________________
परिच्छेदः ]
रुधिराख्यया पाण्यया समेतः । नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंतर्गस्य रसादेश्च प्रकाशनम् इति चेत्, नतयोहेतुफलभावाङ्गीकारात् । यदाह मुनि:-'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः।' इति ।
सहभावे च कुतः सव्येतरविषाणयोरिव कार्यकारणभावः । पौर्वापर्यविपर्ययात् । 'गङ्गाया घोषः ।' इत्यादौ तटाद्यर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्ग्यबोधकता। तेन तरीया वत्तिरुपास्यैवेति निर्विवादमेतत् ।
ननु आशङ्कयते । तात्पर्यशक्तया तात्पर्यरूपया शक्त्या वृत्त्येति यावत । वस्तुतस्तु-तात्पर्यस्य तात्पर्यवृत्त्या प्रतिपाद्यस्यार्थस्य शक्तिस्तद्रपा व्यन्जना नाम वृत्तिस्तयेत्यर्थः । विभावादिसंसर्गस्य विभावादेरालम्बनोद्दीपनादेः संसर्गोऽन्वयः परस्परमनन्वितस्य तस्यान्विततयोपस्थितिरिति तस्य । च तथा । रसादेः शृङ्गारादेः । प्रकाशन प्रकाशः प्रतिपत्तिरिति यावत् । युगपदेककालावच्छेदेन । एव न पुनः क्रमात् । अस्तु स्यात्। 'लोट्च ।' ३।३।१६२ इति सम्भावनायो लोट। इति चेदित्येवं यदि । 'प्रतिपाद्यते इति शेषः । तर्हि-न नैव । 'युक्त'मिति शेषः । :कुत इत्याह-तयोः संसर्गप्रकाशनयोः । हेतुफलभावाङ्गीकारात् । हेतुत्वफलत्वयोरङ्गीकारात् । विभावादिसंसर्गस्य हेतुत्वेन रसादेः पुन: प्रकाशस्य फलत्वेनाभिप्रेतत्वादिति यावत् । ननु निष्प्रमाणे तयोर्हेतुत्वफलत्वे इति चेन्नेत्यभिप्रेत्याहयद् यस्मात् कारणात् । मुनिः। 'भरत'इति शेषः । 'विभावानुभावव्यभिचारिखंयोगाद विभावल्यानुभावस्य व्यभिचारिणश्च संयोगात सम्बन्धविशेषात् । रसनिष्पत्तिः। रसस्य निष्पत्तिः समुल्लास इत्यर्थः । 'भवतीति शेषः ।' इतीत्येवम् । आह प्रतिपादयति । अत्र विस्तरः प्राग द्रष्टव्य इति दिक् ।
न च युगपद्भवयोरपि तयोः 'कार्यकारणभावोऽस्त्विति वाच्यमित्याह-सहभावे इत्यादिना ।।
च पुनः । सहभावे विभावादिसंसर्गस्य रसादिप्रकाशस्य चेति शेषः । सम्येतरबिषाणयोर्वामदक्षिणङ्गयोंः। सव्यं चेतरच्चेति सव्येतरे, ते इमे विषाणे शृङ्गे इति, तयोः । इव यथातथा । कार्यकारणभावः कार्य्यत्वं कारणत्वं च । कुतः कस्माद्धेतोः । तयोरिति शेषः । तथा च-विभावादिसंसर्गस्य रसादिप्रकाशस्य च कार्यत्वं कारणत्वं च कुतः स्यात इत्यर्थः । हेतुमाह-पौर्वापर्यविपर्ययात पूर्व चापरं चेति, तयोर्भावः पौर्वापर्य तस्य विपर्ययस्तस्मात् । 'कारणात् कार्यमुत्पद्यते' इति नियमात् कारणस्य पूर्ववर्तित्वं कार्यस्य पुनस्तदपेक्षया पश्चाद्भावो नियत एवेति हेतोर्विभावादिसंसर्गस्य रसादिप्रकाशस्य च योगपचं न सङ्गच्छते। योगपद्यं तु सव्यापसव्यविषाणयोरिव स्यात् । तयोः पुनः कारणत्वं कार्यत्वं च न कुत्रापि दुष्टचरे । अथैतयोः कारणत्वं कार्यत्वं च भगवता मुनिनाऽऽज्ञापितमेवेति तात्पर्यशक्त्यैतयोः सममुल्लास: स्यादिति कथमपि न सम्भवितुमर्हतीति भावः । ननु मैवम्भूदभिधा तात्पर्यवृत्तिश्च व्यञ्जनास्थानापन्ने, किन्तु लक्षणा तु भवितुमर्हत्येव व्यन्जनाया अपि कार्यकारिणी, 'गङ्गायां घोषः ।' इत्यादावर्थान्तरस्य प्रत्यायिकत्वात् । अन्यथा 'मुख्यार्थबाधे तयुक्तो ययाऽन्योऽर्थः प्रतीयते । रूढेः प्रयोजनाद्वाऽपि लक्षणाशक्तिरर्पिता ॥' इत्यत्र 'ययाऽन्योऽर्थः प्रतीयते' इत्युक्तमनर्थकं स्यादिति चेन्नेत्थाह-गङ्गायां गङ्गाऽऽख्यायां नद्याम् । घोषो प्रामविशेषः ।' इत्यादौ वाक्यप्रयोग' इति शेषः । च तटाद्यर्थमात्रबोधविरतायास्तटं तीरमादौ यस्य सः, तटादिरसावर्थ इति, स एवेति, तत्र विरतायाः । तीरादिरूपमर्थमेव बोधयित्वा विरतव्यापारायाः । लक्षणायास्तन्नाम्या वृत्तेः । शीतत्वपावनत्वादिव्य कता शीतलत्वपवित्रत्वादिरूपस्य व्यञ्जनया प्रतिपाद्यस्य तात्पर्यस्य प्रत्यायिकत्वम् । कुतः । कथं स्यात् । तेन हेतुने' ति शेषः ।। तुरीया चतुर्थी व्यञ्जनाऽऽख्येति यावत् । वृत्तिः । उपास्याऽऽश्रयणीया । एव निश्चितम् । इतीत्यस्मात कारणात् एतत् अभिधालक्षणातात्पर्यवृत्तित्रयव्यतिरिक्ता चतुर्थी व्यन्जना वृत्तिस्पास्यैवेति कथनमिति यावत् । निर्विवाद सिद्धान्तभूतम् । 'अस्तीति' शेषः ।
अत्रेदमभिहितं भवति-गङ्गा हि जलराशिरूपा तन्मध्ये प्रामस्थितिनिरान्तमसम्भवैवेति 'गङ्गायां (जलप्रवाहमध्ये) घोषः (प्रामविशेषः)।'इति कथनमुन्मत्तप्रमत्तजल्पितायितमात्रं, नात्र काऽपि विप्रतिपत्तिः । सत्ये तत्सजातीये वाक्यप्रयोगस्थले वक्तुस्तात्पर्यान्तरमन्वेष्टव्यमिति भवत्यन्तः काऽपि चेतोवृत्तिः सचेतोमात्रस्य । अथावगम्यते-मुख्यार्थस्तावबाधज्ञानपराहत एवअतोऽत्र लक्षणा । मुख्यार्थबाधे एव तस्याः प्रवृत्तेः । किन्तु तत्सम्बद्धोऽर्थोऽवश्यमत्रास्तीति