________________
- साहित्यदर्पणः। .
[पंचम:३०२ स्मृतिर्न च रसादिधीः ॥ २९६ ॥ यञ्च संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः' । इति केचित्, तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता।
कुत इत्यत आह-सूचनबुद्धेः सङ्केतसम्बन्धिन्या बुद्धेः । अपि । सङ्केतादिलौकिकप्रमाणसापेक्षत्वेन सङ्केतादीनि तानि लौकिकप्रमाणानीति तेषां सापेक्षत्वं तेन तद्वारेति यावत् । न । अनुमानप्रकारताऽङ्गीकारात् । अनुमानस्य प्रकारता विभेदस्तस्याः अङ्गीकारस्तस्मात् ।।
__ अत्रेदं तत्त्वम्-'चेष्टाऽपि प्रमाणान्तरमिति मतं केषाञ्चित् । यथा-'एतद्वस्त्रं दशरुप्यकमूल्यकम्, एतत्स्वर्ण षोडशाणकतोलकम् ; इयं षोडशवर्षीया'इत्यादौ वस्त्रादीनां तर्जनीतोलनादिना मूल्याद्यवगमः । इति असावपि न व्यायबोधनक्षमा । व्यङ्गयस्य लौकिकप्रमाणानधीनत्वात् । व्यङ्गयो ह्यलौकिकोऽर्थः, प्रत्यक्षादिप्रमाणजातातन्त्रः; तत्तामालम्व्यैव स्फुरणशीलत्वाभावात् । चेष्टाया: पुन: सङ्केतादिप्रमाणाधीनत्वात् । यथा हि-'एतद्वस्त्रं दशरूप्यकमूल्यकम् , एतत्परिमितत्वात् । एतत् स्वर्ण षोडशाणतोलकमेतत्समानत्वात् । इयं षोडशवर्षीया एवम्भूताङ्गत्वात् । इति । यथा वा-इयं षोडशवर्षीया वर्धमानाम्लानपीनत्वोन्नतत्वादिप्रयोधरादिशालित्वात् , यनैवं तनैवम् । इति । इतरेषां पुनर्मते नानुमानादतिरिक्तं चेष्टानाम प्रमाणम् , तदुक्तं मुक्तावलीकारैः-'चेष्टाऽपि न प्रमाणान्तरम्, तस्याः सङ्केतग्राहकशब्दस्मारकत्वेन लिप्यादिसमशीलत्वात् शब्द एवान्तर्भावात् ।। यत्र तु व्याप्त्यादिग्रहस्तत्रानुमितिरेव । इति ।
ननु तर्हि स्मृतिरेव स्याद् व्यङ्गयावगमस्वरूपभूतेति चेन्नेत्याह-३.२ स्मृतिरित्यादि।
३०२ रसादिधी रसादीनां व्यङ्गयानां धीवौद्धः । च पुनः । स्मृतिः स्मरणं संस्कारमात्रजन्यो ज्ञानविशेषः । न 'सम्भवतीति शेषः ॥ २९६ ॥
अत्रेदं निष्कृष्टम्-दृष्टानां श्रुतानां वा पदार्थानां दर्शनन श्रवणेन वा मनोनिविष्टत्वं संस्कारस्तन्मात्रजन्यं पुनर्ज्ञानं स्मृतिरित्युच्यते । मात्रपदेन प्रत्यभिज्ञायामतिव्याप्तेर्निरासः । तथा च-अनुभूतवस्तुनः उद्बोधकसहकारेण संस्काराधीनं. ज्ञान स्मृतिरिति फलितम् । यथा हि-दृष्टं श्रुतं दृष्टा श्रुत्वा वा ‘स घटः, सा प्रिया'इति दृष्टश्रुतविषयकसंस्कारमात्रजन्य ज्ञानम् । रसावतारावसरे च 'सोऽयं राम'इति ज्ञानम् , तच्च संस्कारजन्यत्वे सति प्रत्यक्षताऽवगाहि इति नैतज्ज्ञानं स्मृतिरिति वक्तुं शक्यते । इति ।
ननु तर्हि संस्कारजन्यं ज्ञानं स्मृतिरित्येवास्तु, स्मृतेर्लक्षणमित्याशङ्कय दूषयति-यच्चेत्यादिना । . यत् । चतु। 'संसारजन्यत्वात् । 'हेतो'रिति शेषः । रसादिबुद्धिः। स्मृतिर्बोध्येति' शेषः । इती. हवम । केचित् । 'आहुरिति शेषः । तत्र तस्मिन् समर्थने । अपि । प्रत्यभिज्ञायां संस्कारजन्यत्वे सति प्रत्यक्षावगाहिनि ज्ञाने । अनैकान्तिकतया व्यभिचारितया । हेतोः। आभासता साक्षात्तयाऽवर्तमानत्वम् । नच प्रत्यभिज्ञाऽपि रसादिबुद्धिरिति वक्तुं शक्यम्, तत्र हि सोऽयं घट'इति संस्कारजन्यज्ञानशवलितं प्रत्यक्षताऽवगाहि ज्ञानम् । अत्र पुनः ‘स एवास्मि सीताविषयकरातमा'निति संस्कारजन्यज्ञानशबलितं परस्मिन्नपि खाभेदाध्यवसायात्मकं ज्ञानम् । अत एवैषा भावनाविशेषमहिना सहृदयानामेव, नतु तत्तत्स्मृतिमात्रवतां, न वा तत्तत्प्रत्यभिज्ञावतामेव; सम्पद्यते । अत्रायं सिद्धान्तः-न ह्यभिनये साक्षादामः, सीता वा; किन्तु अभिनेत्रवोत्तम्भ्यमानस्वरूपास्ते ते । प्रत्यभिज्ञास्थले च रामः सीताऽपि वा साक्षात् न तु केनापि कल्प्यमानस्वरूपाः । तत्र पुनस्तेषां तथात्वेऽपि स्वाभेदाध्यवसायः । अत्रैतेषामेवम्भूतत्वेऽपि न खाभेदाध्यवसायः । असौ पुनर्दरमास्तां किन्तु तदभेदाध्यवसायोऽपि न; 'स एवायं घट'इति ज्ञानस्य प्रत्याभिज्ञायामसम्पन्नत्वात् । अथ-श्रव्ये न कश्चिदभिनेता न च तेनोत्तम्भ्यमानोत्तम्भिता वा रामाद्यवस्था, किन्द कविनैव उत्तम्भितमात्रस्वरूपा । नच तदर्थ श्रुत्वा बुद्धा वा तत्तेषां स्मृतिस्तदा रसादिविषयिणी बुद्धिसिंत वक्तमहम् । तत्तदर्थ श्रुत्वाऽपि वा बुद्धाऽपि वा सहृदयव्यतिरिक्तानां तत्तत्स्मृतेः कदाचित्सद्भावेऽपि रसादिघिर्षायण्या बुद्धेरसम्भवात्, अदृष्टाश्रुतानां च स्मृतेः प्रत्यभिज्ञायाश्च सद्भावं वक्तुमशक्यतया तथाविधानामपि तत्र