________________
परिच्छेदः ]
रुचिराख्पया व्याख्यया समेतः । न चापि प्रयोजनविशिष्ट एव तीरे लक्षणा, विषयप्रयोजनयोर्युगपत्प्रतीत्यनभ्युपगमात् । नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्यवसायस्य वा सम्भवः ।
प्रतिपाद्यम् । स्याद भवेत् । 'तदेति शेषः । तीरस्य लक्षणया समय॑माणस्यार्थस्येत्यर्थः । मुख्यार्थत्वं मुख्यार्थोऽभिषया प्रतिपाद्योऽर्थस्तत्त्वम् । 'स्यात्'इति शेषः । च तथा । 'तस्थे ति शेषः । बाधितत्वमनुपपत्तिमत्त्वम् । बाधितस्योपपत्ति प्राप्तस्य भाव इति तथोक्तम् । स्यात् । 'पावनत्वाद्यतिशयेन लक्षणीयेन सम्बन्धश्च स्यादिति शेषः । च पुनः । तस्य लक्ष्यमामाणस्य तस्य प्रयोजनस्य । अपि । लक्ष्यतया लक्षणया समर्प्यमाणत्वेन। प्रयोजनान्तरे 'ऽभिप्रेते सती'ति शेषः । तस्य प्रयोजनान्तरस्य । अपि । 'यदी'ति शेषः । प्रयोजनान्तरमन्यत् प्रयोजनम् । 'स्यादिति शेषः । इतीत्येवम् । अनवस्थापातोऽनवस्थायास्तदाख्यस्य दोषस्य पातः प्रसङ्ग आपतत उपस्थितिः स्यादिति यावत् ।
अत्रेदं तात्पर्यम्-यदि यत्र सप्रयोजनो मुख्यार्थवाधः स्यात्तत्र तर्हि मुख्याथै कथमपि सति बाधिते किमपि प्रयोजनमधिष्टाय तत्सम्बन्धमुपादाय तद्बाधितत्वं निरसितुमेव लक्षणायाः प्रवृत्तिः, नान्यथाऽपीति सिद्धान्तः । तथा च-लक्षणया यस्य मुख्यार्थस्य यत्र बाधस्तत्र तत्सम्बद्धः एव तन्मात्रनिरसनपरोऽर्थ उपस्थाप्यते, नतु प्रयोजनमपि तस्य तथात्वेन तस्या अविषयत्वात् । इति । यथा-'गङ्गायां घोषः ।' इत्यत्र गङ्गाशब्दस्य जलप्रवाहरूपो मुख्योऽर्थः, तस्य पुनर्घोषाधिकरणकतयाऽनुपपत्तिरूपो बाधः, अतस्तस्य तीरे सम्बन्धेन निरास इति तत्पावनत्वाचतिशयख्यापनरूपं प्रयोजनमधिष्ठाय लक्षणया तीररूपस्यार्थस्योत्थापनम् । इति मुख्यार्थेन प्रतिपादयितु. मशक्यस्य पावनत्वाद्यतिशयात्मकप्रतीत्यभिन्नस्य प्रयोजनस्य सद्भावे लक्षणया गङ्गाशब्देन तीरमुपस्थाप्यते गङ्गाशब्देन तीरं लक्ष्यते इति यावत् । तथा यदि गङ्गाशब्दस्य मुख्यार्थस्तीरं स्यात् , तत्र पुनर्घोषाधिकरणत्वं बाधित्वं स्यात् प्रयोजनस्य च गङ्गागतपावनत्वाद्यतिशयविशेषस्य तीरेण साक्षात् सम्बन्धः स्यात् लक्षणया च प्रयोजनप्रतिपादनस्य प्रयोजनान्तरं स्यात् तर्हि लक्षणया गङ्गाशब्देन प्रयोजनं लक्ष्येत न चेदं किमपि विद्यते । यदि च तीरगतपावनत्वाद्यतिशयरूपस्य प्रयोजनस्यापि लक्ष्यत्वं स्यात् तल्लक्ष्यगतं प्रयोजनान्तरं च स्यात् , तर्हि तथा प्रयोजनपारम्पय्य लक्षणाऽङ्गीकारे प्रयोजनान्वेषणस्य चापर्यवसाने तस्य पावनत्वाद्यतिशयस्य तीरस्य च बोधाभावापादिकाऽनवस्थोपतिष्ठेत । इति । वस्तुतस्तु मनोविलसितमात्रमिदम् । कथमपथा गङ्गाशब्देन लक्षणयोपस्थापिते तीरे तदनन्तरं च तस्यां विरतव्यापारायां प्रयोजनमुपस्थाप्येत । इति ।
ननु न लक्षणया शक्यसम्बद्ध एवार्थः समुपस्थाप्यते किन्तु प्रयोजनमपि । अथ यदि शक्यसम्बद्धमर्थमुपस्थाप्यैव विरमति लक्षणा, विरतायां च तस्यां पुनरुत्थानाभाव एवाङ्गीक्रियते तर्हि काममङ्गीक्रियतां नाम, किन्तु प्रयोजनसंवलित एवासौ किमु न लक्ष्येतेत्याशङ्कयोत्तरयति-न चापीत्यादिना ।
च पुनः । प्रयोजनविशिष्ट प्रयोजनेन विशिष्टं संयुक्तं तत्र । एव । न तु तद्विपरीतेऽपीत्यर्थः । तीरे । 'तीरे' इति लक्ष्यमात्रस्योपलक्षकम् । 'निमित्तात्कर्मयोगे*।' इति निमित्ते सप्तमी । तथा च-तीराद्यर्थबोधनि. मित्तमित्यर्थः । अपि । लक्षणा ' प्रवर्तते ' इति शेषः । इति-न नैव 'सङ्गच्छत' इति शेषः । कुत इत्याह-विषयप्रयोजनयोर्विषयः कारणीभूतज्ञानविषयः, प्रयोजनं फलीभूतज्ञानविषयस्तयोरित्यर्थः । युगपदेकस्मिन्नेव समये । प्रतीत्यनभ्युपगमात् प्रतीतेरनभ्युपगमस्तस्मात् । तदेव द्रढचति-हि यतः । नीलादिसंवेदनानन्तरं नीलादिज्ञानोत्तरकाले । एव नतु नीलादिज्ञानात् प्रागपि । ज्ञातताया ज्ञानविषयीकृतातयाः । वाऽथवा । अनुव्यवसायस्य निश्चयस्य । न नैव । सम्भवो 'जायत' इति शेषः ।
अत्रेदमभिहितम्-यदि 'गङ्गायां घोषः ।' इत्यादौ तीरादि लक्षयित्वा प्रयोजनं लक्षयितुं 'शब्दबुद्धिकर्मणां विरम्यव्यापाराभाव ' इत्युक्तदिशा लक्षणा न प्रवर्तेत तर्हि मा प्रवर्त्तताम् , किन्तु प्रयोजनीभूतज्ञानविषयेण पावनत्वादिना विशिष्टमेव तीरादि लक्षयितुं प्रवर्तत, तथा च-'अतिपावने सुशीतले गङ्गातीरे घोषः । ' इत्यादिप्रकारको बोधः,