________________
साहित्यदर्पणः।...
[षष्ठःतस्याः स्वरूपमाह३१७ आशीर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रयुज्यते ।
देवद्विजनृपादीनां तस्मान्नान्दीति सज्ञिता ॥ ३२१ ॥ मङ्गल्यशङ्खचन्द्राब्जकोककैरवशंसिनी ।
पदैर्युक्ता द्वादशभिरष्टाभिर्वा पदैर्युता ॥ ३२२ ॥ ननु कीदृशीयं तर्हि नान्दीत्यतस्तत्स्वरूपमभिधातुं प्रतिजानीते-तस्या इत्यादिना । तस्या नान्द्या इत्यर्थः 'अस्या' इति पाठान्तरम् । स्वरूपं लक्षणम् । आह-३१७ आशीरित्यादिना ।
३१७ यस्मात् । 'कारणात्' इति शेषः । देवद्विजनृपादीनाम् । आदिना-गुरुप्रभृतीनां ग्रहणम् । आशीवचनसंयुक्ताऽऽशीर्वचनमाशीर्वादस्तेन संयुक्ता । स्तुतिः । प्रयुज्यते । तस्मात् । नान्दी। इति । सज्ञिता । अयम्भाव:-" नन्दन्ति यस्मात्सर्वऽपि तस्मानान्दीति कीर्त्यते। पूज्यानां स्तवनं तत्र तथाऽऽशीर्वचनं महत् ॥"इत्युक्त्या पूज्यानां देवादीनां स्तवनं, तेषां पराभ्युदयाथै चाशंसनं नान्दीसञ्ज्ञायां कारणम् नान्दी हि नन्दना. परपर्यायस्यानन्दस्य लाभरूपा । इति । अत एव-मङ्गल्यशङ्खचन्द्राब्जकोककैरवशंसिनी मङ्गल्यं मङ्गलहेतुभूत वस्तु च शङ्खश्च चन्द्रश्चाब्जं कमलं च कोको चक्रवाकौ च कैरवं कुमुदं चेति तानि शंसतीत्येवंशीलेति तथोक्ता। 'मङ्गले साधु'इति मङ्गल्यम्"तत्र साधु' ४ । ३ । ९८ इति यत् । मङ्गल्यं च स्रक्चन्दनादीति बोध्यम् , तेन-'मध्याहार्कमरीचिकास्विव पयःपूरो यदज्ञानतः खं वायुर्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति । यत्तत्त्वं विदुषां निमीलति पुनः स्रग्भोगिभोगोपमं सान्द्रानन्द्रमुपास्महे तदमलं वात्मावबोधं महः ॥” इत्यादौ स्रगादिपदविन्यासेन नान्दीत्वमव्याहतम् । वस्तुतस्तु-नायं नियमः, यत्-शखादीनां शंसनेनैव नान्दीत्वमिति, किन्तु एतद्दिग्दर्शनम् , एतेन यथातथं सूत्रधारकर्तृकं स्तवनादिरूपं मङ्गलाचरणं नान्दीति दरमुकुलितनयनं सनयनैरवधेयम् । तथा-द्वादशभिर्द्वादशसङ्ख्याकैः । पदैरवान्तरवाक्यरूपैः सुतिडन्तरूपैः पादरूपैर्वा शब्दरित्यर्थः । तथोक्तं नाट्यप्रदीपकृता-"श्लोकपादः पदं केचित् सुपूतिङन्तमथापरे । परेऽवान्तरवाक्यैकस्वरूपं पदमूचिरे ॥"इति, “पदं शब्दे च वाक्ये च..श्लोकपादेऽपि च क्लीबम्.." इति मेदिनीकरण च, 'शब्दे सुबन्ते तिङन्ते वा। वाक्येऽवान्तरवाक्ये।' इति विवृतिकृता च । युक्ता। वाऽथवा । अष्टाभिरष्टसङ्ख्याकैः । पदैरवान्तरवाक्यैः सुतिङन्तैः पादरूपैर्वा । युता। 'उत'इति पाठान्तरम् । तदेवं षड्डिधानान्दी, तत्राद्या यथा-"नमोऽस्तु सर्वदेवेभ्यो १ द्विजातिभ्यस्ततो नमः २ । जितं सोमेन देवेन (वै राज्ञा) ३ शिवं गोब्राह्मणाय च ४ ॥ ब्रह्मोत्तरं तथैवास्तु ५ हता ब्रह्मद्विषस्तथा ६ । प्रशास्त्विमां महाराजः पृथिवीं च ससागराम् ॥ राष्ट्र प्रवर्धतां चैव' ८ रङ्गस्याशा समृध्यतु ९ । प्रेक्षाकर्तुमहान् धर्मों भवतु ब्रह्मभाषितः १०॥ काव्यकर्तुर्यशश्चापि धर्मश्चापि प्रवर्धताम् ११ । इज्यया चानया नित्यं प्रीयन्तां सर्वदेवताः १२॥” इति। द्वितीयोदाहृतैव ग्रन्थकृता । तृतीया यथा, मालतीमाधवे-“सानन्दं नन्दिहस्ताहतमुरजरवाहृतकौमारबर्हिस्त्रासानासाऽपरन्धं पविशति फणिपतौ भोगसकोचभाजि। २ गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेवैयानक्यश्चिरं ३ वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥ ४ चूडापीडकपालसकुलगलन्मन्दाकिनीवारयो ५ विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः६।पान्तु त्वामकठोरकेतकशिखासन्दिग्धमुग्धेन्दवो ७ भूतेशस्य भुजङ्गवल्लिवलयस्तनद्धजूटाजटाः ८ ॥ पक्ष्मालीपिङ्गलिम्नः कण इवतडितां यस्य कृत्स्नः समूहो ९ यस्मिन् ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव । १० आर्चनिष्टप्तचूडाशशिगलितसुधासारझङ्कारिकोण ११ तात्तीयीकं पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥" १२ इति । तुऱ्या यथा-"आनन्दं विदधातु पद्मवसतिः, १ शम्भुः शिवं यच्छतु २ श्रीनाथः श्रियमातनोतु ३ तनुता सीतापतिर्वाञ्छितम् ४ । हेरम्बः कुरुतामविघ्नमनघं ५ वाग्ब्रह्मविद्योतता: ६ व्यासोक्तं तदुदेतु वस्तु ७ भरतो नाट्येऽस्तु नः कौतुकी ८॥" इति (पद्मवसतिब्रह्मा लक्ष्मीर्वा)। पञ्चमी यथा, महावीरचरिते-“अथ । २ स्वस्थाय देवाय ३ नित्याय ४ हतपाप्मने ५। त्यक्तक्रमविभागाय ६ चैतन्यज्योतिषे ७ नमः ८॥" इति । (अत्र हतपाप्मतयाऽऽशीर्वचनम् ) । षष्टी पुनरुदाहृतैव ग्रन्थकता ॥ ३२१ ॥ ३२२ ॥