________________
साहित्यदर्पणः।
[पञ्चमःवाच्योऽर्थ एक एव प्रतीयते । व्यङ्गयस्तु तद्वोद्भादिभेदात् क्वचित् ‘कान्तमभिसर' इति 'गावो निरुध्यन्ताम्' इति 'नायकस्यायमागमनावसरः' इति ‘सन्तापोऽधुना नास्ति' इत्यादिरूपेणानेक इति सङ्ख्याभेदः । वाच्यार्थः शब्दोच्चारणमात्रेण वेद्यः । एष तु तथाविधप्रतिभानैर्म
विधिरूपेऽनुभयरूपो व्यङ्गयो यथा मम-“याहि ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि । मा भूवन् हृतमनसस्तवापि तस्या वियोगेन ॥” इत्यत्र न विध्यभावो निषेधो, नापि विध्यन्तरम् । क्वचिद्वाच्ये निषेधरूपेऽनुभयरूपो यथा मम"अयि वदनेन्दुविकाशप्रशमिततिमिरोत्करे निवर्तस्व । प्रत्यूहयसि परासामप्यभिसारं हताशे किम ॥" प्रियतममभिसरन्ती काश्चिन्नायिकां प्रति तद्गहाभिमुखमागच्छतः प्रियतमस्योक्तिरियं प्रत्यभिज्ञानच्छलेन । अत एवात्मप्रत्यभिज्ञापनार्थे हताशे' इति नर्मवचनम् । परासामप्यभिसारं प्रत्यूहयसि, तवाभिमतसिद्धिर्भविष्यतीति का प्रत्याशा। ततश्च मदीयं वा गृहमायाहि, त्वदीयं वा यामीति तात्पर्यादनुभयरूपो व्यङ्गयः ।' इति । यथा वा मम-'सुन्दार ! सुधानिधानं नयननिपातं निरूपयान्यत्र । एष तु सदा कृतार्थः स पुनर्भूयात् परं सुभगः ॥' इति । अत्र हि-'अन्यत्र दृष्टिं निपातयेति विधिरूपो वाच्यः, व्यङ्गयः पुनः-त्या निषेवमाणोऽप्ययं नाद्य यावत् कृतार्थस्त्वया विहितो जातो वा, स केवलं पुनस्त्वामसेवमाणः कृतार्थोऽवश्यम्भावीति । तथा च-वाच्यस्य न विधिपर्यवसायित्वं न वा निषेधपर्यवसायित्वम् , स्वरूपतो भेदस्तु जागरूक एव । यथा पुनर्मम-'शशिमुखि ! सुदृष्टिसुधया जीवय मा मां कृताऽपराधं ते। अपराधिरोधिजन्यं न जहीहि यशः स्वकीयमुल्लसितम् ॥' इति । अत्र हि 'कृतापराधं मां मैव जीवये ति जीवनदाननिषेधरूपस्य वाच्यस्य यदि कृत एवानेन तवापराधस्तर्हि मा मां जीवय यदि तु नतर्हि मृतप्रायोऽपि जीवितव्य एवायम्, अन्यथाऽपराधिनाशनजन्ययशो. रक्षणापेक्षया निरपराधिनाशनजन्यं शारणागतपरित्यागजन्यं चायशस्त्वमपि लप्स्यसे इति व्यङ्गयदशायां निषेधानिषेधो भयसाधारण्येन पर्यवसायीति स्वरूपतो भेदः । च पुनः । 'गतः प्राप्तः । अस्तं प्रकाशतिरोधानम् । अर्कः सूर्यः ।' इत्यादौ । 'उदाहरणप्रसङ्ग' इति शेषः । एको द्वितीयत्वानवच्छिन्नः । एव । वाच्योऽभिधाप्रतिपाद्यः । अर्थः। प्रतीयते प्रतिभासते । व्यङ्ग्यः। 'अर्थ' इति शेषः । तु पुनः । तदोद्धादिभेदात्तस्य ( व्यङ्गयस्य ) बोद्धा ज्ञातेति, स आदौ येषां (बोद्धव्यादीनाम् ) तद्भेदात् । 'हेतो'रिति शेषः । क्वचित् । ‘कान्तं प्रियतमम् । अभिसर तत्सम्मुखीना भूयात् ।' इतीत्येवं रूपः । क्वचित्-'गावः । निरुध्यन्तामवरुद्धाः क्रियन्ता 'इतीत्येवंरूपः । कचित्'नायकस्य प्राणप्रियस्य । अयं 'वर्तमान' इति शेषः। आगमनावसरः । समागमस्य समयः ।' इतीत्येवरूपः । क्वचित्-'सन्तापस्तापोद्रेकः । अधुनाऽस्मिन् समये । न । नैव । अस्ति विद्यते।' इत्यादिरूपेणेत्याद्यात्मकतया । अनेको नानाविधः । इतीत्यस्मात् कारणात् । सङ्ख्याभेदः सख्यातो भेदः । यथा वा मम--"स्फुरति सुधानिधिरुच्चैर्गर्जति नीचैः पयोनिधिर्भूयः । अनयोः सुषमा सुमुखि ! स्मयमानं कं न हा कुरुते ॥” इति । अस्यायमर्थःसुमुखि सुधानिधिश्चन्द्र उच्चैरुपरिष्टादाकाशे स्थितः सन् स्फुरति,पयोनिधिः समुद्रो भूयः पुनर्नीचैरधस्ताद गर्जति । अनयोः सुषमा मनोरमा शोभा के स्मयमानं प्रसन्नवदनं न कुरुते करोति ।' अपि तु सर्वमेवेति भावः । इति । अत्र हि-सुधानिधानभूतं त्वदीयं वदनमप्राप्यमेव, अथापि मदीयमन्तःकरणं समुद्र इव नितान्तमुच्छुलति, एतयोः पुनरेतामवस्थामवेक्षमाणाः सर्वेऽपि हसन्ति, हसन्तु नाम, किं तेन यद्यनयोः परस्परं प्रेमोद्गारः ।' इति 'सुकृती उपरिष्टाद विराजमानोऽपिन गर्जति, दुष्कृती पुनरधःपतितोऽपि नित्रपो गर्जति; इत्येतयोर्दशामवेक्षमाणस्य कस्य न मनसि पारमेश्वरं वैभवमुदेति' इति नितान्तं स्पृहणीयसम्पत्तिकोऽप्यवदान्यो यद्यपरिष्टादपि विराजेत, तर्हि विराजतु नाम, किं तेन; यः पुननितान्तं स्पृह
१ 'व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि । मा तवापि तया विना दाक्षिण्यहतस्य जानन्तु ॥' इतिसंस्कृतरूपेण परिणतस्य 'वच्च मह व्वि अएकेइ होतु णीसासरोइअव्वाई मा तुज्ज वितीअविणा दकिखसाहअस्स जाअंतु ॥' इति पद्यस्यैव स्वरूपान्तरभूतं पद्यम् ।
२ 'प्रार्थये तावत् प्रसीद निवर्तस्व मुखशशिज्योत्स्नाविलुप्ततमोनिवहे । अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥' इति संस्कृतरूपेण परिणतस्य 'देआ पसिअ णिवतसु मुहससिजोहाबिलुत्ततमणिवहे । अहिसारिआण विग्धं करोसि अणाण वि हआसे ॥' इति पद्यस्यैव स्वरूपान्तरभूतं पद्यम् ।