________________
पारच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। त्यादिनेति निमित्तभेदः। प्रतीतिमात्रकरणाञ्चमत्कारकरणाञ्च कार्यभेदः । केवलरूपतया चमत्का. रितया च प्रतीतिभेदः। पूर्वपश्चाद्भावेन च कालभेदः । शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसङ्गघटनाऽऽश्रयत्वेन चाश्रयभेदः।
णीयसम्पत्तिकोऽपि किन्तु परं वदान्यः स उच्च पदमप्राप्तोऽपि उच्च पदं प्राप्तस्यावदान्यस्य तस्यापेक्षया प्रसीदति तं विलोक्य च हसति गर्जति च; इत्यहो वदान्यतैव धन्यमूर्धन्या न तु सम्पन्नता आत्विति व्यवस्थां भावं वा मनस्याकलयतः कस्य न मनो हृष्यति'इति 'महान्तोऽगर्जन्तोऽपि जयन्ति, क्षुद्राः पुनर्गर्जन्तोऽपि पतिता एवेत्येतयोरवस्थाभेदं स्मरन् कस्य न भवेन्मनधकितम् इति वा व्यङ्गये स्फुटमेव सङ्ख्ययाभिन्नत्वमेतयोः । वाच्यार्थोऽभिधावृत्त्या प्रतिपाद्योऽर्थः । शब्दोच्चारणमात्रेण शब्दस्य पदस्योच्चारणमिति, तदेवेति तेन । वेद्यो ज्ञेयो ज्ञातुं शक्य इति यावत् । एषः। 'व्यङ्गयार्थ'इति शेषः। तु पुनः । तथाविधप्रतिभानैर्मल्यादिना तथाविधं विविधार्थोन्मेषशालिवत् प्रतिभानैर्मल्यं (प्रतिभाया बुद्धिविशेषस्य नैर्मल्यं निर्मलत्वं स्वच्छत्वमिति यावत् ) इति तदादौ यस्य तेन । 'भावनाविशेषादिने'ति भावः । 'वेद्यः' इति पूर्वेणान्वयः । इतीत्यस्मात्कारणात् । निमित्तभेदो निमित्तान्निमित्तस्य वा भेदः । यथा मम-'सुमुखि मुखं तव रुचिरं स्फुरति चिराय स्मितं किरत् परितः । राहोरपि यः प्रमुदे स तथा विदितः सुधानिधिलाके ॥' इति । अत्र हिउच्चारणमात्रेण वाच्यार्थस्य बोध्यत्वात् 'सहृदयरमणीयं तवैवाननं, सुधानिधिः पुनः सहृदयेतरमात्ररमणीयः, अत एवैतस्मै स्पृहयति'इति व्यङ्गयस्य पुनरुच्चारणमात्रेण वेद्यत्वाभावात् सहृदयतयैव पुनर्वद्यत्वात् स्फुटो विमित्ततो भेदः । प्रतीतिमात्रकरणात् प्रतीतिरेव न त्वभिधानमपीति यावत् तत्करणात्तत्कारित्वात् । च तथा । चमकारकरणाचमत्कारस्य करणं साधनमिति तस्मात् । 'हेतो' रिति शेषः । कार्यभेदः । वाच्यस्य प्रतीतिमात्रकारित्वाभावात् , चमत्कारकत्वाभावाचेति शेषः । यथा मम-'सुदति : तवेदं वदनं कथमपि सदृशं न सोमबिम्वेन । यदमुग्य विलीयापि स्फुरति तथैव प्रपूर्णा श्रीः ॥' इति । अस्यायमर्थ:-'हे सुदति ! तवेदं वदनं मुखं सोमस्य चन्द्रस्य बिम्बेन सदृशं कथमपि नैवास्ति । यतः-अमुष्य सोमबिम्बस्य श्री: शोभा विलीयापि तथैव पूर्ववत्प्रसन्ना सती स्फुरति न पुनरेतस्येति शेषः । इति । अत्र हि वाच्योऽर्थः स्फुट एव शाब्दः, व्यङ्गयोऽर्थः पुनः ‘पराभूयापि नित्रपस्येवाम्लायतः प्रत्युत हृष्यतस्तत एव स्वात्मना समं मृषैव स्पर्धिनश्चन्द्रमसो बिम्बस्य ववदनेन समं सादृश्यं सङ्गच्छेत कविभिस्तदुद्घोप्यते इति सर्व मनस्येव स्मरन्ती पुन:पुनः स्मयसे'इति । असौ पुनः प्रतीयमान एव चमत्कुरुते । स्पष्टं चैवं वाच्यव्यङ्गथयोः कार्यभिन्नस्वम् । केवलरूपतया चमत्कारविरहितस्वरूपेण । 'वाच्यस्येति शेषः । च पुनः । चमत्कारितया '
व्ययस्य'ति शेषः । प्रतीतिभेदः प्रतीतेर्भेदः । 'वाच्यस्य व्यङ्गयस्य चेति शेषः। यत्तूक्तं तर्कवागीशैः-'प्रतीतिभेदमुपपादयति-केवलेति । वाच्यप्रतीतेः सुखचमत्कारहीनतया, व्यङ्गयप्रतीतेस्तदुभयवत्तया भेदः ।' इति । तद्विशदीकरणाय । वस्तुतस्तु 'केवलरूपतये' त्यस्य 'चमत्कारशून्यतये'त्येवार्थः । चमत्कारस्यालौकिकाहादस्फुरणरूपपदार्थत्वात् । यथा मम-'अयि सुन्दरि ! तव वदनं स्मयमानं नैव कस्य मोदाय । अमृतनिधिस्तु प्रमुदे राहो: कवलीभवन्नपि सः ॥' इति । अत्र हि न वाच्यार्थस्तथा चमत्कुरुते यथा 'असहृदयस्य राहोरेव प्रमुदे चन्द्रः, चन्द्रस्यापि प्रमुदे स एवैकः, अन्यथा तत्कवलीभवनमसह्यमेव भवेत् , तव पुनर्वदनं स्मयमानमपि सुभगस्य सहृदयस्यैव प्रमुदे इति न कथमपि तयोः सादृश्य, वदनस्य निरुपम त्वात्, चन्द्रमसोऽपि तदपेक्षया ततो न्यूनत्वात् ।' इति व्यङ्गयोऽर्थः । स्फुटश्चैवं प्रतीतेर्भेदः । च तथा । पूर्वपश्चाद्भावेन । वाध्यस्य प्राकालिकत्वाद् व्यङ्गयस्य पुनरुत्तरकालिकत्वादित्यर्थः । कालभेदः कालस्य भेदः । यथा मम 'मानसगतमपि कमल जयता, कुमुदं विकाशमानयता । सुतनु ! मुखं तव सदृशं भवतु कथं चन्द्रबिम्बेन ॥' इति । अत्र हि व्यतिरेको न वाच्यः, उपमानस्य विशेषणैर्व्यतिरिच्यमानत्वेऽपि तस्य साक्षादभिधानात् न च 'कथ' मित्येव व्यतिरेकमाह ।' इति वाच्यम् । तस्य सन्देहमात्राभिधायकत्वात्, उत्थापितस्य च सन्देहस्य निर्णीतार्थाभिधानेन निवर्तकत्वाभावात् । अतः श्लेषमूलको व्यतिरेको व्यङ्गयः । व्यङ्गयस्य वाच्यापेक्षया पश्चात् प्रस्फुर्तिमत्त्वेन स्फुट: कालभेदः । शब्दाश्रयत्वेन 'वाच्यस्येति शेषः । च पुनः। 'व्यङ्गयस्येति शेषः । शब्दतदेकदेशतदर्थवर्णसङ्घटनाश्रयत्वेन शब्दश्च तदेकदेशश्चेति तौ च तदर्थवर्णसङ्कटने चेति, तदाश्रयत्वेनेत्यर्थः। शब्दः पदम् । तस्य पदस्यैकदेश इति तदेकदेशः ।