________________
३९८
[पञ्चमः
साहित्यदर्पणः। ३०१ नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमम् ।
आभासत्वेन हेतूनां
अस्य पुनः 'गङ्गातीरे घोषः। ' इत्याद्यनभिधाय 'गङ्गायां घोषः। ' इत्याद्यभिधानमात्रेणापि तथा बोध इति बोधाधिक्यमेव प्रयोजनम् । इति न परिणामरमणीयम् । अत्र हि-पावनत्वाद्यतिशयात्मकप्रयोजनविशिष्टतीरादिबोधः । प्रयोजनं फलं, तीरादि पुनर्विषयस्तच्छालित्वात् । तथा च-स्फुट: फलफलिनोरभेदः । तत्प्रकारकः पुनर्बोधो न क्षोदक्षमः । फलज्ञानानन्तरमेव फलशालिविषयकज्ञानस्य सिद्धत्वेन तयोर्योगपद्यासम्भवात् । न हि फलान्यजानता 'फलशाल्येष वृक्ष' इति ज्ञातुं केनापि पार्यते । अत एव मीमांसकमते नीलज्ञानानन्तरं ज्ञातो नील ' इति प्रतीतेस्तज्ज्ञानेन मीले प्रकटताऽपरपर्याया ज्ञातता जायते। ज्ञानस्यातीन्द्रियत्वात्तदनन्तरभाविन्याश्च ज्ञाततायाः प्रत्यक्षत्वादेतया पुनस्तदा नुमीयते । तथा हि-यथा पीते पीतत्वप्रकारका ज्ञातता, तथैव नीले नीलविशेष्यकनीलत्वप्रकारकज्ञानोत्तरकालिका नीलवृत्तिनीलत्वप्रकारकज्ञाततात्वादियं ज्ञातता, यदत्तिर्यत्प्रकारिका या ज्ञातता सा तद्विशेष्यकतत्प्रकारकज्ञानोत्तरकालिकेति नैयायिकमते तु जाते नीलादिज्ञाने 'नीलमहं जानामी' ति ज्ञानं प्रत्यक्षरूपोऽनव्यवसायः । तथा हि-यथा सामान्यरूपेण पीतज्ञाने जाते 'पीतमहं जानामी' ति पीतविषयकज्ञानवानहमस्मीत्यात्मकं ज्ञानं प्रत्यक्षमनुव्यवसायशब्देनाभिधीयते तथैव नीले ज्ञाते 'नीलमहं जानामी' ति नीलनिष्टकमतानिरूपितसम्बन्धावच्छिन्ना या जानातिक्रिया तनिरूपिता या कर्तृता तद्वानहमस्मीति ज्ञानं प्रत्यक्षानुव्यवसायापरपर्यायम् । इति । तदेवं फलफलिनोर्भेद एव सर्वेषामभिमतः । अथ तथा प्रयोजनविशिष्टे तीरादौ लक्षणायाः स्वीकारे तयोर्भेदाभावो न प्राचां सम्मतो न चानुभवसिद्ध इत्युपेक्ष्य एवेति। वयं तु एवमपि बमः-प्रयोजनविशिष्टेऽपि तीरादौ लक्षणयोपस्थापिते 'गङ्गातीरे घोषः। ' इत्याद्यनभिधाय 'गङ्गायां घोषः । ' इत्याद्यभिधानमात्रेणापि तथा बोध इति बोधाधिक्यात्मकस्य प्रयोजनस्य पुनरवशिष्यमाणत्वेऽनवस्थापातोऽवशिष्यमाणस्य च प्रयोजनस्यावगमायैव पुनर्व्यञ्जनायाः स्वीकर्तव्यत्वम् । इति ।
___ यथा कुज्झटिकाकुलिते देशेऽसतोऽपि धूमस्याभिमानात् धूमनियतस्य वढेरनुमानम् , तथाऽभिनयेऽसतामपि विभावादीनामभिमानात् विभावादिनियतानां रसादीनामनुमानम् । इत्यनुभानेनैव रसादिप्रतीति (व्यङ्गयप्रतीति) गताथयतां श्रीशङकुकानुयायिनां नैयायिकानां व्यक्तिविवेककाराणां श्रीमहिमभट्टानां मतं निराकरोति-३०१ नेत्यादिना ।।
३०१ रसादीनां रसभावतदाभासादीनाम् । व्यङ्यानां व्यजनया बोध्यानाम् । बोधनक्षम बोधने क्षम समर्थमिति यावत् । अनुमानं लिङ्गपरामर्शः । लिङ्गं च-अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति त्रिविधम् । परामर्शः पुन:-व्याप्तिविशिष्टपक्षधर्मताज्ञानम् । हेतूनाम् । बहत्वमविवक्षितम् । हेतोरित्यर्थः । अनन्यथा सिद्धत्वे सति कार्याव्यवहितपूर्वक्षणे नियतत्वेन वर्तमानस्यानुमितिसाधनस्येति यावत् । आभासत्वेनाभासमात्रत्वेन । तच्च व्यभिचारादिदुष्टत्वम् । 'हेतुने ति शेषः । 'हेतो।' २।३।२३ इति तृतीया । न नैव । 'सङ्गच्छते।' इति शेषः ।
अत्रायम्भावः-ज्ञानं तावविविधं, यथाऽर्थमयथाऽर्थ च, तत्र यथाऽर्थे ज्ञानं प्रमा, तद्भिनं भ्रमः । अथ प्रमा चतु. प्रकारा प्रत्यक्षानुमानोपमानशब्दभेदात् । एवमनुमानमपि प्रमारूपमेव न तु तद्भिन्नम् । तथा हि-अनुमितेरसाधारण कारणमनुमानम्, अनुमितिश्च परामर्शजन्यज्ञानरूपा। अनन्यथासिद्धनियतपूर्ववर्ति असाधारणं कारणम् । प्रत्यक्षमुपजीव्यप्र. वृत्तं तथाभूतं ज्ञानं परामर्शः, स एव व्याप्तिविशिष्टपक्षधर्मताज्ञानम् । तत्र व्याप्तिर्यथा-'यत्रयत्र धूमस्तत्रतत्र वह्नि रिति, पक्षधर्मता पुनः-'यत्र धूमस्तत्र वहि'रिति महानसादौ व्याप्तिमवलम्ब्य अयं पर्वतो वह्निमान्'इति ज्ञानम् । न चेदं प्रत्यक्षम् । तदवधि धूमस्यैव प्रत्यक्षत्वात् । वर्तेस्तु तत्र व्याप्तिविशिष्टतयैवानुभूयमानत्वात् । इति । अथ-रसादयोऽनुमेया न वेति विविच्यते । रसादयस्सर्वेऽपि व्यङ्गयार्था अनुमेयाः । विभावादिनियतत्वात् । अत्र रसादयः, विभावादिसत्त्वात् यत्र विभावादिसत्त्वं तत्र रसादिशालित्वं यथाऽन्यत्र सर्वत्र । अतः-अभिनयोऽयं रसादिमान् विभावादिमत्त्वात् । इति । यद्यपि न नाटये न च काव्ये वस्तुतया विभावादयः, किन्तु नटेन कविनैव वा तत्र निरूप्यमाणाः; अतःतथाभूतैः सहृदयहृदयदयितानामत एव सहृदयैर्निर्भरमनुभूयमानानां रसादीनामनुमानं किं नामेति वक्तुं शक्यते, तथाऽपि