________________
साहित्यदर्पणः।
[पञ्चमः
भवत्यभिधान' मिति, 'अनन्वितं भवत्यभिधान'मिति च । तत्र तावत्- वाक्यं सर्वे, 'यत्परः शब्दः स शब्दार्थ' इति निरूपितदिशा खत एव कार्यपरं भवति, कार्य च तात्पर्यरूपमेव । तदनुद्दिश्य तस्य प्रवृत्त्यसम्भवात् । अतः-व्यङ्गथमपि काव्यं तथाभूतमेव । तदीयवाक्यस्यापि वाक्यत्वेनाव्यतिरेकात् तथाभूतं कार्यपरम् । कार्य चात्रालौकिकास्वादानुभावकत्वम् । अलौकिकत्वं च निरतिशयत्वम् । अनुभावकत्वं च मुखविकासादिना हर्षादेरिव तस्यतस्य प्रतीतिगमकत्वम् । काव्यसम्बन्धिनोऽपि वाक्यस्यैवं तात्पर्यस्योल्लासकतया तस्य पुनः परेषां विचारशा व्यञ्जनाप्रतिपाद्यरूपत्वादू व्यन्जनाप्रतिपाद्यस्य च रसादिरूपत्वात्तस्यैवार्थभूतत्वे व्यञ्जनाया वृत्त्यन्तरत्वेन स्वीकारोऽपि न किञ्चित्करः प्रतिभासते।' इत्याहुरेके, अपरे पुन: 'अभिहितानि तावत् सर्वाण्येव पदानि भवन्त्यनन्वितानि, तदर्थं तात्पर्याख्याऽपराऽपि वृत्तिरेका स्वीकार्या । अपरा चाभिधाऽपेक्षया लक्षणाऽपेक्षया च द्वितीया न तु व्यञ्जनाऽपेक्षयाऽपि । एतया पुनस्तस्यतस्यानन्वितमेव तंतमर्थमुद्बोध्य पुनरन्वितता नीत्वा तात्पर्यमुपस्थाप्यते, तदेव वाक्यार्थः । तात्पर्य च यदुद्दिश्य वक्राऽभिहितानि पदानि । एवं च व्यञ्जना वृत्त्यन्तरत्वेन स्वीकृत्य तया पुनः प्रत्यायितत्वेन स्वीक्रियमाणा रसादयोऽपि तात्पर्यान्नातिरिक्तस्व रूपा उपलभ्यन्ते, तदर्थ च तात्पर्याख्या वृत्तिः स्वीकृतैवेति तात्पर्य भिन्नाया वृत्तेः स्वीकारः किम्मूल इति त एवं जानन्तु व्यञ्जनाखीकर्तारः । एकतः कार्यसम्पत्तौ द्वितीयकल्पनाया वैयर्थाद् गौरवापत्तेश्च । न तात्पर्यवृत्त्यैव रसादिबोधे तदर्थ व्यञ्जनायाः स्वीकारः स्थाने ।' इति । अत्रोच्यते-'कलशमानय, अश्वमानये' त्यादौ वस्तुत्वेन वस्तुपदवाच्यस्यापि कलशादेः कलशत्वादिना तदवाच्यत्वमिवापरपदार्थान्वितानयनत्वादिनाss'नयेत्यादिपदवाच्यस्यापि कलशाद्यानयनस्य कलशानयनत्वादिना तदवाच्यत्वमेवेति सङ्केताविषये वाक्यबोध्ये प्राथमिकवोधविषयीकृतेऽपि अभिधाया व्यापारसञ्चारे सुतरां तत्पुनः प्रतीतिमात्रखरूपेऽर्थेऽभिधाया व्यापारासञ्चार इति साम्प्रतं तदर्थ व्यजनायाः स्वीकारः । इति नान्विताभिधानवादिनों पक्षो युक्तः । इति । अत्र-काव्यप्रकाशकाराः । 'अनन्वितस्यैवाभिहितानां पदानामर्थस्याभिधेय त्वेऽन्वितत्वायापि वृत्त्यन्तरस्वीकारार्हत्वे तदनन्तरं प्रतीतियोग्येऽपि स्यादभिधाया व्यापार इत्यविचारितमेवाभिधानमभिहितान्वयवादिनाम् ।' इति । कविराजाः पुन:--'भवन्तु सर्वेऽर्थाः शाब्दाः, तावता व्यङ्गयताऽनपायात् । न च तात्पर्याख्यया वृत्त्या व्यङ्गयस्यार्थस्यापि प्रतिपत्तिरिति वक्तुं शक्यम् । तस्याः संसर्गमात्रे विरामात् । व्यञ्जनायाः पुनरप्यभ्युपेयत्वात् । तात्पर्यव. त्तिरन्यैव वाक्यार्थादनन्तरमुबुध्यमानेऽर्थे । तथा सति नाममात्रे विवादः । वाक्यार्थावगमाय तात्पर्यवृत्तिमेकामगीकृत्य ध्यङ्गयार्थावगमायापरी स्त्रीकर्तुं प्रवृत्तेः । अपराया एव व्यञ्जनेत्यभिधीयमानत्वाच्च ।' इत्याहुः । यत्तु-"नैमित्तिकानुसारेण निमित्तनि कल्प्यन्ते ।" इति न्यायाच्छन्दश्रवणानन्तरं यावानर्थोऽवगतो भवति तावति सर्वस्मिन्नेव समुपस्थितत्वाच्छब्द एव निमित्त'मित्याहः केचित् । तत्र प्रष्टव्यम्-किमिदं निमित्तम् ? जनकं वा, बोधकं वा; न जनकं,शब्दस्य बोधकत्वात् ,न चापि बोधकम् , तत्त्वासम्भवात् । बोधकं हि द्विविधं, बुद्धमवुद्धं चेति । न बुद्धं, सङ्केतमन्तरेणासम्भवात्, सङ्केतश्च अन्वितमात्रे, न त्वन्वितविशेषे, न वा प्रतीयमाने व्यङ्गये । न चाबुद्धम् , तस्य बोधकत्वासम्भवात् । इति न यावत्तस्य नियतत्वं बुध्येत, तावन्न नैमित्तिकं बुद्धिविषयम् । न चैवं व्यङ्गयोपस्थितिनिनिमित्ता स्यात् । इति वक्तुं शक्यम् । तत्र शब्दस्य बोधकत्वरूपेण निमित्तस्याभिप्रेतत्वात् । किन्तु-न तद् व्यञ्जनामन्तरा। शब्दस्यार्थनिमित्तताया व्यापारापेक्षितत्वात् । वाच्यलक्ष्यार्थयोरभिधालक्षणे व्यापारभूते इव व्यङ्गयार्थेऽपि कस्यापि व्यापारस्यावश्यकत्वे व्यजनारूपस्यैव व्यापारस्यावश्यकत्वम् । अन्यथा-वृत्त्यन्तरमाप दत्तजलाञ्जलि: स्यात् । अत:-'गतोऽस्तमर्कः, उदितश्चन्द्रः, पुत्रस्ते जातः, कन्या पुनर्गर्भिणी' त्यादौ तस्यतस्य कस्याप्यर्थस्य शाब्दस्य व्यजनाव्यापार एव बोधकनिमित्तम् ।" इति पुनः प्राहुः प्राचः ।" इति । . ननु 'शब्दबुद्धिकर्मणां विरम्यव्यापाराभाव'इति निरूपिदिशा मा भूतात्पर्यवृत्त्या विभावादेः संसर्गस्य रसादेः पुनः प्रकाशस्य क्रमात् प्रतिपत्तिः । किन्तु युगपत् स्यात्, तदर्थे च तस्याः स्वीकारः सम्मत एव सर्वेषाम् । एवं सति किमर्थं पुनर्व्यञ्जना । तदर्थमेवैतस्या अपि स्वीकारात् । इति चेन्न । तात्पर्यवृत्त्या हि तत्र तावदनन्वितानि पदानि अन्वितता नीत्वा तेषामखण्डं तात्पर्य प्रत्युपस्थाप्यते, अथ व्यञ्जनया तदनन्तरं समुल्लासि किमपि प्रत्याय्यते तत्त्वम् । अतः-विभावादे रसादेश्च प्रतीयमानत्वातिरिक्ततयाऽनवस्थानात्तयोः संसर्गप्रकाशावपि तथाभूताविति नास्त्येव तत्र व्यञ्जना. मन्तरेण कस्या अपि वृत्तेापारसार्थक्यम् । इति तु दूरमास्ताम् । किन्तु-अत्र योगपद्यमेव न सङ्गच्छते इत्यभिधत्सु. तत्र तावदाशङ्कते नन्वित्यादिना ।