________________
साहित्यदर्पणः।
[पञ्चम:
'श्रुतान्वयादनाकाक्षं न वाक्यं ह्यन्यदिच्छति ।
पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः ॥' इति । न पुनः 'शून्यं वासगृहम्-' इत्यादी मुख्यार्थबाधः । यदि च 'गङ्गायां घोषः।' इत्यादी प्रयोजन लक्ष्य स्यात् तीरस्य मुख्यार्थत्वं बाधितत्वं च स्यात, तस्यापि च लक्ष्यतया प्रयोजनान्तरे तस्यापि प्रयोजनान्तरमित्यनवस्थापातः ।
अथ किमुक्तमित्याह-'श्रुतान्वयात्-' इति ।
'वाक्यं पदसमुदायविशेषः । श्रुतान्वयात् । श्रुतानामभिधयोपस्थापनानन्तरं श्रवणविषयमुपगतानामर्थानामन्वयः सम्बन्धः परस्परं योग्यत्वादिना साचिव्यं तस्मात् कारणादित्यर्थः । यद्वा-श्रुतो योग्यताऽऽदिमत्तया प्रसिद्धिं प्राप्तोऽसौ अन्वय इति तस्मात् । यद्वा-श्रुतस्य (वाक्यस्य) अन्वयोऽर्थबोधजनकत्वेन पर्यवसानं तस्मात् । अनाकाङ्क्षं निराकाक्षं सजातीयस्य विजातीयस्य वाऽर्थस्यावलम्बविषयिण्याऽऽकाक्षया शून्यमिति यावत् । 'स'दिति शेषः । अन्यत् । 'अवलम्बनीयत्वेनेति शेषः । न नैव । हि यतः । इच्छति काङ्क्षते । 'तत'इति शेषः । पदार्थान्वयः वैधुर्यात् पदानां सुप्तिङन्तानां शब्दविशेषाणामर्था अभिधया प्रतिपाद्या अर्था इति तेषामन्वयोचितत्वेन ( सम्बद्धरूपेण ) पर्यवसानं तस्य वैधुर्यमभावस्तस्मात् । विधुरस्य वियुक्तस्य भावो वैधुर्यम् । 'कैवल्येऽपि च विश्लेषे विधुरं विकले त्रिषु' इति त्रिकाण्डशेषः । तदा तस्मिन् समये पदार्थान्वयवैधुर्यावसर इति यावत् । आक्षिप्तेनाक्षेपोपात्तेन न तु सङ्केतित. मात्रखरूपेण । यद्वा-तदाक्षिप्तेन इत्येक पदम् । तेन शक्येनाक्षिप्त आक्षिप्योपात्तोऽर्थस्तेन तद्वारा । सङ्गतिरन्वयोप' पत्तिः । 'भवतीति शेषः ॥' इति ।
अत्रेदमभिधानम्-अभिधया ताववृत्त्या तस्यतस्य पदस्य ससोऽर्थ उपस्थाप्यते। ते सर्वेऽप्यर्थाः श्रुतप्रायत्वा च्छ्रता इत्युच्यन्ते, तथाभूताः पुनरर्थास्तात्पर्यवृत्त्या सम्भूयावतिष्ठमानाः सम्बद्धा अन्विता इति वाऽप्युच्यन्ते । अन्वितेषु तेषु पदेषु निराकाङ्क्षत्वं निर्बाधम, यावदनन्वयं तेषां साकाङ्क्षत्वात् ; अन्वयोत्तरं च .निराकाङ्क्षत्वात् । वाक्यं हि पदावष्टम्भम् । पदानि पुनरन्वितान्येव अवष्टम्भस्वरूपाणि वाक्यस्य। अन्वितेषु तेषु न तस्य कस्यापि साहाय्यापेक्षा, येन तत साकाक्षं स्यात् । यदि तु अभिधयोपस्थापिता अर्थास्तात्पर्यवृत्त्या अन्वितता प्रतिनीयमाना अपि कथञ्चिदन्विततां न प्रतिनीयेरन्, किन्तु प्रतिबध्येरन्, तर्हि तद्वाचका अपि शब्दा अनन्विता एव, तेषु तथाविधेषु स्वावष्टम्भेषु वाक्य विकलमिव सम्भवतीति तस्य वैकल्यस्य परिहाराय कस्याप्यवलम्बः सापेक्ष इति स्थिते न नितान्तं विजातीयस्येति अभिधया प्रतिपाद्यमानेनार्थेन ससम्बन्धस्यार्थस्यावष्टम्भः स्थाने, तस्मात्तदा साकाङ्क्षस्य तस्य सङ्गतिवैकल्यपरिहारश्चोपपादनीयत्वेनोपयुज्यते। इत्येवाभिसन्धाय हरिहासभट्टाचार्यैरपि व्याख्यातम्-'गोसादृश्यसामानाधिकरण्येन गवयपदवाच्यत्वविषयकज्ञानजनकतया शब्दस्य गवयत्वादिना शक्तिबोधेनाकाक्षा अन्वयस्य पर्यवसनात् , यत्र पदार्था एवान्वयविधुराः केनापि रूपेणान्वयायोग्याः तत्र तदाक्षिप्तेन तेन लक्षणीयेनार्थेन सङ्गतिरन्वयः, यथा 'गङ्गायां घोषः ।' इत्यादौ ।'इति । __ व्यङ्गयार्थस्थले मुख्यार्थवाधाभावं दर्शयन् तत्र लक्ष्यत्वं परिहर्तुमाह-न पुनरित्यादि।
न नैव । पुनः तु । 'शून्यं वासगृहम्-इत्यादी. 'शून्यं वासगृह विलोक्य शयनादुत्थाय किञ्चिच्छनैः' इत्यादौ इत्यर्थः । मुख्यार्थबाधः पदार्थान्वयवैधुर्य 'मस्ती'ति शेषः । येन आक्षिप्य सङ्गतिरभिप्रेता स्यात् किन्तु प्रकृते तदभावाच्छ्रतान्वयसद्भावाच निराकाइक्षत्वमिति "गङ्गायां घोषः ।' इत्यादिस्थले एव मुख्यार्थवाधस्तदमुत्रैवाक्षिप्तेन सङ्गतिः सव्यपेक्षेति बोध्यम् । अत्रायम्भावः- 'शून्यं वासगृहं विलोक्य' इत्यादौ मुख्यार्थोपपत्तेस्तदभावाभावाच नाक्षिप्तेन सङ्गतिरपेक्ष्यते, 'गङ्गायां घोषः । इत्यादौ तु मुख्यार्थस्य बाधः स्फुट एवेति कथमाक्षिप्तमनपेक्षित स्यात् । इति । अनेवंविधस्थलेऽपि ( 'शून्यं वासगृहं-'इत्यादावपि ) व्यङ्गयाभ्युदयदर्शनान्न लक्ष्यत्वं सम्भवति न च तथा सम्भावनीयमपीति ।
ननु लक्षणा हि प्रयोजनमूला प्रयोजनमन्तरेण तदप्रवृत्तेः प्रयोजनं पुनरालङ्कारिकाणां विचारदृशा व्यङ्गय, किन्तु तयोपस्थाप्यमानस्यार्थस्येव तस्यापि तत्त्वं कुतो न स्यात् तथा सति व्यङ्ग्यमेव लक्ष्यमिति सिद्धान्तः शरणमिति चेन्नेत्यभिधत्सुस्तत्रानवस्थापातमाह-यदीत्यादि ।
यदि यहि । च पुनः । “गायां तन्नाम्न्यां नद्याम् । घोषो स्ति'ति शेषः ।' इत्यादौ 'प्रयोगे' इति शेषः । प्रयोजनं 'लक्षणायाः प्रवृत्तिनिवृत्तिनिमित्तभूत'मिति शेषः । लक्ष्यं यन्मूलं प्रयोजनं तयैव लक्षणया वृत्त्या