________________
४०३
पारच्छेदः)
रुचिराख्यया व्याख्यया समेतः। यच्च-'भम धम्मिअ-' इत्यादौ प्रतीयमानं वस्तु,
'जलकेलितरलकरतलमुक्तपुनःपिहितराधिकावदनः ।
जगदवतु कोकयूनोविघटनसङ्कटनकौतुकी कृष्णः ॥ २१९ ॥' इत्यादौ च रूपकालङ्कारादयोऽनुमेया एव । तथाहि-अनुमानं नाम पक्षसत्त्वसपक्षसत्त्वविपक्षव्यावृत्तत्वविशिष्टाल्लिङ्गाल्लिनिनो ज्ञानम् ।
रिति व्याप्तिग्रहेऽपि यत्रयत्र मृत्तिकाकुलालादि तत्रतत्रैव घटप्रतीतिरिति न वक्तुं शक्यते, तथा यत्र विभावादीना. मभिधानमभिनयो वा तत्रैव रसाद्याविर्भाव इति व्याप्तिग्रहेऽपि यत्र विभावादीनामभिधानमभिनयो वा तत्रैव रसादि. प्रतीतिरिति न सिद्धान्तः। यस्मात्-मृत्तिकाऽऽद्यभावस्थलेऽपि घटप्रतीतिरिव विभावाद्यभिधानाद्यभावेऽपि रसादिप्रतीतिः, मृत्तिकाऽऽदिसद्भावे च घटाप्रतीतिरिव विभावाद्यभिधानादिसद्भावे च रसाद्यप्रतीतिरिति नासौ सिद्धो हेतुः । अत्रायम्भावः-विभावादीनामभिधानेनाभिनयेन वा रसाविर्भावे, तयोः पुनर्विनाशेऽपि यथा रसप्रतीतिः सहृदयहृदयगोचरा तथा विभावादीनामभिधानेनाभिनयेन वा रसाविर्भावेऽपि तयोः पुनः सत्त्वेऽपि जरतां श्रोत्रियादीनां हृदयगोचरता न रसप्रतीतिः । इत्युत्पत्त्यपरपर्याय आविर्भावापरवाच्यो न खस्वरूपः, प्रतीतिः पुनरावादाद्यपरपर्याया स्वस्वरूपैवेति सुषक्तं 'न घेवंविधे'त्यादि, अव्याप्त्यतिव्याप्तिभ्यां च हेतोराभासत्वम् । इति ।
नन्वेवं रसादिप्रतीतिर्मा भूदनुमेया, किन्तु तदभिन्नस्य व्यङ्गयस्य प्रतीतिरपि कुतो नानुमानगोचरेत्याशङ्कयोत्तरयितुमाह-'भम धम्मिअ-'इत्यादौ 'भ्रम धाम्मिक-'इत्याद्यर्थक उदाहृतपूर्वे । च । यत । प्रतीयमानं'भ्रमण न त्वया कार्य सिंहो हि दृप्तः सदाऽवतिष्ठत' इत्यात्मकम् । वस्तु । 'अलकारशून्य'मिति शेषः ।
___ 'जललितरलमुक्तपुनःपिहितराधिकावदनो जलस्य केलि: क्रीडा तेन तरलौ चञ्चलौ यौ करौ तयो. स्तलं तेन मुक्तं परित्यक्तं स्खलितमिति यावत् पुनः पिहितमाच्छादितं राधिकावदनं येन सः । कोकयूनोः कोकजातीययोर्दम्पत्योरित्यर्थः । कोका च कोकश्चेति कोकौ । युवती च युवा चेति युवानौ । कोको अमू युवानाविति तयोः । 'पुमान् स्त्रिया।' १।२।६७। कोकश्चकवाको नाम पक्षी । विघटनसघटनकौतुकी। विघटनं सङ्गतयोः पृथक्करणम् । सङ्घटनं पुनः पृथग्भूतयोरपि सङ्गमं प्रति नयनम् तत्र कौतुकी तत्केलिपरः । कृष्णो राधिकाप्राणप्रियः । जगत् । चराचरात्मकं ब्रह्माण्डम् । अवतु रक्षतु अभिमतनिःश्रेयसप्रदानवधनाभ्यां पालयस्विति यावत् । प्रार्थनायां लोट् ॥ २१९॥
इत्यादौ। च। रुपकालडारादयः। अन्यस्मिन्नन्यत्वारोपमलो रूपकालङ्कारः। यथा हि-राधिकावदनं चन्द्र इति प्रकल्प्य तद्विकाशे रात्रिज्ञानेन कोकयूनोविघटनम्, तत्पिधाने राज्यभावज्ञानेन तयोः पुनः सङ्घटनम् । इति । अनुमेयाः। एव । नतु व्यङ्गयाः।।
अत्रायम्भावः-व्यक्तिवादिनस्तावत् 'भ्रमधार्मिक ! विश्रब्धः स शुनकोऽद्य मारितस्तेन । गोदावरीकच्छकुडङ्गवासिना दृप्तसिंहेन ॥' इत्याद्यर्थकादौ श्लोके 'यद्भयाद गृहान्तरेव सञ्चरसि सः शुनको दृप्तेन तेन सिंहेन मारित इति शुनकादपि भीरुस्त्वं तस्मिन् मृते गोदावरीकूलकुञ्जपुष्पाणि सञ्चितानि कर्तुं प्रतिदिनं तत्र गच्छसि, किन्तु त्वं जानासि वा न बा तत्र दृप्तः सिंहो निवसति, स एव ग्रामान्तरत आगत्य तं शुनकं मारितवान् इति' वाच्यः 'त्वया शुनकादपि भीरुणा न तत्र गन्तव्य'मिति प्रत्याययतीति, तथा--'जलकेली-'त्यादौ 'करतलेन राधिकावदनस्यापिधानपिधानकरणपरः कृष्णो दिनमात्रसङ्गमशीलयोः कोकयोर्विघटनसङ्घटनकर' इति वाच्योऽर्थः 'राधिकावदनं चन्द्र' इति- प्रत्याययती' त्याहुः । किन्तु निरूपिष्यमाणप्रकारेण नोभयत्रैव व्यङ्गयत्वम् । अस्ति पुनरनुमेयत्वमेवेत्याचक्षाणा अनुमानेनैव व्यञ्जनां गतार्थयन्तो महिमभट्टा उपक्रमन्ते-तथाहीत्यादिना।
तथाहि यथा प्रतीयमाना वस्त्वलङ्कारा नानुमानादतिरिच्यरंस्तथा। 'प्रतिपाद्यते इति शेषः । अनुमानमनुगतत्वेन मीयते निश्चीयते इति तत् । नाम प्रसिद्धम् । तदाख्यया प्रसिद्धः प्रमाणविशेष इति यावत् । पक्षसत्त्वसपक्षसत्त्वविपक्षव्यावृत्तत्त्वविशिष्टात् । पक्षः सिसाधयिषा विरहविशिष्टसिद्धयभाववान संदिग्धसाध्यको वा । 'पर्वतो