________________
૨૮ साहित्यदर्पणः।
[पञ्चमःमनु वाद्यवस्थासहकृतत्वेन विशेष्यो हेतुरिति न वाच्यम् । एवंविधव्याप्त्यनुसन्धानस्याभावात् । किश्च-एवंविधानांकाव्यानां कविप्रतिभामात्रजन्मनांप्रामाण्यानावश्यकत्वेन सन्दिग्धासिद्धत्वं हेतोः।
व्यक्तिवादिना च अधमपदसहायानामेवैषां पदार्थानां व्यञ्जकत्वमुक्तम् । तेन च तत्कान्तस्याधमत्वं प्रामाणिकन वेति कथमनुमानम् ।
गताऽसी' त्युक्त्योदयमानस्याभिप्रायस्यापि स्थले तेषां विचारशा चन्दननिश्शेषच्यवनादीनां सम्भवाद् व्यभिचारप्रस्त एव तथाविधानुमानहेतुः । एतदेवानुसन्धाय काव्यप्रकाशकारैरप्युक्तम्-तथा-'निश्शेषच्युतेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि, तानि कारणान्तरतोऽपि भवन्ति, अतश्चात्रैव स्नानकार्यत्वेनोक्तानि नोपभोगे एव प्रतिबद्धानी. त्यनैकान्तिकानी'ति ।
तृतीये पक्षे व्यभिचारोऽस्त्येवंति द्रढयितुं तत्र कल्प्यमानामाशको निवारयति-नन्वित्यादिना ।
ननु आशङ्कयते । वक्राद्यवस्थासहकृतत्वेन वक्ताऽऽदौ येषां बोद्धव्यादीनामिति तेषामवस्थास्तासां सह. कृतस्वं वैशिष्टयं तेन । विशेष्यो विशेष साधुरिति तथोक्तः । विशेषणान्तरदानेन समर्थनीयः । हेतुः। 'स्यादिति शेषः । तथा सति व्यभिचाराभावेऽनुमानमवदातमिति भावः । इति । न नैन । वाच्यम् । एवंविधव्याप्त्यनुसन्धानस्यैवंविधा या व्याप्तिस्तस्या अनुसन्धानं तस्य । अभावादसद्भावात् । वाद्यवस्थासहकृतत्वेन विशेष्याया व्याप्तेः शब्देनीपात्तत्वादर्शनादिति भावः ।
अत्रेदं वोध्यम्-यदपि 'दूती सम्भोगवती दृष्टश्रुततत्सङ्गरजया नायिकया सेर्य चन्दननिश्शेषच्यवनादीनामुद्घाटितत्वात्' इति, 'नायकप्रेमवशादेव तद्दौत्यमधिकृतवती दूती सम्भोगवती नायकप्रेममात्रजन्याचन्दननिश्शेषच्यवनादित्वा' दिति वाऽनुमान सङ्गच्छते । तदपि तथाविधाया व्याप्तेः साक्षादनुपात्तत्वेन सम्भवत्येव न तथाऽनुमानम् । इति। तर्कवागीशा अनाहुः-प्रतिपायावस्थासकृतत्वस्य शब्देनानुपस्थानात् प्रमाणान्तरस्य वाऽसम्भवादनुपस्थितिरिति कथं तदन्तभर्भावण व्याप्तिग्रह इति भावः ।' इति ।।
तत्र दोषान्तरमपि दर्शयितुमुपक्रमते-किश्त्यादिना ।
किश्चान्यदपि वक्तव्यमस्ति । किं तदित्याह-एवंविधानां 'नि:शेषच्युतचन्दन-इत्यादिवरूपाणाम् । कवि प्रतिभामात्रजन्मनां कवेः प्रतिभा लोकोत्तरकल्पनोन्मेषशालिनी बुद्धिरिति, कविप्रतिभैवेति कविप्रतिभामात्रं तस्माजन्म येषां तेषाम् । व्यधिकरणो बहुव्रीहिः । काव्यानाम् । प्रामाण्यानावश्यकत्वेन प्रमाणस्य भावः प्रामाण्यं तस्यानावश्यकत्वं तेन । ‘हेतुने ति शेषः । हेतोरनुमानकारणस्य । सन्दिग्धासिद्धत्वम् । सन्दिग्धं सन्देहप्रस्तं च तदसिद्धमिति तस्य भावः तत्त्वम् ।
___ अत्रायम्भावः-'निःशेषच्युतचन्दनं-'इत्यादीनि काव्यानि केवलं कवेः प्रतिभयैव सम्पादितानि, न तत्र काऽपि दूती स्वरूपसती, न वा नायिका क पुनस्तचन्दननिश्शेषच्यवनादीनां गाथा । सत्यामेव भित्तो चित्रसद्भावमभिधातुं युक्तत्वात् । एवं सति-एतदेतन्मूलकमेतत्पुनरेतन्मूलकमिति तत्प्रामाण्याभिधानमपि निरर्थकम् , प्रामाण्यशुन्यत्वे च स्फुटमेव हेतोः सन्दिग्धत्वमसिद्धत्वं च ।।
नन्वेवं सति व्यञ्जनाऽपि कथं तत्रेत्याह-व्यक्तिवादिनेत्यादिना ।
चाथवा । व्यक्तिवादिना व्यञ्जनावादिना । 'निःशेषच्युतचन्दनं-' इत्यत्रेति शेषः । अधमपदसहायाना. मधमपदं सहायः सहायकं येषां तेषाम् । एव नतु तद्भिन्नानामपि । एषाम् । पदार्थानां चन्दनच्यवनादीनाम् । व्यञ्जकत्वं व्यन्जनया प्रतिपादकत्वम् । उक्तम् । तेन तथाऽभिधानेन । च पुनः। तत्कान्तस्य तस्याः कान्त इति तस्य । अधमत्वं नीचत्वम् । प्रामाणिकं प्रमाण सिद्धम् । 'अस्तीति शेषः । वाऽथवा । न प्रामाणिकमिति शेषः । इतीत्येवं सन्देहे । कथं केन प्रकारेण हेतुना वा । अनुमानं 'सिध्येते'ति शेषः।
अत्रेदं बोध्यम्-'निदशेषच्युतचन्दनं-' इत्यादिर्नायकमानेतुमेव प्रेषितां तं पुनः सम्भुज्यैव, न तु तं पुनरनुनीय समुपागतां दूती प्रति स्नानकार्यप्रकाशनमुखेन सम्भोगं प्रकाशयन्त्या विदग्धाया नायिकाया उक्तिरियम् । अथ-'तस्या