________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
४०७ यञ्च-निःशेषच्युतचन्दन-' इत्यादौ दूत्यास्तत्कामुकोपभोगोऽनुमीयतेतत्कि प्रतिपाद्यतया दूत्या, तत्कालसन्निहितैर्वाऽन्यः, तत्कान्यार्थभावनया वा सहदयैः । आद्ययोर्न विवादः तृतीये तु तथाविधाभिप्रायविरहस्थले व्यभिचारः।
अत्रेदं बोद्धव्यम्-‘सा परकामुकोपभोगवती नलग्रन्थीनां तनूलखनादेकाकितया वा स्रोतोगमनात् । यथा प्राक । तथा दृष्टा श्रुता वा कुलटे'ति, 'दा नलग्रन्थिकृततनूलेखा या वा एकाकिनी सती स्रोतोगन्त्री सा परकामुकोपभोगवती या नैवं सा नैव'मिति वाऽनुमानमेवात्रेति महिममहिमा। व्यक्तिवादिनां पुनर्वादव्यक्ति:-'नायं हेतुरेकान्तिकः, 'प्रायेणास्य शिशो: पिता न विरसाः कौपीरपः पास्यती'त्यभिधानसूचितेन स्वकान्तविषयकप्रेमवशादपि तत्सद्भावीपपत्तेः । इति । अथ विवृतिकारा एवमाहुः-'तथा च-यत्र स्नेहेन किं दुष्कर मिति जानतां सर्वेषामेव श्रोतृणां तादृशबोधो न जायते तत्रैव व्यभिचार इति भावः । यदि तु कालान्तरे तादृग्वाक्यप्रयोगेण यस्य कस्यापि श्रोतुस्तादृशार्थबोधाद व्यभिचारी न भवतीति विभाव्यते, तदाऽत्र तद्वाक्यप्रतिपाद्य तादृशार्थद्वयं परकामुकोपभोगप्रतिपादकं तादृशार्थत्वात्' इत्यनुमाने वाधहेतुदोषो द्रष्टव्यः । यथा-गन्धप्रागभावकालीनो घटो गन्धवान्'इत्यादौ तत्कालीनसाध्याभावमादाय बाधः । तथाऽत्रापि व्यक्तिविशेषे वा एवंविधार्थबोधकत्वरूपसाध्याभावमादाय बाधो बोध्यः ।' इति ।
उक्तं हेतोर्व्यभिचारमन्यत्राप्यतिदिशति-यच्चेत्यादिना ।
'निश्शेषच्युतचन्दन-'इत्यादौ ( उदाहृतपूर्वे )। च । दृत्याः प्रेष्याया दास्याः । तत्कामुकोपभोगस्तस्या नायिकाया: कामुक इति, तस्योपभोग इति तथोक्तः । तद्रूपमिति यावत्। यद वस्तु इति शेषः । अनुमीयते'दूती नायिकानायककृतोपभोगा निःशेषच्युतचन्दनस्तनतटादित्वा'दित्यात्मनेति शेषः । तत् । कि किन्ननु । प्रतिपाद्यतया प्रतिपाद्याया भावस्तत्तातया । प्रतिपाद्या चात्र दूत्येव । तामेवोद्दिश्याभिधेयस्य प्रतिपादितत्वात् । दत्या। 'अनुमीयते'इति शेषः । 'कर्तृकरणयोस्तृतीया ।' २।३।१८ इति कतरि तृतीया । वाऽथवा। 'कि'मिति शेषः । तत्का . लसन्निहितैः स काल इति तत्कालस्तं सन्निहिता इति तैः । 'कालाः' २।१।१८ इति द्वितीयया समासः । तस्मिन् काले सन्निधिं भजमा रित्यर्थः । 'दधातेहिः ।' ७।४।४२ इति हिः । अन्यैः प्रतिपाद्यप्रतिपादकाभ्यां दूतीनायिकाभ्यां भिन्नैः । 'अनुमीयते'इति शेषः । वाऽथवा । 'कि'मिति शेषः । तत्काव्यार्थभावनया स काव्यार्थस्तत्काव्यमिति तस्यार्थ इति वा तस्य भावना तया। सहदयः काव्यार्थभावनापरिपक्वधिषणैः । 'अनुमीयते'इति शेषः । आद्ययोः प्राथमिकयोः । 'पक्षयो'रिति शेषः । प्राक् त्रयः प्रश्ना निरूपिताः, तत्र-आद्यप्रश्नद्वयानुसारेण पक्षद्वयम्, अन्त्यप्रश्नानुसारेण पुनरेकः पक्षः । एवमत्र द्वयोः प्राथमिकयोः पक्षयोः स्वीकारे इति भावः । न नैव । विवादो विरुद्धो वादः । वाप्यां स्नानेनापि सम्भवतां निश्शेषच्युतचन्दनत्वादीनां प्रत्यक्षमुपभोगजनितत्वेन दूत्यास्तत्कालसन्निहितानां च परेषां तत्प्रत्यक्षताया एव प्राधान्येन पुरोवर्त्तित्वात् तथा कल्पनायाः पुनरनुपपत्तेः । तु पुनः । तृतीये 'पक्षे' इति शेषः । तथाविधाभिप्रायविरहस्थले तथा यथाऽनुमीयते तत्स्वरूपो विधा प्रकारो यस्य सः तथोक्तोऽसावभिप्राय. स्तात्पर्य तस्य विरहो वियोगोऽभाव इति यावत्, तत्स्थले। व्यभिचारः सञ्चारस्तथाविधाभिप्रायस्थलीयतायाः सम्भव इति यावत् । अलक्ष्ये लक्ष्यवृत्तिर्व्यभिचार इति तथाविधाभिप्रायस्थलवर्तिताया अन्यत्र सम्भव एव व्यभिचारः इति सुव्यक्तम् ।
अत्रेदं तत्त्वम्-नायकमानेतुमेव प्रेषिता, तं पुनरनुपानीय प्रत्युत तं तत्रैवोपभुज्यैकाकिनी तां प्राप्तां दूती चन्दननिशेषच्यवनादिना तथाविधामालक्ष्य तत्प्रेषिकाया नायिकाया वैदग्ध्योक्तिः-'निःशेषच्युतचन्दनं-'इत्यादिः । एवमत्र प्रतिपाद्या (बोद्धव्या) दूत्येव । अथ यदि तथा नायिकाया वैदग्ध्योक्तिमवधार्य तन्नायककृतात्मोपभोगश्चन्दननिश्शेषच्यवनादिनाsनुमीयेत, यदि वा तदानीतनैरन्यैरनुमीयेत तर्हि युक्तमेव । तेषामपेक्षया तत्प्रत्यक्षभूतताया एव जागरूकत्वे वापीगतस्नानादिना तथाविधतायाः कल्प्यमानायास्तिरोहितत्वात् । तथाभूतं पुनरनुमान न चमत्कारास्पदम् , सहृदयहृदयाह्लादकत्वाभावात् , सहृदयहृदयालादकस्यैव चमत्कारपदार्थत्वात् । यदि तु तत्काव्यार्थभावनया सहृदयैरनुमीयते तर्हि 'वापी स्नातुमितो