________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । घाच्यार्थव्यङ्गयार्थयोहि पदतदर्थमात्रज्ञाननिपुणैवैयाकरणैरपि सहदयैरेव च संवेद्यतया बोद्ध. भेदः, 'भम धम्मि'-इत्यादौ क्वचिद्वाच्ये विधिरूपे निषेधरूपतया स्वरूपभेदः, क्वचित्-'निश्शेषच्युतचन्दनम्'-इत्यादौ निषेधरूपे विधिरूपतया च स्वरूपभेदः । 'गतोऽस्तमकः ।' इत्यादौ च
अथैतदेव विवणोति-वाच्यार्थव्यङ्गयार्थयोरित्यादिना ।।
: पदानि मुबन्तास्तिडन्ता वा शब्दविशेषास्तदास्तेषाम् (पदानाम् ) अर्था इति ते चेति, पदतदर्था एवेति, तस्य ज्ञानं तत्र निपुणैः । पदानां सिद्धिमेव तेषां पुनः सङ्केतितमेवाथै जानद्भिरित्यर्थः । धेयाकरणैर्ध्याकरणाभिः । व्याकरणमधीते वेद वेति तैः । तदधीते तद्वेद ।' ४२१५९ इति साधु । अपि कि पुनस्तार्किकैर्मीमांसकप्रमुखैश्च । 'सम' मिति शेषः । यद्वा-वृद्धो युना' इत्यादिनिर्देशवशान तत्र विनाऽपि तद्योगं तृतीया । च तथा । सहृदयैार्मिकैः । एव नतु परैरपि । वाच्यार्थव्यङ्ग्यार्थयोर्वाच्यार्थस्य व्यङ्गथार्थस्य चेत्यर्थः । संवेद्यतया सम्यग्रुपेण विज्ञेयतया । 'हेतुने ति शेषः । • हेतौ।' २।३। २३ इति तृतीया ।
दो ज्ञातृभेदः । उक्तं च ध्वनिकारैः- शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते । वेद्यते स हि काव्यार्थत. त्वज्ञैरेव केवलैः ॥' इति । एवं च-शब्दार्थशासनज्ञानमात्रेण वाच्यार्थस्यैवाभिज्ञतोल्लासान तेषां व्यङ्गयाभिज्ञत्वम् । इत्यतोऽतिरोहित एव बोद्धभेदः । सहृदया हि व्यङ्गयार्थाभिज्ञा न पुनस्तदितरे । एतेषां वाच्यार्थज्ञानमात्रेण कृतार्थत्वात् म्यङ्गधार्थज्ञानद्वर्या तु नितान्तं वञ्चितत्वात् । मुष्टक्त केनापि कविना-'कविताऽऽस्वादसमये पदव्युत्पत्तिमात्रधीः । नीवीमोक्षस्य वेलायां यथा क्षौमाचिन्तकः ॥' इति । अथ बोद्धभेदो यथा मम-'सुन्दार : चिरेण तव परिरम्भायावस्थितोऽस्यहं स्पृहयन् । त्वं पुनरवेक्ष्य बत मां नियताऽम्बुजमुद्रणे जाता ॥' इति । अस्यायं पुनरर्थ:-हे सुन्दार ! तव परिरम्भायालिङ्गनाय स्पृहयन् चिरेण चिरादहमवस्थितोऽस्मि । त्वं पुनर्मामवेक्ष्य दृष्ट्वाऽम्बुजस्य मुद्रणरूपे खेलने नियता दत्तचित्तेति बत कष्टम् ॥ इति । अत्र हि-वैयाकरणो वक्ता, तद्विचारेण नात्र प्रतिभासते चमत्कारः । श्रुत्वा पुनस्तत्तात्पर्यमन्वेषमाणस्य सहृदयस्य पुनर्विचारेण 'सूर्यास्तपर्यन्तं सह्यतां तद्वियोग' इति प्रतिभासते एव चमत्कारः । इति स्पष्टो बोद्धभेदः । 'भम धम्मिअ-' इत्यादौ । 'भम धम्मि ! वीसत्थो सो सुणओ अज मारिओ देण । गोलाणइ कच्छकुडंगवासिणा 'दरिअसीहेण ॥' इत्यादावित्यर्थः । क्वचित । कस्मिंश्चित् । 'उदाहरणप्रसङ्ग' इति शेषः । विधिरूपे 'भ्रम धामिक ! विश्वधः-' इत्याद्युक्तदिशा भ्रमणनिर्भयताभिधानात्मकविधानरूपे इत्यर्थः । वाच्ये वाच्यार्थे । निषेधरूपतया 'नात्र पादविन्यासोऽपि कदाचन विधेयः ।' इत्यात्मकनिषेधरूपेण । स्वरूपभेदः। स्वरूपस्य भेदः । तथा च- वाच्यस्य विधिरूपतया व्यङ्गयस्य पुनर्निषेधात्मकतया वाच्यार्थव्यङ्गयार्थयोः स्वरूपतो भेदः क्वाचिक इति निष्कृष्टम् । यथा वा मम-'अयि ललने ! तव लोचनपातः कस्यास्तु न प्रमोदाय । येनायमनुगृहीतो लोकान्तरमुद्यतो लब्धुम् ॥' इति । अस्यायमर्थ:-'अयि ललने ! येन लोचनपातेनानुगृहीतोऽयं जनो लोकान्तरं स्थानान्तरं लन्धुमुद्यतो जातः, स तव लोचनपातः कस्य प्रमोदाय नास्तु न स्यात् । इति । अत्र हि लोचनपातोऽयं नितान्तं स्पृहणीयस्ते इति विधिरूपो वाच्योऽर्थो निषेधरूपः सन् व्यङ्गथपर्यवसायीति स्पष्टं वाच्यार्थव्यङ्गयार्थयोः स्वरूपतो भेदार स्थानम् । च पुनः । क्वचित् । उदाहरणप्रसङ्ग इति शेषः । 'निश्शेषच्युतचन्दनम्-'इत्यादौ । निश्शेषच्युतचन्दनं स्तनतट निर्मुष्टरागोऽधरो नेत्रे दूरमनजने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागगे! वापी नातुमितो गताऽसि, न पुनस्तस्याधमस्यान्तिकम् ॥' इत्यादावित्यर्थः । निषेधरूपे 'वाच्ये' इति शेषः । विधिरूपतया। 'व्यङ्गयस्येति'शेषः । स्वरूपभेदः। तथा च 'तस्य सन्निधिं न गता'इति निषेधरूपस्य वाच्यस्य तस्यैव सन्निधिं गता'इति विधिरूपेण व्यङ्गयदशायां पर्यवसानात् स्पष्ट एव वाच्यार्थव्यङ्गयार्थयोः स्वरूपतो भेदः क्वाचित्को विधिरूपस्य निषेधपर्यवसायीति निष्कृष्टम् । यथा वामम-'वामे ! मैव निपातय मयि दृष्टिं मन्मथासिकारूपाम् । अपनय दूरं त्वरितं शरणागत एष ते दीनः ॥' इति । अस्यायमर्थ:-हे वामे कुटिले ! मन्मथस्यासिकां छुरिका तत्स्थानापन्नां दृष्टिं मयि मैव निपातय, किन्तु-त्वरितं दूरमपनय, एषोऽहं दीनस्य शरणागतः ॥' इति । अत्र हि-नयननिपातदूरीकरणरूपनिषेधस्य नयननिपातावश्यकताऽऽत्मकविधिरूपेण व्यथदशायां पर्यवसायित्वम् । अथात्र टिप्पणीकाराः प्राहु:-'क्वचिद् वाच्ये