________________
पारच्छे )
हचिराख्यया व्याख्यया समेतः। यञ्चोक्तं तेनैव-'यत्रयत्रैवंविधानां विभावानुभावसात्त्विकसश्चारिणामभिधानमभिनयो वा तत्रतत्र शृङ्गारादिरसाविर्भावः।' इति सुग्रहैव व्याप्तिः पक्षधर्मता च । तथा
तज्ज्ञानम् । शब्दो वाक्यादि । अभिनयो नटकर्तृकरामाद्यनुकरणम् । एव केवलम् । रसत्वेन शृङ्गारादिरसनिवेदादिभावादिखरूपेण । भवतो ध्वनिमनुमानेऽन्तर्भावयितुं प्रवृत्तस्य श्रीमत: सम्बोध्यस्य । अभिमतं खीकृतम् । वाऽथवा । किम्-तद्भावनया तेषां शब्दाभिनयसमर्पितविभावादीनां भावना सविधम्भं बोधातया । भावकैः सहृदयैः । भाध्य मानः प्राप्यमाण आस्वायमान इति यावत् । भूप्राप्तावित्यस्येपदम् । स्वप्रकाशानन्दः स्वं प्रकाशत इति तादृशोऽसा. वानन्द इति । 'रसत्वेनाभिमतः' इति शेषः । इति । तत्र-आये 'पक्षे'इति शेषः । न नैव । 'वस्तुतया इति शेषः ।
विरुद्धाभिधानम्। 'सम्भवतीति शेषः। किन्तु परन्तु । 'रामादिगतरागादिज्ञानं रामादिनिष्टसीताऽऽदि. विषयकानुरागादिसम्बन्धिज्ञानम् । रससझया रस इति सझेति तया। 'सज्ञा स्यान्चेतना नाम हस्ताद्यैश्चार्थपूचना।' इत्यमरः । रस इति नान्नेत्यर्थः । न नैव । अस्माभिर्व्यक्तिमजीकुर्वद्भिः । उच्यते कथ्यते ।' इतीत्यात्मकः । एव खलु । विशेषो विभेदः । रामादिनिष्ठसीताऽऽदिसम्बन्ध्यनुरागादिज्ञानं रस इति अमुमाने ध्वनिमन्तर्भावयितुर्मतम् , अभिधाऽऽदिवृत्तित्रयादतिरिक्तैव व्यञ्जना नाम वृत्तिरित्यङ्गीकर्तुः पुनस्तन्न, तादृशज्ञानस्य रसपदवाच्यत्वासम्भवात् । इति भावः। द्वितीयः 'पक्ष' इति शेषः । तद्भावनया भावकैर्भाव्यमानः स्वप्रकाशानन्दो रसत्वेनाभिमत' इत्यात्मकः पक्ष इति भावः । तु पुनः । व्याप्तिग्रहणाभावात् । व्याप्तिः 'हेनुमन्निष्टविरहाप्रतियोगिना । साध्येन हेतोरैकाधिकरण्यं व्याप्ति'रित्युक्तदिशा साहचर्यनियमस्तस्य ग्रहणं स्मरणं सम्भवित्वेन ज्ञानं वा तदभावस्तद्विरहस्तस्मात् कारणात् । हेतोः कारणस्य । आभासतया वास्तविकत्वाभावात् । असिद्धोऽनुमानाविषयत्वेनासमर्थितः । एव न तु सिद्धः । अत्रेदं निस्कृष्टम्-काव्यं तावद् द्विविधं, श्रव्यं दृश्यं च । श्रव्यं रघुवंशादि, दृश्य शाकुन्तलादि । श्रव्ये शब्देनैव विभावादयो वर्ण्यन्ते, दृश्ये पुन:-अभिनयोपयोगिन्या सामन्या । अतः-यत्प्रती. त्यैवानुमितानां रामादिगतसीतादिविषयकानुरागादीनां ज्ञानं रसः, ते विभावादयः शब्देनाभिनयनेव वोत्तम्भिताः भवन्तीति यद्ययं पक्षः । न तर्हि नितान्तं मतद्वैविध्यम् । किन्तु रस्यते आखाद्यते इति रस इति रसप. दनिरुत्या रसस्यास्वादवाच्यत्वे रामादीनां तेषां खात्मभिन्नतया तत्तद्रामादिगतसीताद्यनुरागादिज्ञानस्य च तद्भिमत्वे रामादिनिष्ठसीताद्यालम्बनकानुरागादिज्ञानमेव रस इति किं मूलं मतमिति संशयानपनयनमेवास्माकं मतान्तरमास्थापयतीति द्रष्टव्यम् । अथ यदि-शब्देनाभिमयेन वा समर्पितानां विभावादीनां भावनाद्वारा भावकै व्धमानः खप्रकाशानन्दो रस इति पक्षः स्यात् तर्हि अनुमानवादेऽसिद्ध एवासौ प्रतिभासते । तथा हि-अनुमानं नाम व्याप्तिवि. शिष्टपक्षधर्मताज्ञानम् । तच्च प्रकृते न सम्भवति, व्याप्तिग्रहाभावे हेतोराभासत्वात् । न हि सति हेत्वाभासेऽनुमान सङ्गच्छते । व्याप्तिस्तावत् यत्रयत्र विभावादिप्रतीतिः, तत्रतत्र रसादयः इत्येव । असौ च म सर्वत्र । यथा-जरतां श्रोत्रियाणां मीमांसकानां च विभावादिप्रतीतिसत्त्वम्, किन्तु न रसादयः । इति । एवं च व्याप्तिग्रहाभावेऽनुमानहेत्व. सिद्धौ द्वितीयः पक्षोऽपि प्रत्युक्तः । इति ।
अथ व्यक्तिविवेककारोक्त्यैव प्रकृतेऽनुमानप्रसङ्गं वारयितुमाह-यच्चेत्यादि । - तेन व्यक्तिविवेककृता। एव नत्वन्येन केनापि। यत् । च । उक्तम् ‘यवयत्र यस्मिन्यस्मिन् स्थल । एवंविधानां शब्दाभिनयाभ्यां समर्पितसत्त्वानामित्यर्थः । विभावानुभावसात्त्विकसञ्चारिणाम् । अमिधाने कथनं तत्तच्छब्देनोपादानमिति यावत् । वाऽथवा । अभिनयोऽभिनेतुर्नटस्येहितेन निरूप्यमाणं विभावायनुकरणम् । 'स्या' दिति शेषः । तत्रतत्र तस्मिंस्तस्मिन् स्थाने । शङ्कारादिरसाविर्भावः शृङ्गारहासादिरसानामाविर्भावः । 'जायते'इति शेषः । इतीत्येवम् । व्याप्तिः साध्याभावववृत्तित्वरूपो नियमविशेषः । च तथा । पक्षधर्मता पक्षस्य यत्र यत्त्वं यद्वत्त्वं वा साध्यते तस्य धर्मता तनिष्ठयत्किञ्चिनिरूपितप्रकारतेति । व्याप्यस्य साध्यवृत्तित्वमिति भावः । सुग्रहा सुखेन प्रहीतुं शक्या । 'अस्ती'ति शेषः । एव । तथा एवमित्यर्थ: