________________
[पञ्चमः
साहित्यदर्पणः । 'कस्स व ण होइ रोसो दटूण पिआ सव्वणं अहरम् । सभभरपडभग्याइणि ! वारिअवामे ! सहसु एण्हिम् ॥२१८ ॥ इत्यत्र सखीतत्कान्तविषयत्वेन विषयभेदः।
तदर्थश्च वर्णसङ्घटना चेति तदर्थवर्णसङ्घटने तयोः पदपदाशयोरर्थ इति तदर्थः । वर्णानां सङ्घटना विन्यासविशेष इति वर्णसङ्घटना, रीतिरिति यावत् । आश्रयभेदो वाच्यस्य व्यङ्गयस्य चेति शेषः । यथा मम-'वामे : तव मुखमेतन्मृगमदतिलकं सुधाधरं रुचिरम् । अलकग्रस्तं पर्वणिपर्वणि काञ्चन रुचिं जयति ॥' इति । काञ्चन चान्द्रमसीम् । अत्र जयति न तु स्मारयतीति, व्यापारविश्रान्तिसामान्येऽपि लोकोत्तरतायास्तथैव समुद्रेकात् । वाच्यस्य वाक्याश्रयत्वेन, व्यङ्गयस्य 'जि'धातुरूपप्रकृत्यात्मपदैकदेशाश्रयत्वेन स्फुट एवानयोराश्रयभेदः । यथा पुनर्मम-'सुन्दरि ! तव वदनमिदं सङ्गतमपरं सुधानिधि मन्ये । अधराधरीकृतरसं सकलं दृष्टं नयत् प्रमुदम् ॥' इति । अस्यायमर्थः-'हे सुन्दरि ! अधरेणाधरीकृतरसं (अधरीकृता न्यग्भाविता रसा येन तत्) यद्वा-अधराधरीकृता रसा येन तत् (अधरेभ्योऽधरा इत्यधराधराः, न तादृशास्तादृशाः कृता इत्यधराधरीकृताः; अत्यन्त तिरस्कृता इत्यर्थः)। सकलं कलाभिः सहितं, समस्तमिति वा दृष्टं दृष्टिविषयतामापनं लोकं प्रमुदं नयदिदं तव वदनमपरं द्वितीय सङ्गतं प्राप्तं सुधानिधिं मन्ये ।' इति । अत्र हि-'ममैवोपभोगार्ह'मिति व्यङ्गयस्य वाच्याश्रितत्वात्स्फुट आश्रयभेदः । यथा वा मम-'मम मुखमेव सुधाऽधरमिति मानं मैव सुव्रते ! निवह । राहुरपि स्पृहयति ननु यस्मै, तं किं न जानासि ॥' इति । अत्रापि सुधानिधिना सदृशं तव वदनं ममोपभोग्यस्वरूप'मिति व्यङ्गयस्य वाच्याश्रितत्वं, वाच्यस्य च वाक्याश्रितत्वम् । यथा .पुनः- 'रेरे चञ्चललोचनाञ्चितरुचे : चेतः प्रमुच्य स्थिरप्रेमाणं महिमानमेणनयनामालोक्य किं नृत्यसि । किं मन्ये विहरिष्यसे ! बत हतां मुश्चान्तराशामिमामेषा काठतटे कृता खलु शिला संसारवारान्निधौ ॥' इति । अत्र हि-'किं त्वं मन्यसे अहं विहरिष्ये' इत्यनभिधाय 'किं त्वं, मन्ये अहं विहरिष्यसे इति पुरुषव्यत्ययेनाभिधाने तदर्थ एव हासव्यञ्जक इति स्फुटं व्यङ्गथस्य वाच्यैकदेशाश्रितत्वम् । यथा पुनर्मम-'वन्दारुमन्दारममन्दभूतिमानन्दकन्दं नवकन्दकान्तम् । दरं दरन्तं भगवन्तमन्तः परिस्फुरन्तं विनतोऽस्म्यनन्तम् ॥' इति । अत्र हि माधुर्यवती वर्णसङ्घटना भगवद्विषयिण्या रतेरभिव्यज्यमानायाः परिपोषिका, न तु अभिधयोनीयमानस्याप्यर्थस्येति स्फुटं पुनराश्रयभिन्नत्वम् ।
वारिअवामे वारितवामे : वारिता ‘एवं माकार्षी' रिति निवारिताऽपि वामा तत्प्रतिकूलाचरणति, तत्सम्बुद्धौ तथाक्ते इति यावत् । सभमरपडमग्याइणि सभ्रमरपद्माघ्रायिणि ! सभ्रमरं यत् पद्मं कमलं तदाघ्रातुं शीलमस्या अस्तीति तत्सम्बुद्धौ तथोक्ते इति यावत्। पिआए प्रियायाः । सव्वणं सत्रणम् । आघ्रातपद्मस्थेन भ्रमरेण दवा कृतव्रणमिति यावत् । अहरं अधरम् । घ्राणस्य सन्निधिवर्तिनमङ्गविशेषमिति यावत् । ओष्ठमित्यर्थः । दळूण पश्यतः, न तु दृष्टवतो न च द्रक्ष्यतः । एतेन ' काचिदविनीता कुतश्चित् खण्डिताधरा तत्सविधसंविधाने भर्तरि तमनवलोक. मानयेव कयाचिद्विदग्धसख्या तद्वाच्यतापरिहारायैवमुच्यते।' इति यदुक्तं लोचनकारैस्तनिर्मूलमिति सूच्यते । कस्स कस्य क्लीबव्यतिरिक्तस्य । व वा । रोसो रोषः । ण न । होइ भवति । अत:-एण्हि इदानीम् पश्चात्तापावसरे, इति यावत् । सहसु सहस्ख । 'पत्युस्तजनां भ्रमरदंशनजन्यव्रणवेदनां चे' ति शेषः । स्वोपार्जितस्य दुःखस्यान्य प्रति सापराधतारोपानुपपत्तेः । न हि स्वकृतं कर्मान्येन भुज्यते कृतनाशाकृताभ्यागमापत्तेः ॥२८॥
इत्यत्र । उदाहृते पद्ये' इति शेषः । सखीतत्कान्तविषयत्वेन सखीविषयत्वेन सख्याश्च प्रियविषयत्वेनेत्यर्थः । 'वाच्यव्यङ्गथयो' रिति शेषः । विषयभेदः। 'बोध्य' इति शेषः । अत्रेदं तत्त्वम्-'कस्से' त्यादि उपनायकदष्टाधरां पत्नों तर्जयन्तं कान्तं प्रतारयन्त्या विदग्धया तत्सख्योक्तम् । स्वतस्त्वमविवेकिनी परेणोपदिष्टस्य स्खहितस्याप्यनङ्गीकारिणी प्रत्युत तद्विरुद्धाचरणपरायणाऽसि, अतः पुनः पुनः 'इदं पद्म मा जिघ्राण, अत्रत्य एष भ्रमरहतकस्त्वां दक्ष्यति'इति निवार्यमाणाऽपि तत्पनं घ्रातवत्येव, भ्रमरेणापि पुनर्दष्टैच, न हि खलः कदापि खलताया विरमति' इति तद्वेदना कयाऽन्ययाऽनुभूयेतेति त्वमेव सहस्वेति, अथ-प्रियाया भ्रमरेणैव स्यादधरो दष्टः, किन्तुप्रियायादष्टमधरं दृष्ट्वा को
१-'कस्य वा न भवति रोषः पश्यतः प्रियायाः सत्रणमधरम्। सभ्रमरपाघ्रायिणि ! वारितवामे : सहस्वेदानीम् ॥ इति सं.'