________________
षष्ठः परिच्छेदः ।
एवं ध्वनिगुणीभूतव्यङ्गयत्वेन काव्यस्य भेदद्वयमुक्त्वा पुनदृश्यश्रव्यत्वेन भेदद्वयमाह
____३०४ दृश्यश्रव्यत्वभेदेन पुनः काव्यं द्विधा मतम् ।
अथ
३०५ दृश्यं तत्राभिनेयं
स्फुरन्नानादृश्यं श्रुतिरुचिरताकीर्तितकलं प्रमोदस्याधानं सहृदयजनस्यान्तरनघम् ।
समस्तं प्रत्यक्षं स्फुटमुपनयन्तं शुभदृशां तमेकं सर्वेषां स्थितिलयपदं नौमि कमपि ॥ यद्यपि ध्वनिगुणीभूतव्यङ्गथयोर्भेदप्रभेदावतारः सङ्ख्याऽतीतः, तदेवं काव्यस्य भेदावतारोऽपि तथाविध एवेति बाढं; तथाऽपि प्राधान्येन व्यपदेशा भवन्ती' त्युपजीव्य ध्वनिर्गुणीभूतव्यङ्गयं चेति भेदद्वयमवतिष्ठते, तत्तद्भेदप्रभेदानां ध्वनित्वगुणीभूतव्यङ्गयत्वानपायात् ; काव्यस्याप्येवं भेदद्वयमेव, एतस्य तदभिन्नत्वात्तन्मूलत्वाद्वा तदिति द्विप्रभेदस्यास्य प्रकारान्तरेण भेदान्तरं निर्दष्टुं प्रतिजानीते-एवमित्यादिना ।
एवं निरुक्तप्रकारेण "ध्वनिगुणीभूतयोरसङ्ख्यत्वेऽपि 'प्राधान्येन व्यपदेशा'इति नयेने"ति शेषः । ध्वनिगुणीभूतव्यङ्यत्वेन ध्वनित्वेन गुणीभूतव्यङ्गयत्वेन चेत्यर्थः । ध्वन्यते प्राधान्येन व्यज्यते इति, वन्यतेऽर्थो यति ध्वनिः, गुणीभूतं व्यङ्गथमिति, यत्र वेति तथाभूतम् । 'खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यथ' इत्यौणादिकशास्त्रेणेप्रत्ययः । अत्रेदं बोध्यम्-ध्वनिः काव्य कूटस्थस्थानापन्नम्, इतरत् पुनर्जीवस्थानापन्नम् । तथा च-अनवरतं परितः प्रकाशमानं यथा परमात्मनः स्वरूपं, तथैव ध्वनिकाव्यस्य, अत एवास्य ध्वन्यमानार्थत्वेन ध्वनिरिति व्यपदेशः । ध्वनिश्चागुणीभूतव्यङ्गयापरपर्य्यायः प्रधानभूतस्फोटात्मकव्यङ्ग्यव्यञ्जकः शब्दः । अत्राहुः-"ननु कथं शब्दात् पदार्थवाक्यार्थावगमः ? आशुविनाशिनां क्रमिकाणां वर्णानां मेलकाभावेन क्रमादवगन्तुमशक्यत्वात् । इति चेत् ? एवम्पूर्वपूर्ववर्णानुभवजनितसंस्कार विशेषान्तिमवर्णानुभवेन स्फोटोऽभिव्यज्यते । स च स्फुटयति प्रकाशयत्यर्थमिति, स्फोटनं वा स्फोट इत्येवं ध्वन्यभिन्न एव, असौ नित्यो ब्रह्मस्वरूपः सकलप्रत्येयप्रत्यायनशक्तः एतद्वयञ्जकश्च वर्णात्मकः शब्दः, तत्र वृत्तिय॑नना नाम, अभिधालक्षणातात्पर्य्याख्याभ्यो वृत्तिभ्यो भिन्ना सङ्केताद्यनुत्पत्तेः । इति । स एव जीवो यथादेहादावहमित्यध्यासमहिनाऽभिभुतस्वरूपो गीयते, तथैव वाच्यलक्ष्यतात्पर्येभ्यो न्यग्भावमध्युषितः स्फोट एव गुणीभूतव्यङ्गयतयाऽभिधीयते । इति । काव्यस्य चमत्कारप्राणवाक्यात्मकस्य । भेदद्धयं ध्वनिरिति गुणीभूतव्यङ्गय चेति द्वौ भेदौ । उक्त्वा स्थित इति शेषः । पुनः। 'काव्यस्येति शेषः । दृश्यश्रव्यत्वेन दृश्यत्वेन श्रव्यत्वेन चेत्यर्थः । अत्र श्रव्यदृश्यत्वेने'त्यनुक्त्वा तथाऽभिधानं तु प्रथम दृश्यस्यैव प्रतिपादयिष्यमाणत्वादिति बोध्यम् । द्रष्टुं योग्य दृश्य, श्रोतुं योग्यं श्रव्यम् ; 'ऋगुपधाचाक्लपि चूतेः ।' ३।१।११० इति दृशेः क्यप् । 'अचो यत् ।' ३।१।९७ इति शृणोतेर्यति 'सार्वधातुकार्धधातुकयोः ।' ७।३।८४ इति गुणे च'वान्तोयि प्रत्यये।' ६।११७९ इत्यव् । भेदद्वयम् । द्वाववयवो यस्येति द्वयं, भेदयोर्द्वयमिति भेदद्वयम् तत। आह ३०४ दृश्यश्रव्यत्वेनेत्यादिना ।
३०४ काव्यम् । पुनः तथा ध्वनित्वगुणीभूतव्यङ्गयत्वाभ्यां द्विधा भिद्यत इत्यङ्गीकारानन्तरम् । दृश्यश्रव्यत्वद्विधा । मतमङ्गीकृतम् । 'आचार्य'रिति शेषः । तथाच काव्यं चतुर्भेदमिति सिद्धम् । अथ दृश्यस्य स्वरूपकथनपुरःसरं सज्ञान्तरं निर्दिशति अथ ३०५ दृश्यमित्यादिना ।
३०५ तत्र तयोर्दश्यश्रव्ययोर्मध्ये । दृश्यं तन्नामकं काव्यमिति भावः । अभिनेयं तत्स कम् । 'ज्ञेय'मिति शेषः । अयम्भावः-अभिनेयं नाम अभिनेतुमभिनयेन दर्शयितुं शक्यं योग्यं वा यत्तत् । अभिनवश्च-'व्यजकाभिनयौ