________________
३९४
- साहित्यदर्पणः। ...
[पञ्चमः
निर्मूलत्वापत्तेश्च । प्राकू पूर्वम् । असत्त्वादविद्यमानत्वात् अव्यवहितपूर्वक्षणवर्तित्वाभावात् कारणादिति भावः । 'लक्ष. णाऽभिधयो'रिति शेषः । 'तयोर्हि स्वस्वव्यापारं निरूप्य सति विरामे पुनरुत्थानासम्भव' इति सुक्तमसत्त्वादिति । लक्षणाऽभिधे लक्षणाऽभिधा च वृत्ती इत्यर्थः । नो नैव । 'अभावे नानो नापी'त्यमरः । बोधिके 'रसादे'रिति व्यङ्गार्थस्येति वा शेषः । इति । यद्वा-प्राक् पूर्वस्यामवस्थायाम् । 'रसादिबोधा'दिति 'व्यङ्गयार्थवोधा'दिति वा शेषः । तथा च-रसादिबोधाद्वयङ्गथार्थबोधाद्वा पूर्वस्मिन् समये इति निष्कृष्टम् । असत्त्वादविद्यमानत्वात् । पदार्थत्वेन विद्यमानवाभावात् कारणादिति यावत् । 'रसादे रिति 'व्यङ्गयार्थस्येति वा शेषः । यद रसादिव्यङ्गयार्थों वा प्रतीयमानत्वानतिरिक्तस्वरूपः, तस्य च शाब्दत्वेन विद्यमानत्वाभावः । रसादे रसादिस्वरूपस्य व्यङ्कयार्थस्येति वा भावः । नो नैव । बोधिके बोधकी । लक्षणाऽभिधे लक्षणावृत्तिरभिधावृत्तिश्चेत्यर्थः । 'सम्भवत' इति शेषः । इति । अत्रेदमुक्तम्-सर्वोऽपि शब्दः सङ्केतितस्तावद्भवति, तत्सङ्केतमुपस्थाप्य विरमति पुनरभिधा, यत्र तु वाक्यान्वयानुपपत्तिस्तात्पर्यानुपपत्तिर्वा भवेत् तत्र मुख्याथैकांशमादाय प्रवर्त्तमाना लक्षणा वाक्यान्वयोपपत्त्यनुकूलं तात्पर्योपपत्त्यनुकूलं वा तत्सदृशमेवार्थमुपस्थापयति विरः मति च । (तत्सदृशमभिधेयसमरूपम्) । तदेवं विरतयोस्तयो: 'शब्दबुद्धिकर्मणां विरम्यव्यापाराभावः ।' इति प्रतिपादिता दिशा पुनर्व्यापारानुपपत्तौ सहृदयशा प्रस्फुरतः कस्याप्यर्थस्य पुनरुत्थापनाय कस्या अपि वृत्तेरङ्गीकारौचित्ये व्यजनैव शरणमवतिष्ठते । (कस्यापि निह्रोतुमशक्यस्याहादहेतोश्च )। 'नहि कारणमन्तरेण कार्यमुत्पद्यते' इति नियमेन व्यङ्गयार्थरूपस्य कार्यस्योल्लासाय व्यञ्जनायाः स्वीकारावश्यकत्वं बलादायातम् । न च-कालभेदेनैव व्यङ्गयार्थस्यार्थान्तरत्वनिरासे किं पुनरिदमभिहितम् ? इति शङ्कथम्, कालभेदेन व्यङ्गयस्य वाच्यत्वमात्रविरासे लक्ष्यताया अनिरासात् । ननु तस्य वाच्यत्वनिरासेऽप्येवं खतोऽभिधाया निरासे किं पुनस्तस्या एव निरासार्थमयमुद्योगः । इति चेत् ? कालभेदेन वाच्यार्थ. व्यङ्गयार्थयोः पूर्वपश्चाद्भावाभिधाने निरूपितेऽपि अभिधायाः ‘पुनरर्थान्तरोपस्थापनार्थ स्थगितव्यापारानभिधाने पुनः प्रवृत्तिचर्वायाः सर्वतोभावेनातिरोधानात् । ' लक्षणाऽभिधे' इत्यभिधानं तु तयोरुभयोरपि व्यङ्गयार्थोल्लाससम्पादनरूपं व्यापार प्रति अकिञ्चित्करत्वाख्यापनार्थम् । क्रमवशादभिधानस्य प्राप्तेऽपि औचित्ये पुनर्निर्देशो लक्षणाया एव व्यञ्जनाकार्यकारित्वस्य निरासार्थ इति बोध्यम् । इति । यद्वा-न हि व्यङ्गयार्थजातं सङ्केतखरूपं, न वा तद्बाधे तदंशमालम्ब्यावतिष्ठमानम् ; किन्तु तदनन्तरं सहृदयशैवानुभूयमानम् । इति तस्य कृते लक्षणाया अभिधायाश्च न किञ्चित्करत्वं प्रतिभासते । ते हि सङ्केतं तत्सम्बन्धमेव वोपस्थापयितुं शक्नुतः, न तु तदनन्तरं प्रस्फुरणशीलम् ; इति कथं तयोस्तत्र व्यापारः किञ्चित्करः स्यात् । इति सुव्यक्तं सुलोचनानाम् । तथा च-सङ्केतमुद्बोधयितुमभिधा यदा प्रयतते तदाऽपि नावतिष्ठते व्यङ्गयोऽर्थः, यदा पुनस्तद्बाधे तत्सम्बन्धिनमपरमर्थमुद्बोधयितुं प्रयतते लक्षणा तदाऽपि नावतिष्ठते व्य
इति प्रागसद्भावः सुव्यक्त एष व्यङ्गयस्यार्थस्य । तस्मात् खस्वव्यापारमुपस्थापयितुं प्रयतमानयोरपि लक्षणाऽभिधयोः प्रयतनावसरे व्यङ्गयस्यार्थस्यासद्भावात् सङ्केतस्य तत्सम्बन्धिनो वा तदनुरूपस्यार्थस्य सद्भावादेतावेव तयोर्व्यापाररूपतामवलम्बते न तु व्यङ्गयोऽपि । व्यापारभूतयोश्च तयोरर्थयोः सति सम्पत्तिसद्भावे निर्व्यापारयोश्च लक्षणाऽभिधयोरुपशमः शरणम् । इति । किश्चान्यच्चेत्यर्थः । मुख्यार्थबाधस्य मुख्योऽभिधया प्रतिपाद्योऽसावर्थ इति, तस्य बाधोऽनुपपत्तिस्तस्य । अभिधेयस्यैव सङ्केतस्वरूपत्वात् प्रागभवत्वमिति मुख्यत्वम् । मुखमिव मुखे वा भवतीति मुख्यः । 'शाखादिभ्यो यः । ' ५।३।१०३ इति यः । विरहाद वियोगादभावादिति यावत् । अपि । प्रागसत्त्वात्त्वस्त्येव न, किन्तु एतस्मादपि कारणादित्यर्थः । लक्षणा'न बोधिके' ति शेषः । यद्वा-लक्षणा लक्षणावृत्तिः केवला । अपि 'न बोधिके ' ति शेषः ॥ २९५॥
अत्रायम्भावः-वाक्यार्थामुपपत्त्या तात्पर्यार्थानुपपत्त्या वा मुख्यार्थस्य बाधः स्यात् । अस्मिन् पुनः सति तदंशमवलम्ब्य लक्षणायाः प्रवृत्ति,न त्वन्यथाऽपि । अथ-यत्र व्यङ्गयार्थावस्थानं न तत्र मुख्यार्थबाधः प्राग्वती । येनासौ प्रवर्तेत । किन्तु-क्वचित्मुख्यार्थबाधादुत्तरस्मिन्क्षणे सम्भवी लक्षणया प्रथमत एव तथा प्रतिपादितोऽर्थ, यथा पुनर्मु. ख्यार्थबाध एव नावतिष्ठेत । क्वचित् पुनरबाधितः प्रथमतः एव मुख्यार्थ इति व्यङ्गपार्थस्य बोधावसरे नैवोभयथाऽपि मुख्यार्थबाधोऽव्यवहितपूर्वक्षणवर्तीति न तदर्थ लक्षणायाः सद्भावः, किन्तु कस्याश्चन वृत्तेरन्यस्याः । एवं पुनर्निश्चये व्यञ्जनाया एवेति बलादायातम् । इति ।