________________
४०६ साहित्यदर्पणः।
[पञ्चमःधक एवंविधार्थत्वात् , यौवं तन्नैवम्' इत्यनुमानेऽप्याभासमानयोगक्षेमो हेतुः । एवंविधार्थत्वादिति हेतुना एवंविधानिष्टसाधनस्याप्युपपत्तेः ।
तथा-'दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे'-इत्यादौ नलग्रन्थीनां तनूलेखनम् , एकाकितया च स्रोतोगमनम् , तस्याः परकामुकोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते । तच्चअत्रैवाभिहितेन स्वकान्तस्नेहेनापि सम्भवतीत्यनैकान्तिको हेतुः ।
झीकारः, तर्हि चन्द्रस्य करतलादिना पिधाने दिनसाधर्म्यप्रतीतेरनङ्गीकारः स्थाने । एवं सति राधिकावदनस्य पिधाने चक्रवाकयोः सङ्घटनं न सङ्घटते । दिवाऽपि नक्तमपि वाराधिकावदनस्य स्फुरणमस्फुरणं वा यथेष्टं स्यात् किन्तु चक्रवाकयोर्विघटनसघटने किम्मूले इति मीमांसाऽवसरे राधिकावदनस्य चन्द्राभिनत्वेनेति न वक्तुं पार्यते, दिवा चन्द्रदर्शनेऽपि नक्तं च तस्य दर्शनाभावे चक्रवाकयोर्विघटनस्य सङ्घटनस्य चादृष्टश्रुतत्वात्। न वा राधिकावदनस्यैव दर्शनादर्शनाभ्यां रात्रेदिनस्य च सत्त्वाङ्गीकारे सर्वमवदातम् । इति वाच्यम् । सूर्याचन्द्रमसयोरुभयोरपि दर्शनादर्शनाभ्यामेव रात्रेर्दिनस्य वा स्थितिरिति नियमस्यासम्भवात् । राधिकावदनं चन्द्र इति कल्पनं तादात्म्यसम्बन्धमादायैव सङ्गच्छते,अन्यथा निरूप्यमाणस्य रूपकस्यापि मूलोच्छेदापत्तिः स्यात् । तादात्म्यसम्बन्धेन पुनः साध्यस्य चन्द्रस्य वदने वस्तुतया बाधाद्वाधोऽपि दोष एव हेतो. रित्येवं हेत्वाभासतयाऽनुमानमपि न प्रमाणकोटावारोहतीति । नन्वेवं भा भूदनुमानमिति प्रकारान्तरेणोपपाद्यमानेऽप्य. नुमाने दोषमुद्घाटयन्नाह-‘एवंबिध एवम्भूतः पक्षीभूतेन वाक्यार्थेन बोधयितुं योग्यः साध्यकोटिनिविष्टः । अर्थः । एवंविधार्थबोधक एवंविधो योऽर्थस्तस्य बोधकः प्रतिपादकः । एवंविधार्थत्वादेवंविधार्थस्य भावस्तस्मात् । हेतो' रिति शेषः । यत् । 'किञ्चि' दिति शेषः । एवम् । न 'स्या' दिति शेषः । तत् । एवम् । न 'भवितुमर्हती' ति शेषः ।' इत्यनुमाने इत्थम्भूतेऽनुमाने । अपि । आभासमानयोगक्षेमः आभासमानौ योगक्षमौ यत्र यस्य वेति सः । आभासमानौ नतु खरूपसन्तौ । अप्राप्तस्य प्राप्तिोगः । प्राप्तस्य पुनारक्षणं क्षेमः । 'योगोऽपूर्वार्थसम्प्राप्ती सङ्गतिध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च विष्कम्भादिषु भेषजे । विश्रब्धधातुके द्रव्योपायसंहननेष्वपि । कार्मणेऽपि ।' इति मेदिनी। 'क्षेमोऽस्त्री लब्धरक्षणे । चण्डायां नाशभे न स्त्री कात्यायन्यां च योषिति ।' इति मेदिनी। हेतुः । 'एवंविधार्थात्वा' दिति हेतुना । एवंविधानिष्टसाधनस्यैवंविधस्यानिष्टार्थरूपस्य साधनस्य । अपि । उपपत्तेः सम्भवात् ।
अत्रेदं तत्त्वम् -'जलकेलि-' इति वाक्यार्थ एव 'राधिकावदनं. चन्द्र' इति रूपकबोधोपयोगिभूतानुमितिबोधकः 'एवंविधार्थत्वा' दिति मतं महिमभट्टानाम् । व्यक्तिवादिनां पुनः-' एवंविधार्थत्वा' दिति पदार्थस्तावत् 'एवंविधो योऽर्थस्तत्त्वात् ।' इति । तत्र-' एवंविध' इति शब्देन 'अनभिमत ' इत्यर्थबोधस्यापि भवितुमहिंतत्वात् तादृशो हेतुराभासमात्रावष्टम्भः । 'एवंविध' इति शब्दस्य साधारण्येन 'अभिमतानभिमतोभयविधार्थस्य बोधकत्वात् । इति तादृशमनुमानमपि न सङ्गच्छते।' इति ।
एवमेवान्यत्रापि व्यङ्गयविषयेऽनुमान न सङ्गच्छते हेतोर्व्यभिचारदुष्टत्वादिति प्रदर्शयिषुः पुनर्वस्तुव्यङ्गये दोषमाहतथा यथा पूर्वत्रातिप्रसङ्गस्तद्वत् । 'दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे-'इत्यादौ । 'दृष्टिं हे प्रतिवशिनि ! क्षणमिहाप्यस्मगृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि सत्त्वरमितः स्रोतस्तमालाकुलं नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥'इत्यस्मिन् श्लोके । 'नलग्रन्थीनां नलानां वंशविशेषाणां ग्रन्थयः पर्वाणीति तेषाम् । तनलेखनं तन्वा लेखनमङ्कनं रेखाकरणमिति यावत् । चाथवा । एकाकितया । स्रोतोगमनं स्रोतः प्रवाहस्तस्य ( तत्प्रति) गमनम् । 'कृयोगा षष्ठी समस्यत इति वाच्यम् ।' इति. समासः । तस्याः 'कुलटाया'इति शेषः । परकामुकोपभोगस्य परः स्ववल्लभादतिरिक्तोऽसौ कामुकः कामीति तस्योपभोगो बाह्यो भोगस्तस्य तदात्मकस्येति यावत् । लिझिनश्चिह्नवतः। लिडं चिह्नम् ।' इतीत्येवम् । उच्यते कथ्यते । च पुनः । तत तादृशं वचः । अत्रास्मिन् । एव 'लोक'इति शेषः । अभिहितेन कथितेन । 'प्रायेणास्य शिशोः पिता-'इत्यादिनोद्धोषितेनेति यावत् । स्वकान्तस्नेहेन स्वस्याः कान्तः प्रियतम इति तस्य स्नेह : प्रेम तेन । अपि । सम्भवति सङ्घटते । इतीत्यस्मात कारणात् । अनैकान्तिको व्यभिचारग्रस्तः । हेतुः कारणम् ।