________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
३९९ व्यक्तिविवेककारेण हि-याऽपि विभावादिभ्यो रसादीनां प्रतीतिः साऽनुमाने एवान्तर्भवितुमर्हति । विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीतेः साधनमिष्यते, ते हि रत्यादीनां भावानां कारणकार्यसहकारिभूतास्ताननुमापयन्त एव रसादीन् निष्पादयन्ति, त एव प्रतीयमाना आस्वादपदवीं गताः सन्तो रसा इत्युच्यन्ते । इति-अवश्यम्भावी तत्प्रतीतिक्रमः केवलमाशुभावितया न लक्ष्यते, यतोऽयमत्रा (द्या) प्यभिव्यक्तिक्रमः (क्तिकः, क्तकः, क्तः) इति 'यदुक्तम्'
कुज्झटिकाकुलिते देशे धूमस्यासतोऽप्यभिमानं, तेन यथा धूमनियतस्य वढेरनुमानम् , तथैव नाटये काव्ये वा नटेन कविनैव वा सुनिपुणं निरूप्यमाणैर्वस्तुतश्चासद्भिरपि विभावादिभिर्विभावादिनियता रत्यादयोऽनुमीयमानास्तत्साधापादकनैपुण्यबलात्तेषां तेषामाखाद्यमानतया चमत्कारकारणीभूताः सन्तो रसादयः, इति तत्रतत्रोपयुज्यत एवानुमानम् । इति । तथा-यत् प्रतीयते तत् सर्वमर्थात् सम्बद्धम् । न तु तद्विरुद्धम् । यस्मात् कस्मादपि यस्य कस्यापि प्रतीतेः प्रसङ्गात् । अतः-व्यङ्गयोऽप्यर्थो नियत एवेति सपक्षसत्त्वेन विपक्षासत्त्वेन पक्षसत्त्वेन चेति त्रिरूपालिङ्गाल्लिङ्गिज्ञानस्यानु. मानस्यैव विषयः सर्वोऽपि व्यङ्गयोऽन्यः । तथाहि-'माए ! घरोवअरणं अज्ज हु ण स्थित्ति साहिअं तुमए। ता भण किं करणिज्जं एमेअ ण वासरो ठाई ॥'इति । अस्य च-'मातर्गृहोपकरणमद्य खलु नास्तीति साधितं त्वया। तद् भण किं करणीयमेवमेव न वासरः स्थायी ॥' इत्यर्थः । अत्र हि-सम्बोध्यकतकगृहसमस्तोपकरणविनाशाभिधानेन गृहोपयोगिनस्तस्यतस्योपकरणस्य सम्पत्तये वक्तमात्रकतकयत्नावश्यकत्वाभिधानमनुमीयते, तेन च-बहिर्निगमायामाज्ञायामनुभितायां वक्तृकर्तकस्वैरभ्रमणार्थनमनुमीयते। इति दिक् ।' इत्याहुर्व्यक्तिमसहमानाः । व्यक्तिमङ्गीकर्तारः पुनरेवमाहुः-निर्जले जलज्ञानमिव कुज्झटिकाकुलितेऽपि देशे धूमज्ञानं न यथार्थम् । तथा सति तथाऽनुमानमपि न प्रमाणकोटिमधिरोद्दति, किन्तु भ्रमकोटिमेवेति यथा, तथा नाटये काव्ये वा विभावादीनां वस्तुतया सद्भावाभावे अननुभूतपूर्वाणां च तेषां स्मृतिगोचरतया प्रतिपादयितुमशक्यत्वे तत्तत्समर्प्यमाणतत्तत्सादृश्यभ्रमावहसामग्रीवशादपि विभा. वादिनियताना रत्यादीनां प्रतीतिस्तया पुनर्यश्चमत्कारो न स्यात्तयाथाऽर्थ्यम् । इति । तथा-सम्बोध्यकर्तृकगृहसमस्तोपकरणविनाशाभिधानेन तथातथाऽनुमानमपि न वस्तुसत् । त्वया सर्वमुपकरणं विलयं नीतमिति त्वयैव तत्सम्पत्तये यतितव्यम्, यद्यपि त्वयाऽपि न किमपि कर्त्त शक्य, किं पुनर्मया, अथापि मया बालया किंकर्तव्यविमूढया न कथमपि किमपि श्रेयः प्रतिपद्यते, अथ यदि त्वया प्रतिपद्यते तर्हि त्वयैव तथा यतितव्यम् अन्यदा त्वयाऽपि मयेव स्थातव्यं, भोक्तव्यं च कृतं कर्मेति विरुद्धधियोऽपि तथाऽभ्युपगमात् । इति ।
अथोक्तमर्थमनुसन्दधानः कारिकां च व्याचक्षणः प्रणिधातव्यमर्थ सुगमयति-व्यक्तिविवेककारेणेत्यादिना ।
'विभावादिभ्यो विमावानुभावव्यभिचारिभ्यो विभावादीनभिव्याप्येति यावत् । 'ल्यब्लोपे कर्मण्यधिकरणे च ॥ इति पञ्चमी। रसादीनां रसभावतदाभासादीनाम् । याऽनिर्देश्या। प्रतीतिः प्रतीतिमात्रेण स्फुरणम् । अपि किं पुनः साक्षात्तयाऽभ्युपगमः । 'अस्ती'ति शेषः । सा 'प्रतीतिरिति शेषः । अनुमाने प्रत्यक्षमुपजीव्यलिङ्गपरामर्शजन्ये ज्ञाने। एव न तु पराभिमतव्यञ्जनाजन्यबोधे । अन्तर्भवितुं तिरोभवितुं तत्त्वेनावस्थातुमिति यावत् । अहति । क्षमते इति भावः । हि यतः । विभावानुभावव्यभिचारिपतीतिर्विभावस्यानुभावस्य व्यभिचारिणश्च प्रतीतिः । रसादिप्रतीते रसादीनां रसभावतदाभासादीनां प्रतीतिः प्रत्ययोऽनुभवास्पदत्वेन स्फुरणमिति यावत् इति तस्याः । साधनमुपायविशेषः । इष्यतेऽभिलषितो भवति । ततः-ते विभावादयः । हि एव । रत्यादीनां रतिहासादी. नाम् । भावानां स्थायिभावानाम् । कारणकार्यसहकारिभूताः कारणकार्यसहकारिखरूपाः । यथा- रते यको. द्यानादिरूपो विभावः कारणम् , रोमोद्गमादिरूपोऽनुभावः कार्यम् , मदमूर्छाऽऽदिरूपो व्यभिचारी भावः सहकारिकारणम् । इति । तान् रतिहासादीन् स्थायिनो भावान् । अनुमापयन्तोऽनुमितिविषयं नयन्तः सन्तः स्वविषयकव्या- , प्तिविशिष्टपक्षधर्मताज्ञानेन बोधयन्त इति यावत् । एव न स्वनुमाप्य न वाऽनुमापयिष्यन्त इति यावत् । रसादीन शशारादीन् रसान् निर्वेदादींश्च भावांस्तदाभासादींश्च । निष्पादयन्ति चर्वणीयत्वेनोपस्थापयन्ति । ते विभावादयः । एव केवलम् । प्रतीयमानाः ‘सन्त' इति शेषः । आस्वादपदवीमास्वादस्य चमत्कारानुभवस्य पदवी सोपानं ताम् । गताःप्राप्ताः। सन्तः। रसा रसादयः । इतीत्येवम् । उच्यन्ते कथ्यन्ते । इतीत्यस्मात् कारणात् ।