________________
साहित्यदर्पणः ।
. [पचम:
किश्च
२९९ बोद्धस्वरूपसलया-निमित्तकार्यप्रतीतिकालानाम् ।
चाश्रयविषयादीनां भेदाद्भिन्नोऽभिधेयतो व्यङ्गयः ॥ २९४ ॥
पुनर्गवेषणावसरे गङ्गायां गङ्गातीरे' इत्यर्थी द्रागारोहति प्रज्ञाविषयताम् । अथ-'गङ्गातीर'इल्यनभिधाय गङ्गाया'मित्येव किमर्थमुक्तमिति पुनस्तत्तत्त्वान्वेषणे कर्तव्ये तदाश्रितस्य शीतलत्वं पावनत्वं च बोधयितुमिति गृहीतव्यम् । ननु 'गङ्गातीरे घोष'इत्युच्यमानेऽपि किं घोषस्य शीतलत्वादि न बोटुं शक्यम् । यद्गङ्गाया घोष'इत्येवोक्तम् । इति चेत् तत्रातिशयितत्वार्थमित्यवधार्यम् । तथा च-'गङ्गाया'मित्यस्य गङ्गाऽधिकरणकतीरवत्ते' तिलक्षणया प्रतिपादितोऽर्थः । अथ शब्दबुद्धिकर्मणां विरम्यव्यापाराभाव'इत्युक्तदिशा लक्षणायां विरतव्यापारायां 'नितान्तं शीतलत्वपावनत्वविशिष्टो घोषः'इति चमत्कुर्वतोऽर्थस्य प्रतीतिरभिधया लक्षणया वा तात्पर्येण वा भवितुमशक्यैव । 'घोष'इत्यस्य 'भीराणां प्रामस्य सद्भाव'इत्यर्थमात्रस्याभिधेयत्वात् लक्षणायाश्च स्वत एव दूरमपसारितत्वाच । अतोऽसौ कयाऽपि तुरीययवृत्त्येति सिद्धान्ते व्यन्जनयवति स्थितम् । न च ययाऽन्योऽर्थ'इत्युक्तदिशा गङ्गातीरे'इत्यम्मादाद्भित्रस्याप्यर्थस्य 'शीतल. त्वादिविशिष्ट'इत्यात्मकस्यापि लक्ष्यत्वं कुतो नेति शङ्कयम् । अन्यशब्देन मुख्यभिन्नस्यैवोपात्तत्वात् 'तदयुक्त' इति विशेषणस्य च तव सार्थक्यात् । इति दिक् ।
अथ वृत्त्यन्तराद् व्यधनाया व्यतिरेकं दर्शयितुं प्रवृत्तस्तत्र तावदभिधाया विभेदं दर्शयन् व्यञ्जनया प्रतिपाद्यमानोऽर्थ: किमेकस्वरूप एव, आहोखिदनेकवरूप इति जिज्ञासामप्यनुषङ्गतोऽपनयन् 'स्थूणानिखणन' न्यायेन पुनरेतस्या अङ्गीकारोचित्यं द्रढयितुमुपक्रमते-किश्चत्यादिना।
किश्च-२९९ बोद्धृस्वरूपसङ्ख्यानिमित्तकार्यप्रतीतिकालानाम् । तत्र-बोद्धा श्रुत्वा तात्पर्यज्ञाता, स्वरूपं लक्षणं, सङ्ख्या यावन्मात्रतासूचिका गणना, निमित्तं हेतुः, कार्यमुद्देश्यम्, प्रतीतिर्ज्ञानम् , काल: समयः । च तथा । आश्रयविषयादीनामाश्रयो विषय (पूर्वोपक्रान्तं वक्तव्यं तात्पर्य वा ) श्वेत्येतावादौ येषां ( प्रकरणादीनाम् ) तेषाम् । भेदात्तपात् कारणात् । व्यङ्यो व्यञ्जनया वृत्त्या प्रतिपाद्योऽर्थ'इति शेषः । अभिधेयतोऽभिधेयोऽभिधया प्रतिपाद्योऽर्थस्तस्मात् । 'पञ्चम्यास्तसिल ।' ५।३।७ इति तसिल । भिन्नः पृथग्भूतः । भवतीति शेषः । कचित् । 'अभिधीयते'इति पाठः । तत्र वाच्या'दित्यध्याहृत्य भिन्नो व्यङ्गयोऽभिधीयते इत्यन्वयः ॥ २९४ ॥
अत्रायम्भावः-वाच्यो व्यङ्ग्यश्च नैकात्मानौ । तयोरनेकान्तिकत्वात्। यो व्यङ्गयः स नाभिधेयः, यश्चासौ न सः । तथाहि-संयोगो विप्रयोगश्च साहचर्य विरोधितो। अर्थः प्रकरण लिङ्गं शब्दस्यान्यस्य सन्विधिः ॥ सामर्थ्यमौचितो देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ ' इति निरूपितदिशा संयोगादयोऽभिधाया नियन्तारः । तदेतया प्रतिपाद्या अप्यर्था नियमितात्मान एव न पुनरनियतस्वरूपा जातु । संयोगादिभिर्नियमनानन्तरमपि वक्तबोद्धव्यादितात्पर्यवशात् समुल्लसन्तः सर्वेऽप्यर्था नाभिधेयाः, किन्तु व्यङ्गया एवेति न तिरोहितं विदुषाम् । अतःसंयोगादयः शब्दस्यार्थविशेषस्मृतिहेतुभूता एकत्राभिधाया नियन्तारः, परत्र त एव व्यन्जनायाः सञ्चारयितारः तमस्ततेरपनेतारो हि तेजस्ततेः प्रवर्तयितारो भवन्ति । स्पष्टश्चैवमभिधाव्यञ्जनयोर्वाच्यव्यङ्गथयोश्च भेदः । अभिधाया नियन्तुं शक्यत्वादभिधेया अपि नियन्तुं शक्याः, व्यञ्जनायाः पुनः सर्वदाऽधीशानत्वाद् व्यङ्गथा अपि सर्वेऽधीशाना एवेत्येवोच्यते-'यो व्यङ्गयः स नाभिधेयः, यश्चासौ न सः।' इति । अथ-अभिधेयस्य बोद्धप्रभृतयोऽन्य एव व्यङ्गयस्य पुनरन्य एव । अभिधेयः पुनः शब्दसम्बन्धिसङ्केतमात्रेण प्राप्तखारूप्यः, व्यङ्गयस्तु न तथाभूत इति कथमनयोः सारूप्यं सम्भाव्येत ? तथा-ऽभिधेयोऽभिधातुं शक्यः, व्यायः पुनरनुभवदृशा विज्ञातुमेव शक्यः, नतु साक्षाद्वचसा प्रत्यक्षीकमिति महदान्तर्यमेतयोः । एवमभिधेयो नानवच्छेद्यः, व्यङ्गयः पुनः सर्वदाऽनवच्छेद्य एव, अभिधेयस्तथाऽऽस्वादि. ताखाद एव व्यङ्गयस्तु प्रतिक्षणं समुपपद्यमानानाखादितास्वादोद्रेकः । न ततस्तयोरैक्यम् । अभिधेयस्तथा यस्मिन सङ्केतितोऽभिधायकः शब्दस्तस्मिन् परिज्ञाते परिज्ञातो भवति, व्यङ्गयः पुनस्तदनन्तरमेव केषाञ्चित् । तदेवं वाच्यव्यअथयोः सामजस्य सारूप्यं च न केनापि सचेतसाऽभिधातुं शक्यते । इति दिक् ।