याभिनेयस्येत्यर्थः । रूपकसज्ञाहेतुं रूपकमिति सञ्ज्ञाऽन्तरं वर्त्तते, तस्य यो हेतुस्तमित्यर्थः । आह - ३०६ तदित्यादिना ।
३०६ तदभिनेयं दृश्यं काव्यमित्यर्थः । रूपाटोपाद्रूपस्य रामादिखरूपस्यारोपो ऽभेदेन प्रत्यायनं तस्मात् । तु पुनः । रूपकं रूपयत्यभेदेन प्रत्याययतीति तथोक्तम् । 'उच्यते' इति शेषः । ' ण्वुल्तृचौ ।' ३।१।१३३ इति ण्वुल् ॥३१९ ॥
तदेव विवृणोति तदित्यादिना ।
तत् ‘अभिनेयापरपर्यांयमि’ति शेषः । दृश्यम् । काव्यम् नटेऽभिनेतरि । रामादिस्वरूपा रोपाद्रामादेर्शायकादेरारोपस्तस्मात्तं निमित्तीकृत्य प्रवृत्तत्वादिति भावः । रूपकम् । इतीत्येवमित्यर्थः । उच्यते । अयम्भावः"यथा मुखादौ पद्मादेरारोपो रूपकं मतम् । तथैव नायकारोपो नटे रूपकमुच्यते ॥' इति नयः, अत्र च नायकपदेन नायकनायिकतदुभयवयस्यादिग्रहणं बोध्यम् । तथा-नायकाद्यारोपोऽपि न रूपकं, किन्तु तन्निमित्तीकृत्य किमपि नाय - कादिचरिताद्येव, अथापि अभेदोपचारादिदमुक्तम् । तथा च - मुखादौ पद्मादेरिवाभिनेतारे नायकादेरारोपमुपजीव्य प्रवृत्तं यत्तत् रूपकम् । अन्यस्मिन्नन्यत्वकल्पनमारोपः, अन्य इव भूत्वाऽन्यस्यानुकर्तृत्वमभिनयश्चेत्यारोपाभिनयपदार्थयोर्वैधर्म्याभावः । इदमवधेयम् - काव्यं रसप्राणः, रसो यथा न तिरोधीयेत तथैव प्रवृत्तोऽभिनयोऽभिनयः । अन्यथा सर्वमेव विरुध्येत । इति ।
एतदेव बोधसौकर्याय स्वयं विवरीतुं प्रतिजानीते - असौ ' अभिनेयमूलभूत' इति शेषः । अभिनयः कः किस्वरूपः ? इत्येव जिज्ञासायाम् । आह-३०७ भवेदित्यादिना ।
३०७ अवस्थाऽनुकारोऽवस्थाया नायकादिसाधर्म्यस्यानुकारो ऽनुकरणमनुकृत्य प्रत्यायनमिति यावत् तथोक्तः । अभिनयः । भवेत् । स च कतिविध इत्याशङ्कायामाह - स निरुक्तलक्षणोऽभिनय इत्यर्थः । आङ्गिकः । च । वाचिकः । एवम् | आहार्यः । तथा । सात्त्विकः । 'इत्येव' मिति शेषः । चतुर्विधः । 'वोध्यः'इति शेषः ॥ २९९ ॥
एतदेव पुनः स्पष्टयति-नटै: ( कर्तृभिः) । अङ्गादिभिरङ्गवचनादिभि: ( कारणैः ) । रामयुधिष्ठिरादीनां 'नायकादीना' मिति शेषः । अवस्थाऽनुकरणमवस्थायाः साधर्म्यस्यानुकरणम् इति तथोक्तम् । 'नायकादे रिति शेषः । अभिनयः । 'स चाङ्गिकादिचतुर्विध' इति शेषः । इदम्बोध्यम्-दृश्यमभिनेयं रूपकं चेत्यनर्थान्तरम्, तत्र हि दृश्यं नाम द्रष्टुं योग्यं शक्यं वा तत्त्वं चाभिनेयत्वरूपकाभिन्नमेव, एवम् - अभिनेयं नामाभिनेतुं योग्यं शक्यं