________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
तस्मान्नाभिधेय एव व्यङ्ग्यः ।
किश्व
३०० प्रागसत्त्वाद्रसादेनों बोधिके लक्षणाऽभिधे । किश्च मुख्यार्थबाधस्य विरहादपि लक्षणा ॥ २९५ ॥
३९३
नाम स भवेत् पुरुषः, यस्य चेतसिन बलात् 'दुष्टाऽसौ अस्या अवश्यं कश्चिन्नाको ऽन्योऽपि तेनैव दष्टोऽयमोष्ठ' इत्याशङ्काजन्यो न स्याद् रोषः, स चासौ साम्प्रतमुपस्थित एवेति त्वयैव सोढव्यः, यदि मयोपदिष्टा न पद्ममप्रास्यस्तर्हि मृषा कलङ्की भवनमपि न तवाभविष्यदिति वाच्यार्थ बोधे सखी स्यादुद्देश्या भ्रमरेणैव दष्टोऽस्या अधरो न पुनः केनापि नायकान्तरेणेति व्ययार्थबोधे कान्त एवोद्देश्यः, स्फुटचैवं विषयभेदः । इति । अत्रैवं पुनराहुलचनकाराः 'सहस्वेदानी' मिति वाच्यमविनयवतीविषयम् । भर्तृविषयं तु 'अपराधो नास्ती' त्यावेद्यमानं व्यङ्गचम् । तस्यां च प्रियतमेन गाढमुपालभ्यमानायां तद्व्यलीकशङ्कितप्रातिवेश्मिक लोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं व्यङ्गयम् । तत्सपत्न्यां च तदुपालम्भतद विनय प्रहृष्टायसौभाग्यातिशयख्यापनं प्रियाया इति शब्दबलादिति सपत्नीविषयं व्यङ्गयम् । ' सपत्नीमध्ये इयत् खलीकृताऽस्मी'ति लाघवमात्मनि ग्रहीतुं न युक्तम् । प्रत्युतायं बहुमानः । सहख शोभस्वेदानीमिति सखीविषयं सौभाग्यप्रख्यापन व्यङ्ग्यम् । अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लभेत्थं रक्षिता, पुनः प्रकटरदनदंशन विधिर्न विधेय इति तचौर्य कामुकविषयसम्बोधनं व्यङ्गयम् । इत्थं मयैतदपन्हुतमिति स्ववैदग्ध्यख्यापनं तटस्थ विदग्धलोकविषयं व्यङ्गयम् ।' इति । अथ प्रकरणभेदो यथा-' अधिगम्य जगत्यधीश्वरादथ मुक्ति पुरुषोत्तमात्ततः । वचसामपि गोचरो न यः स समानन्दमविन्दत द्विजः ॥' इति । अत्र हि वाच्योऽर्थः पूर्वसर्गोक्तं प्रकरणमाश्रितः, व्यङ्गयः पुनस्तदानीमेवारभ्य माणसर्गारम्भकाले शिष्टाचारानुप्रयुक्तं मङ्गलाचरणकर्त्तव्यताकं प्रकरणमाश्रितः । इति स्फुटोsनयोः प्रकरणतो भेदः । अथौचित्यभेदो यथा - ' मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम् ॥' इति । अत्र हि प्रकरणतः कालिदासस्य वक्तृत्वं तेन पुनः स्वानुद्धतताss विष्करणाय स्वात्मनि मन्दत्वमध्यस्येव कवित्वाभिलाषित्वं हास्यास्पदमिति प्रकटयमाने वाच्योऽर्थो वक्तुर्मूढत्वेऽपि पाण्डित्याभिलाषित्वं हास्यायैवेत्यभिधानौचित्यमाश्रितः, व्यङ्गयोऽर्थस्तु वक्तुर्मन्दस्व मन्दत्वेऽपि कवेरिव कवित्वाभिलाषित्वं हास्यास्पदमिति प्रस्फुटयति । स्फुट एवमेतयोर्भेदः । शब्दान्तरसन्निधिभेदो यथा 'देवाद्भवानीपतेः । ' इति । अत्र हि'देवा' दिति सन्निधेर्भवानीपतेरित्यस्य वाच्यार्थः ' पार्वतीपतेर्महेश्वरा' दिति, किन्तु व्यङ्गयोऽर्थः पतिशब्दसन्निधेर्भवानीशब्दस्य पार्वती पुंञ्चलीति; स्फुटं चैवं शब्दान्तरसन्निधिभेदः । इदं च प्राचामनुरोधात् वस्तुतस्तु 'देवोऽसौ ब्राह्मणीपति' दित्यादावेवैतादृशव्यङ्गयावस्थानं बोध्यम् । इति दिक् ।
ननु भवत्वेवं वाच्यव्यङ्ग्ययोर्बोद्रादिभेदः, किं तेनेत्यत आह- तस्मादित्यादि ।
तस्माद् यस्मादेवं भेदस्तस्मात् कारणादित्यर्थः । अभिधेयोऽभिधया वृत्त्या प्रतिपाद्यः । ' अर्थ ' इति शेषः । व्ययः । अर्थ इति शेषः । एव । न नैव । तत् कथं न स्याद् व्यञ्जनाया अङ्गीकारावश्यकत्वमिति शेषः । अत्रैवमाहुकाराः प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत् प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥ ' इति ।
ननु मा भूदभिधेयो व्यङ्गयः, किन्तु लक्ष्यः पुनः कथं नेत्याशङ्कय व्यङ्ग्यस्य लक्ष्यत्वं निराचिकीर्षुर्निराकृतं च तस्याभिधेयत्वं पुनः प्रकारान्तरेण निराकुर्वन् व्यञ्जनयैव प्रतिपाद्यत्वं द्रढयति - किश्चेत्यादिना ।
किञ्च अथ
३०० रखादेः । 'बोधा' दिति शेषः । 'रसादे' रिति व्ययार्थमात्रग्राहकम् । 'शेषे षष्ठी । २।३ । ५० इति षष्ठी । तथा च-रसाद्यात्मकव्यङ्गयार्थसम्बन्धिबोधादित्यर्थः । ' बोधा' दिति पञ्चमी तु 'अन्यारादितरत्तै दिक्शब्दाञ्चूत्तरपदाजहि युक्ते ।' २ । ३ । २९ इत्यनेन । यत्तूक्तं तर्कवागीशैः - ' व्यङ्गयान्तरबोधो यथा तथाऽस्तु रसादिबोधस्तु व्यञ्जनावृत्त्यङ्गीकारमन्तरेण सर्वथा न सम्भवतीत्यभिप्रायेणाह - प्रागसत्त्वादिति ।' इति, तन्न चारु; रसादिभिन्नस्य व्यङ्गथावगमायापि व्यञ्जनामनङ्गीकृत्य वृत्त्यन्तरेणैव निर्वाहे तत्प्रतिपाद्यत्वापत्तेर्व्यङ्ग्यत्वस्य च मूलोच्छेदे व्यङ्गयत्वसाधारण्येन रसादेरपि
५०