________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । "दुर्गालधित..." इत्यादौ च द्वितीयार्थो नास्त्येवेति यदुक्तं महिमभट्टेन, तदनुभवसिद्धि. मपलपतो गजनिमोलिकैव । तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्त. छन्दाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया च अभिधाऽऽदिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धम् । इयं च व्याप्त्याद्यनुसन्धानं विनाऽपि भवतीत्यखिलं निर्मलम् । तत् किन्नामिकेयं वृत्तिरित्युच्यते
३०३ सा चेयं व्यञ्जना नाम वृत्तिरित्युच्यते बुधैः। रसव्यक्तौ पुनर्वृत्ति रसनाऽख्यां परे विदुः ॥ २८७ ॥
कविनोत्तम्भितमात्रस्वरूपाणां तेषांतेषां सहृदयानां हृदये तदा सम्पद्यमानस्य कस्याप्यानन्दस्य स्मतिव्यतिरिक्तमेव कारणम् । एतेन-व्यङ्गयानां वस्त्वादीनामपि ज्ञानं न स्मृतिरिति प्रतिपादितम, तेषामपि नवनवत्वेन दृष्टश्रतत्वाभावाच्च; स्मृतेः प्रत्यभिज्ञाया एव वा तदानीमेव वक्तुमर्हत्वात् । तेषां नवनवत्वं सुप्रत्यक्षसिद्धम् । अतः सुष्क्तं केनापि कविना-"अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथाऽस्मै रोचते किञ्चित्तथेदं परिवर्तते ॥' इति । अत्राहुस्तर्कवागीशा:-"प्रत्यभिज्ञायां सोऽयमित्याकारकज्ञानेऽनैकान्तिकतया साध्यं विना विद्यमानतया हेतोः संस्कारजन्यज्ञानत्वस्याभासता व्यभिचारिता, एतच साधनं रसप्रतीतिकारणीभूतवासनायाः संस्कारविशेषत्ववादिमते । अतिरिक्तत्ववादिमते तु हेतोः पक्षावृत्तित्वेन स्वरूपासिद्धिरपि दोषः, नतु व्यभिचारमात्रम् । ये तु प्रत्यभिज्ञायाः स्मृतित्वापत्तिभयेन स्मृतिजन्यत्वमेव मन्यन्ते, न तु संस्कारजन्यत्वं, तन्मते व्यभिचारो न भवतीत्यवदातम् ।" इति ।
अथाभिधामूला व्यञ्जनामनङ्गीकुर्वाणानां मतमाक्षिपति-"दुर्गालवित.."इत्यादिना ।
"दुर्गालइघित..." इत्यादौ । च । द्वितीयार्थोऽप्राकरणिकः शङ्कररूपोऽभिधेयातिरिक्तर्थ इति यावत् । न । अस्ति । एव । इति । यत् । महिमभट्टेन व्यक्तिविवेककृतेत्यर्थः । उक्तम् । तत् । अनुभवसिद्धिम् । अपलपतः प्रत्याचक्षाणस्य 'तस्येति शेषः गजनिमीलिका गजस्य निमीलिका नेत्रे निमील्य क्रीडा। "हस्तिन इव मूर्खत्व'मिति तु तर्कवागीशाः । एव । तत्तस्मात् । एवम् । अनुभवसिद्धस्य । तत्तद्रसादिलक्षणार्थस्य तत्तद्रसादिस्वरूपस्यार्थस्य । अशक्यापलापत या न शक्योऽपलापः प्रत्याख्यानं यस्य तस्य भावस्तत्ता तया । तत्तच्छदाद्यन्वयव्यतिरेकानुविधायितया सच सचेति तत्तौ शब्दौ आदी यस्य (प्रतिपाद्यस्य) तस्यान्वयव्यतिरेको तयो. रनुविधायी तस्य भावस्तत्ता तया । च । अनुमानादिप्रमाणावेद्यतया। च। अभिधाऽऽदिवृत्तित्रयाबोध्यतया। च तुरीया चतुर्थी अभिधालक्षणातात्पर्याख्यवृत्तिभ्यो व्यतिरिक्तेति भावः । वृत्तिः “व्यअने"ति शेषः । उपास्या स्वीकार्य्या । एव । इति । सिद्धम् । इयं 'वृत्ति' रिति शेषः । व्याप्त्याद्यनुसन्धानम् । विना । अपि । भवति । इति । अखिलं सर्व कथनम् । निर्मलं शुद्धम् । अत्राहृष्टिप्पणीकारा:-"इहान्वयव्यतिरेकष्टान्तेन कश्चिदेव शब्दस्तादृशार्थख्यापनेऽलङ्कीण इति दर्शितम् । तदुक्तं ध्वनिकारैः-"सोऽर्थस्तव्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन । यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थों महाकवेः ॥” इति, "व्यायव्यञ्जकाभ्यामेव हि सुप्रयुक्ताभ्यां महाकवित्वलाभो महाकवीनाम्, न वाच्यवाचकरचनामात्रेणे" ति व्याख्यातं च । इति ।।
अथ तुरीयां वृत्तिं निर्देष्टुमपेक्षामुपस्थापयन् प्रतिजानीते-तदित्यादिना ।
तत् तस्मात् । किनामिका । इयमभिधाऽऽदिभ्यस्तिमृभ्योऽपि वृत्तिभ्यो विलक्षणेति शेषः । वृत्तिः । इतीत्यपेक्षायाम् । उच्यते-३०३ सा चेयमित्यादिना।
३०३ सा 'ययाऽभिधाऽऽदिप्रतिपाद्यातिरिक्तार्थः प्रत्याय्यते' इति शेषः । च । इय 'भनुमानाद्यन्तर्भावायोग्येति शेषः । व्यञ्जना । नाम । वृत्तिः । इति । बुधैः सहृदयैरालङ्कारिकैरिति भावः । उच्यते । अथ कैश्चिद्र