________________
रुचिराख्यया व्याख्येया समेतः ।
एतेन-अर्थापत्तिवेद्यत्वमपि व्यङ्ग्यानामपास्तम् । अर्थापत्तेरपि पूर्वसिद्धव्याप्तीच्छामुपजीव्यैव प्रवृत्तेः । यथा- 'यो जीवति, स कुत्राप्यवतिष्ठते; जीवति चात्र गोष्ठ्यामविद्यमानश्चैत्रः ।' इत्यादि । किञ्च - वस्त्रविक्रयादौ तर्जनीतोलनेन दशसङ्ख्याऽऽदिवत् सूचनबुद्धिवेद्योऽप्ययं न भवति । सूचनबुद्धेरपि सङ्केतादिलौकिकप्रमाणसापेक्षत्वेनानुमानप्रकारताऽङ्गीकारात् ।
परिच्छेदः ]
४०९
धमस्यान्तिक' मित्यत्रा ' धमस्येति' पदम् । तच्च दुःखप्रयोजककर्मशीलतां प्रतिपादयति । तदर्थ: पुनर्वाच्यतादशायां कर्मान्तरसाधारण्येनावस्थितोऽपि व्यङ्ग्यतादशायां दूतीसम्भोगरूपदुःखप्रयोजककर्मशीलत्वेन पर्यवसायीत्यधमपदार्थ एवैष चन्दनच्यवनादीनां पदार्थानां साहाय्यमुपपादयति । एतेषां स्नानकार्यत्वेन निबद्धत्वेऽपि योग्यतया सम्भोगाङ्गभूतालिङ्ग
कार्यत्वस्य प्रतिसन्धानेऽपि तद्व्यञ्जनामुखेन तत्साहाय्येनैव सम्भोगगमकत्वमिति विशेषः । एतेन च मीचकर्मकारित्वस्याधमपदार्थस्य साधकं व्यङ्गयमित्यपास्तम् । प्रेषणसापेक्षत्वेन विस्मृतप्रेमतयाऽपि तत्सम्भवात् । एवं च - अत्राधमपदार्थ एव प्रधानभूतः । स च प्रमाणादनपेतो वेति सन्देहापन्न एव नतु निर्धारितः । तथा सति तस्य पक्षधर्मतासन्देहान्नानुमानं सङ्गच्छते । नच शब्दादेव निश्चय इति वक्तुं शक्यम् । तस्य रोषाकुलितकामिनीवचनत्वेनानिश्चायकत्वात् । एवं च–नायकस्याधमत्वानिश्चये सन्दिग्धासिद्धत्वमिति स्थितम् । न च व्यञ्जनापक्षेऽप्ययं दोष इति शङ्कयम् । 'एवविधादेवविधोऽर्थ उपपत्त्यनपेक्षित्वेऽपि स्फुरती' त्यस्य तत्र भूषणत्वात् । इति ।
अथोक्तस्यार्थस्यानुषङ्गिकं फलं दर्शयति- एतेनेत्यादिना ।
एतेन 'व्ययानामनुमानबोध्यत्वनिरासेने ' ति शेषः । व्यङ्गयानां व्यञ्जनया बोम्यानाम् । अर्थापत्तिवेद्यत्वमर्थस्याभिमतार्थस्यापत्तिरापाततः प्रतीतिस्तस्य वेद्यत्वं ज्ञेयत्वम् । अपि । अपास्तं निरस्तम् । कुत इत्याहअर्थापत्तेः । अपि । पूर्वसिद्धव्याप्तीच्छां पूर्वसिद्धाऽसौ व्याप्तिरिति तस्या इच्छेति ताम् । उपजीव्य । श्रित्यावलम्व्येति यावत् । एव नत्वनुपजीव्यापि । प्रवृत्तेः ' बोधयितु' मिति शेषः । यथा । ' यः कश्चित् । जीवति । सः | कुत्रापि कुत्रचित् । अवतिष्ठते । च पुनः । ' य' इति शेषः । जीवति 'स' इति शेषः । अत्रास्याम् । गोष्ठयां सभायाम् | अविद्यमानः न विद्यते इत्यसौ तथोक्तः । चैत्रः । इत्यादि ।
अत्रायं निष्कर्षः - अर्थापत्तिरपि प्रमाणान्तरमिति प्राचां मतम् । यथा--' आयुष्मान् देवदत्तो गृहे नास्ती ' त्यत्रायुष्मतो देवदत्तस्य गृहासद्भावे परत्र सद्भावोऽर्थतः प्रतिपद्यते, यथा वा - ' पीनो देवदत्तो दिवा न भुङ्क्ते ' इत्यत्र पीनस्य देवदत्तस्य दिवा निराहारिणो नक्तमाहारित्वमर्थादापन्नम् । असावप्यर्थापत्तिर्न व्यङ्गयं बोधयितुं क्षमते । व्यङ्गस्य व्याप्तिग्रहाधीनत्वात्, अर्थापत्तेः पुनर्व्याप्तिग्रहोपजीव्यत्वात् । यथा हि देवदत्तो बहिरवतिष्ठते तस्यायुष्मत्त्वेऽपि गृहेऽनुपलब्धेः, यस्ययस्यायुष्मत्त्वेऽपि गृहेऽनुपलब्धिस्तस्य तस्य बहिरवस्थानमिति देवदत्तो नक्तंभोजी दिवाऽभोजिवेऽपि पीनत्वात्, यस्ययस्य दिवाऽभोजित्वेऽपि पीनत्वं तस्यतस्य नक्तम्भोजित्वम् । इति वा । इत्यत एवोदाजिहीर्षतो'तम्- ' यो जीवती ' त्यादि । इति । नव्यानां पुनर्मते नानुमानादतिरिक्ताऽर्थापत्तिः । तेनैवैतस्या गतार्थत्वात् । अस्त्वेवम्, किन्तु यन्मतेऽर्थापत्तिः प्रमाणान्तरं, तैरपि ' तया व्यङ्ग्यार्थबोध ' इति न वक्तुं शक्यम् | व्याप्तिग्रहमनुपजीव्य तत्सत्ताया एव संशयापत्तेः । यन्मने नास्त्यसौ प्रमाणान्तरं तत्कृते नायं वादः । इति ।
एवमर्थापत्तेर्व्यङ्गयबोधकतां निरस्य चेष्टाया अपि निरसितुमाह--किश्चेत्यादि ।
किश्च | 'एतेने 'ति शेषः । वस्त्रविक्रयादौ वस्त्रस्य विक्रय इति, स आदौ यस्य तस्मिन् । वस्त्रविक्रयस्वर्णादिपरिमाणकथनयुवत्यादीयत्तासङ्केतादौ । 'विषय' इति शेषः । तर्जनीतोलनेन तर्जन्या तन्नाम्न्याऽङ्गुल्या तोलनं तेन तद्वारेति यावत् । इदमतन्त्रम् । तेन हस्तसम्पुटादीनामपि लाभः । दशसङ्ख्याऽऽदिवदू दशसङ्ख्यादीनामिवेति । 'दशे'त्यतन्त्रम् । 'तत्र तस्येव । ' ५।१।११६ इति वतिः । सूचनबुद्धिवेद्यः सूचनस्य हस्तचेष्टाss दिरूपस्य सङ्केतस् बुद्धिस्तया वेद्यो ज्ञातुं शक्यः । सूच्यतेऽनेनेति सूचनम् । 'करणाधिकरणयोश्च । ३।३।११७ इति करणे ल्युट् । सङ्केतबुद्धिजन्यबोधविषय इति यावत् । अपि । अयं 'व्यङ्ग्यार्थ' इति शेषः । न नैव । भवति । 'इत्यपि सूचित' मिति शेषः ।
५२