________________
परिच्छेदः ]
रुचिराण्यया पाख्यया समेतः । 'न बोधिका' इति शेषः । नहि कोऽपि रसनात्मकव्यापाराद भिन्नो रसादिपदप्रतिपाद्यः पदार्थः प्रमाणसिद्धोऽस्ति यमिमे लक्षणाऽभिधे बोधयेताम् ।
किश्च-यत्र 'गङ्गायां घोषः ।' इत्यादावुपात्तशब्दार्थानां बुभूषन्नेवान्वयोऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः।
यदुक्तं न्यायकुसुमाञ्जलावुदयनाचार्यः
अत्रावशिष्टांशमाह-'न नैव । बोधिका 'व्यङ्गयस्येति शेषः । इतिशेष इत्यनुषज्यते । इति । अथोक्तकारिकायाः पूर्वभाग भङ्गयन्तरेण विवृण्वंस्तस्य तात्पर्य निर्दिशति-नहीत्यादिना ।
इमे । लक्षणाऽभिधे 'वृत्ती' इति शेषः । ये पदार्थ मिति शेषः । बोधयेतां वोधितं कुर्याताम् । 'स' इति शेषः । कोऽपि कश्चित् । रसनात्मकव्यापारासनं प्रतीतिस्तदात्मको यो व्यापारस्तस्मात् । रस्यते आस्वाद्यते प्रतीयत इति यावत्, इति रसनम् । 'ल्युटच। ३।३।११५ इति ल्युट । 'रस' आस्वादनस्नेहनयोः । भिन्नो द्वितीयः । रसादिपदप्रतिपाद्यो रसादीनि यानि पदानीति, तैः प्रतिपाद्यः। पदार्थो वस्तु । प्रमाणसिद्धः प्रत्यक्षादिष्वन्य. तमेन प्रमाणेन सिद्धः । अस्ति विद्यते । नहि । इति ।
अवार्य निष्कर्षः-व्यङ्ग यस्तावदर्थो रसाद्यात्मा व्यज्यमानत्वात् , तच प्रतीयमानत्वानुभूयमानत्वाखाद्यमानत्वाधपरपर्यायः आहादविशेषोद्बोधः। तत्रैव सहृदयहृदयस्य साक्ष्यत्वात्। वाच्यः पुनरर्थस्तद्भिन्नोऽभिधीयमानत्वात्। तत्त्वं च-सङ्केतविषयत्वम् । सङ्केतः पुनर्जातिगुणक्रियायदृच्छाभेदाच्चतुर्विधो, जातिमात्रस्वरूपतया वैकात्मैव । तदाश्रितत्वेनैव तस्यावस्थानात् । व्यङ्गयत्वा. वच्छिन्नत्वावच्छेदकं च जात्याद्यतिरिक्तस्वरूपमिति व्यङ्गयस्य वाच्यत्वं न सङ्घटते, तथा सति तस्याभिधाव्यापारास्पर्शित्वं खतःसिद्धम् । लक्ष्योऽप्येवं न व्यङ्गयः । लक्ष्यो हि सङ्केतमवष्टभ्य लब्धसत्ताकः । तथा च-सङ्केतावष्टम्भत्वं लक्ष्यत्वमिति निष्पन्नम् । सङ्केतश्च जात्याद्यवष्टम्भात्मा । व्यङ्गयस्तु न जात्याद्यवष्टम्भो न च सङ्केतावष्टम्भः, येनासो तथाविध: स्यात् ।
न्यां विलक्षण एवेति तत्तत्प्रतिपादिकाभ्यां वृत्तिभ्यां विलक्षणयैव कयाऽपि वृत्त्या प्रतिपाद्यः स्यादिति सिद्धान्तो नापनीयते विवेकदृशा सूक्ष्मदृशाम् । एवं सति व्यङ्गयो व्यञ्जनयैव प्रतिपाद्यो न तु लक्षणया नाप्यभिधया वृत्त्येति ।
अथोत्तरभाग विवृणोति-किश्चेत्यादिना ।
किश्च । यत्र यस्मिन् । 'गङ्गायां भागीरथ्यां नद्याम् । घोषो प्रामविशेषः ।' इत्यादौ 'प्रयोग'इति शेषः । उपात्तशब्दार्थानामुपात्ताः सम्पादिता अभिधया वृत्त्या खव्यापारात्मकतामानीता इति यावत, ये शब्दार्थाः पदार्थी इति तेषाम् । अन्वयः सम्बद्धतयाऽवस्थानम् । बुभूषन् भवितुमिच्छन् । भवितुमिच्छतीति बुभूषतीति तथोक्तः । सङ्गतत्वमुपस्थातुमिच्छां कुर्वन् न तु कृतवान्न च करिष्यन्निति भावः । एव। अनुपपत्त्योपपत्तिः सङ्गतिस्तदभावेनेत्यर्थः । बाध्यते बाधितः क्रियते बाधां प्राप्तः क्रियते इति यावत् । तत्र 'गङ्गायां घोषः।' इत्यादौ 'प्रयोग'इति शेषः । एव नत्वन्यत्र । हि यतः कारणात् । लक्षणायास्तन्नाम्न्या वृत्तेः। प्रवेशः सफलव्यापारा भवितुमवतारः । ततो यथार्थोद्वोधावसरे न लक्षणया प्रवेश इति शेषः । - इदमुक्तम्-'गङ्गा'शब्दस्य जलप्रवाहविशेषरूपोऽर्थः, सप्तम्याश्चाधिकरणरूपः; तथा-घोषशब्दस्याभीरजातीयजनसम्बन्धी प्रामविशेषरूपोऽर्थः,प्रथमायाः पुनर्वर्तमानकालिकरूपोऽर्थः । इत्यस्य पुनरन्वयो बुभूषन्नेव दरिंद्रमनोरथ इवासम्पन्नो बाधितो जायते। बाधिका चानुपपत्तिः। सा च-गङ्गाऽधिकरणकघोषाधेयताया असम्भवरूपा । इत्येवं मुख्यार्थस्योपस्थितस्यापि बाधे लक्षणायाः प्रवृत्तिः अत्रेवान्यत्राप्येवम्, किन्तु यत्र नैवं तत्र नैवम् । तस्मात्-व्यङ्गयो न लक्ष्योऽर्थः । न च तदर्था लक्षणायाः प्रवृत्तिरिति ।
अभिहितं प्रमाणयितुमाह-यदित्यादि ।
उदयनाचार्यैरुदयना अमी आचार्या इति तैः उदयनेतिनाम्ना प्रसिद्धराचारित्यर्थः । अत्र बहुवचनं गौरवाधम् । न्यायकुसुमाञ्जलौ । यद् यतः कारणात् । उक्तं प्रतिपादितम् । ततस्तन्मयोक्तं तथैवेति शेषः ।