________________
साहित्यदर्पणः ।
[ पञ्चम:
'यार्थान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनम् । सैवानुमितिपक्षे नो गमकत्वेन सम्मता ॥' इति । इदमपि नो न विरुद्धम् । न ह्येवंविधा प्रतीतिरास्वाद्यत्वेनाभिमता । किन्तु स्वप्रकाशमात्र विश्रान्ता सान्द्रानन्दनिर्भरा । तेन - अत्र सिसाधयिषितादर्थादर्थान्तरस्य साधनाद्धेतो.
राभासता ।
४०३
'वो युष्माकं व्यक्तिवादिनामित्यर्थः । तेषामेव सम्बोध्यत्वात् । ' बहुवचनस्य वनसौ ।' ८। १ । २१ इति वसादेशः । अर्थान्तराभिव्यक्तौ अर्थो वाच्यो लक्ष्यो वा तस्मादन्य इति, तस्याभिव्यक्तिः स्फुरणं तस्याम् । या यत्स्वरूपा । निबन्धनमुपनाहस्तद्वत्प्रधानभूतेति यावत् । ' उपनाहो निबन्धन ' मित्यमरः । उपनाहश्च यत्रतन्त्र्यो निबद्धाः स्वनयन्ति तस्योर्ध्वभागः । ' निबन्धनं प्रधान ' मिति तर्कवागीशाः । सामग्री शाब्दबोधादिस्वरूपः कारणसमुदायः । इष्टाऽभिमताऽभिलषिता वा । ' अस्ती' ति शेषः । नाऽस्माकम् । अनुमानवादिनामिति यावत् । सा तत्स्वरूपा । एव न त्वन्यस्वरूपाऽपीत्यर्थः । अनुमितिपक्षेऽनुमितिरनुमानं तस्याः पक्षस्तस्मिन् । गमकत्वेन रसायनुमापकत्वेन । गमयति प्रापयति अवबोधयतीति वेति तत्त्वेन । सम्मता स्वीकृता ॥' इति । अत्रेदं निष्कृष्टम् - यथा महानसमभितो धूममवलोकमान: ' कुतोऽय ' मिति तं निश्चेतुं प्रवृत्तः, महानसे प्रविश्य वह्निव्याप्यं धूममवलोकते, परत्र पुनर्जलादिव्याप्यत्वाभावं तदीयमवलोक्य यथा स्वयं यत्र धूमस्तत्र वहिरिति व्याप्तिं निश्चिनोति । अथ - तथैव पर्वतेऽपि धूममवलोकमानस्ता मंत्र 6 यत्र धूमः, तत्र वह्नि' रिति व्याप्तिं स्मरति, स्मरंच तत्र वहिमवलोक्य ' यत्रयत्र धूमस्तत्रतत्र वह्नि ' रिति निश्चिनोति तदनन्तरं यत्रयत्र धूममवलोकते तत्रतत्र प्रथमत एव तस्येयमनुमितिः 'अयं वह्निमान् धूमवत्त्वात् । ' इति सम्पद्यते । एवं यथा - 'यत्र धूमस्तत्र वहिरिति व्याप्तिः, ततश्च धूमो वहिव्याप्यो वहिश्च धूमव्यापक इति व्याप्यस्य साध्यवृत्तित्वं पक्षधर्मता, तज्ज्ञानं पुररनुमितिरिति व्यपदिश्यते । तथा कुत्रचिद् विभावादिसम्पत्तिं प्रतिपद्य रसादिसद्भावं प्रतिपद्यमाना विभावादिसम्पत्तीरसादिसम्भूतिव्याप्येति नियते, परत्र पुनर्विभावादिसम्पत्तिं प्रतिपद्यमानानां रङ्गगतानामात्मनश्चान्येषां च क्षणादेवाभिव्यक्ततया रसादिसम्भूतिमुपलभ्य चिरायानुमितिं प्रतिपद्यते यत्र यत्र विभावादिस्तत्रतत्र रसादिः ।' इति । एवं च व्याप्तिविशिष्टपक्षधर्मताज्ञानं प्रकृते निर्वाधम् 'अयं रसादिमान् विभावादिमत्त्वादिति । अथ यथा, व्यक्तिस्वीकर्त्तारो वाच्यलक्ष्यार्थोभयविलक्षणस्यार्थस्य प्रतिपत्तये व्यञ्जनां वृत्तिं स्वीकुर्वन्ति वयं पुनरनुमानेनेव तदङ्गीकारप्रयोजनं गतार्थयामः । इति विचारापनोद्य एवैष भ्रमो व्यक्तिकारस्य । इति व्यक्तिविवेककाराणां मतम् ।' इति । अथैतदूदूषयति-इदं 'त’दिति शेषः । अपि । नोऽस्माकं व्यञ्जनाखीकर्तॄणाम् । न नैव । विरुद्धम् । ‘उक्त’मिति शेषः । हि यतः । एवंविधा यत्र विभावादीनामभिधानमभिनयो वा स्यात्तत्र रसादिरिति भवतोऽभिमता विभावाद्यभिधानमात्रनिरूपितप्रकाराऽविभावाद्यभिनयमात्र निरूपितप्रकाराऽपि वेति यावत् । प्रतीति: । 'रसादे' रिति शेषः । आस्वाद्यत्वेनास्वादस्वरूपेण । न नैव । अभिमता । 'अस्ती 'ति शेषः । किन्तु स्वप्रकाशमात्रविश्रान्ता स्वप्रकाश एवेति, तत्र स्वप्रकाशमात्रे इत्यर्थः विश्रान्ता पर्यवसिता । सान्द्रानन्दनिर्भरा । सान्द्रोऽसावानन्द इति तेन निर्भरा सातिशयेति । 'प्रतीति' रिति शेषः । निःशेषेण भरोऽत्रेति, निर्गतो वा भरोऽत्र इति । भरोऽतिशेयः । तेन ' हेतुने 'ति शेषः । अत्रास्मिन् । 'अनुमान' इति शेषः । सिसाधयिषितात् साधयितुमनुमानद्वारा समर्थयितुमीप्सित इति तस्मादिति तथोक्तात् । अर्थात् । 'स्वप्रकाशानन्दस्वरूपा 'दिति शेषः । अर्थान्तरस्यान्योऽर्थ इति तस्य । रसाद्याविर्भावस्वरूपस्येत्यर्थः । साधनात् । अनुमापनात् । हेतोर्भवन्निरूपितस्वरूपस्य कारणस्य | आभासता दुष्टता । अदमवधेयम् - 'यत्रयत्र विभावादीनामभिधानमभिनयो वा तत्रतत्र रसादीनामाविर्भाव' इति व्यक्तिवाद्यनुमानवाद्युभयसाधारणं मतम् । नात्र किमपि कस्यापि वैमत्यम् । किन्तु - एतद्विचार्यम् - रसाद्याविर्भावो रसादिप्रतीतिश्च नाना वस्तुत एव वा भिन्ने इति । नच नाम्नैव । उत्पत्त्यपरपर्यायस्याविर्भावपदवाच्यस्य, आखादापरपर्यायस्य च प्रती - तिपदवाच्यस्य परस्परं विभिन्नताया दृष्टश्रुतत्वात् । नहि भोग्यस्योत्पत्तिराखाद ( भोग ) श्व केनापि सचेतसाऽभिन्नत्वन निरूप्येते । उत्पत्त्यपेक्षया भोगस्योत्तरकालिकत्वाद् भोगापेक्षया चोत्पत्तेः प्राक्कालिकत्वात् । आस्वाद्यास्वादकयोर्भिन्नत्वं, तयोरपि भिन्नत्वाच । अतो वस्तुत एव भिन्ने इति स्थितम् । यथा च यत्रयत्र मृत्तिकाकुलालादि तत्रतत्रैव घढोत्पत्ति