________________
साहित्यदर्पणः।
[ पञ्चमःतंत्र प्रष्टव्यम्-किं शब्दाभिनयसमर्पितविभावादिप्रत्ययानुमितरामादिगतरागादिज्ञानमेव रसत्वेनाभिमतं भवतः ? तद्भावनया भावकैर्भाव्यमानः स्वप्रकाशानन्दो वा ? आये न विवादः' किन्तु 'रामादिगतरागादिज्ञानं रससञ्ज्ञया नोच्यतेऽस्माभिः । इत्येव विशेषः । द्वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयाऽसिद्ध एव ।
अवश्यम्भावी निःसन्देहं भावी सम्भवशील इति यावत् । तत्प्रतीतिक्रमस्तेषां विभावादीनां प्रतीतय इति तासां क्रमः पौर्वापर्यम् । केवलमेव । आशभावितया सूक्ष्मकालेन स्फुरणशीलतया । न नैव । लक्ष्यते दृश्यते ज्ञायत इति यवात् । शतपत्रव्यतिभेदवत् क्रमसत्त्वेऽपि नितान्तं त्वरितं सम्भूततया कालसौम्ये न संलक्ष्यते तत्प्रतीतिक्रम इति हेतोवासंलक्ष्यक्रमा इति व्यपदेश्या रसादयः । इति तात्पर्यम् । यतः । अयम् । अभिव्यक्तिक्रमोऽभिव्यक्त्याः स्पष्टीभवनतायाः क्रमः । अत्रास्मिन्ननुमानवादे । अपि । 'सम्भवतीति शेषः। 'अभिव्यक्तिक' इति पाठे-व्यङ्गयोऽसंलक्ष्यक्रम इति यावत् । अभिव्यक्ति कायति ब्रूते इति, अभिव्यक्तो (ऽर्थोऽ) स्मिन्नस्तीति वा । 'आतोऽनुपसर्गे कः ।' ३।२।३ इति कः, 'अत इनि ठनौ ।' ५।२।११५ इति ठनो वेति । अभिव्यक्तक इति पाठे-अनुकम्पितोऽभिव्यक्तोऽर्थः । 'अनुकम्पायाम् ।' ५।३।७६ इति कः । इति । अभिव्यक्त इति पाठे तु स्पष्ट एवार्थ इति । अद्यापीति पाठे अद्यानुमानवादाङ्गीकारके दिवसेऽपीत्यर्थः । 'अद्यात्राही' त्यमरः ।' इतीत्येवम् । यत् । 'मत'मिति शेषः । व्यक्तिविवेककारेण व्यक्तिविवेकं (तदाख्यं ग्रन्थम् ) करोतीति तेन । 'महिमभट्टेनेति शेषः । कर्मण्यण् ।' ३।२।१ इत्यण् । हि एव । नतु केनापि द्वितीयेन सचेतसा । उक्तं निरूपितम् ।।
अत्रेदं तात्पर्यम्-न तावद् व्यञ्जना काचिद् वृत्तिः । किन्तु-तस्याः प्रतिपाद्यत्वेन विवक्षितोऽभिमत एव वाऽर्थः नासावनुमानास्पदततां जहाति । न चात्र काचिद् विप्रतिपत्तिः । इति मन्यमाना महिमभट्टा व्यक्तिविवेकं विरचयांचक्रुः । अत एव तत्र तावत् प्रोचुः " अनुमानेऽन्तर्भाव सकलस्यैव वनेः प्रकाशयितुम् । व्यक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम् । इति । अथ तत्र ते प्राहुः-'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्ति'रिति निरूपितदिशा या परैरभिहिता विभावादिभ्यो रसादीनां प्रतीतिः, सा नानुमानाद् व्यतिरिक्ता । अयमिह हेतु:-विभावादीनां प्रतीतिरेख रसादीनां प्रीतिसाधनभूता, न हि विभावादिप्रतीतिमन्तरेण रसादिप्रतीतिः सम्भवति, न च रसादिप्रतीतिर्विभावादिप्रतीत्यमूला, रतिहासादिस्थायिभावानामालम्बनोद्दीपनात्मा विभावः कारणं, रोमोद्गममुखविकासाद्यात्मानुभावः कार्य, मदाद्यात्मा सहचारी भावः पुनः सहकारिकारणम् , इत्येतत्त्रितयमेव रत्यादीन् स्थायिनो भावान् सत्त्वासत्त्वाभ्यामनुमितिविषयं नयति' तदन्तरैतेषामनभ्युपगमात् । तथाभूतं पुनरेतद् रसादिनिष्पत्तिमूलम् । पय एव यथाऽम्लयोगेन दधिस्वरूपत्वं प्राप्नुवत्तस्य हेतुस्तथैव विभावादिप्रतीतिरप्यनुमीयमानरत्यादियोगेन रसादिस्वरूपतां प्राप्तवती तत्कारणमित्यूह्यम् । नचैवं रसादिप्रतीतेर्विभावादिप्रतीत्युत्तरकालिकतया कथ'मसंलक्ष्यक्रम'इति व्यपदेशः सङ्गमिष्यते ? इति चिन्त्यम् । विभावादिप्रतीतिव्याप्तिपक्षधर्मतामहरसाद्यनुमित्यास्वादाभिन्नरसादिप्रतीतिक्रमस्याशुभावितयाऽसंलक्ष्यत्वेनैवावस्थानात् । यथा च व्यक्तिवादिमते-प्रथमं विभावाद्युपस्थितिः, तत्पुना रसादिव्यजनं, तदनन्तरं साधारण्याभिमानः, अथ रसाद्याविर्भावः इति क्रमसत्त्वेऽपि रसादीनामसंलक्ष्यक्रमत्वम्; तथाऽनुमानवादेऽपि यत्रयत्र विभावादिप्रतीतिस्तत्रतत्र रसादिप्रतीतिरिति व्याप्तिः, ततः-रसादिव्याप्यविभावादिमानयमभिनय इति पक्षधर्मता, तत्पश्चात् अभिनयो रसादिमान् विभावादिशालित्वादित्यनुमितिः । अथ-अयमभिनय एतद्रसशाली, एतद्विभावादिशालित्वादित्यास्वादः । इति । यथाहि-'माएं-' इत्यत्र'यो यदीयोऽपनयः स तत्साध्यत्वावच्छिन्नोपायनिष्टसाध्यत्वाभाववानिति व्याप्तिं गृहीत्वा तदन्यकर्त्तव्योपायनिवर्त्यव्याप्यापनयाभिधानवदिदं वाक्यमिति पक्षधर्मताग्रहे मत्कर्त्तव्योपायनिवर्त्यत्वदपनय इत्यनुमितौ मया तथा यत्यते यथा त्वत्कर्तृकापनयो नावतिष्ठेत ।'इति साक्षानिरूपणं प्रतिपद्यते । इति ।
तत्र तस्मिन् विषये । प्रष्टव्यं प्रष्टुं शक्यम् । 'अस्ती'ति शेषः । किं किन्ननु । शब्दाभिनयसमर्पित. विभावादिप्रत्ययानुमितरामादिगतरागादिज्ञानं शब्दाभिनयाभ्यां समर्पिता निरूपिता थे विभावादयस्तेषां प्रत्ययः प्रतीतिस्तेनानुमिता ये रामादिगतरागादयो रामादिनिष्टसीताऽऽदिसीताऽऽदिविषयकानुरागादय इति