________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
३८५ यावत् । तदर्थत्वं तस्य शब्दस्यार्थ इति तस्यभावः तत्त्वम् । वा । तात्पर्यवृत्त्या तद्वारेति भावः । तद्धोधकत्वं तस्यार्थस्य बोधकस्तत्त्वम् । वा । 'अस्तौति शेषः । अत्र वेत्याधिक्यं समुच्चयार्थम् । अत एव 'दील्लीश्वरो वा जगदीश्वरोवे' इत्यादौ वेति 'शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।' इत्यादौ च 'चे'त्यधिकं सङ्गच्छते। आये तत्परत्वं नाम तदर्थत्वमिति पक्षखीकारे । विवादो विपरीतो वादोऽभिधानम् । न नैव। कुत इत्याह-व्य यत्वे 'व्यञ्जनावाद्युक्तदिशा रसादे' रिति शेषः । अपि 'सिद्धान्तिते' इति शेषः । तदर्थताऽनपायात् तस्य शब्दस्यार्थ इति तद्भावस्तत्ता तस्या अनपायस्तस्मात् । व्यङ्ग्यताया अपि शब्दार्थताऽपरिहानात् । तु पुनः । द्वितीये 'तत्परत्वं नाम तात्पर्यवृत्त्या तदर्थबोधकत्व'मिति पक्षस्वीकारे इत्यर्थः । इयं 'यया तदर्थबोधकत्वं से'ति शेषः । तात्पर्याख्या तात्पर्यमित्याख्या नाम यस्याः सा । वृत्तिः । का किंवरूपा । अभिहितान्वयवादिभिर्नैयायिकैरिति शेषः । अङ्गीकृता सिद्धान्तत्वेनाभिमता । वाऽथवा । तदन्या प्रसिद्धायास्तात्पर्याख्याया वृत्तेरन्या भिन्नेति यावत् । आधे 'अभिहितान्वयवादिभिरङ्गीकृतैव तात्पर्याख्या वृत्तिरस्माकमप्यभिमतेति पक्षस्वीकारे । उत्तरं तदपसिद्धान्तताप्रदर्शकं समाधानम् । दत्तं 'संसर्गमात्रे परिक्षीणा न व्यङ्गयबोधिनी'त्यनेनेति शेषः । एव नात्र कश्चित् संशयः । तु । अथ । द्वितीये प्रसिद्धायास्तात्पर्यवृत्तेभिन्नैव तात्पर्यवृत्तिरिय'मिति पक्षस्वीकारे इत्यर्थः । 'सती'ति शेषः । नाममात्रे नामैवेति तस्मिन् । विवादो विरुद्धो वादः । कुत इत्याह-तन्मते तदिदं मतमिति तस्मिन् । प्रसिद्धायास्तात्पर्यवृत्तेरपेक्षया विलक्षणां तात्पर्यवृत्तिमभ्युपगच्छता मते इति भावः । यत्तु टिप्पणीकारैः-'तदिति अभिहितान्वयवादिमतेऽपी'ति व्याख्यातम् । तदापातरमणीयम् । 'तदन्या वे'त्युक्तदिशाऽभिहितान्वयवादिभिरङ्गीकृतायास्तात्पर्यवृत्तेरपेक्षया विलक्षणायास्तात्पर्यवृत्तेः स्वीकारस्यैव द्वितीयत्वेनाभिमतत्वात् । अभिहितान्वयवादिनां मते तुरीयवृत्तेरनङ्गीकाराच्चेति । अपि । किं पुनः साक्षाद् व्यञ्जनामङ्गीकुर्वतां मते इति भावः । तुरीयवृत्तिसिद्धेस्तुरीया चतुर्थी या वृत्तिरिति तत्सिद्धेः । वाच्यलक्ष्यतत्तात्पर्यरूपार्थबोधाय बृत्तित्रयमङ्गीकृत्य प्रतीयमानस्यार्थस्य पुनर्बोधायापरी तात्पर्यवृत्तिमुरीकुर्वतां मते खत एव तुरीयाया वृत्तेरङ्गीकृतत्वात् ।
अत्राय पर्यालोकः-'शब्दयुद्धाभिधेयांश्च प्रत्यक्षेणानुपश्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥ अन्यथाऽनुपपत्त्या तु बोधेच्छक्ति द्वयात्मिकाम् । अर्थापत्त्याऽवबोधेश्च सम्बन्धं त्रिप्रमाणकम् ॥' इति नयेन "यज्ञदत्त ! गामानयेत्यादेः प्रयोजकवृद्धवाक्यप्रयोगात् प्रयोज्यवृद्ध देशान्तरात् सानादिमन्तमर्थ सन्निधायितुमानयति सति प्रतिपत्सुः ‘एतेनैतस्माद वाक्यादेष स्यादर्थः प्रतिपन्नः' इति तदीहितानुपदमनुमाय प्राक् तत्र प्रतिपद्यते। अथ 'यज्ञदत्त ! गां बधान । अश्चमानये ' त्यादेः प्रयोजकबुद्धवाक्यप्रयोगात् प्रयोज्यवृद्ध सास्नादिमन्तमर्थ बनति, एकशफत्वादिमन्तमर्थ सनिधापयति च सति स्वयमावापोद्वापाभ्यां तस्यतस्य शब्दस्य तंतमर्थमभ्युपपद्यते । अतः प्रवृत्तिनिवृत्तिहेतुभूतमेव प्रयोगयोग्य वाक्यमिति निर्विचिकित्सितं प्रतिभासते विवेकदृशाम् । तस्मात्-वाक्यत्वमुपगतानां वाषयान्तरेण चासम्पृक्तानामेवान्वितैः पदार्थः समं सङ्केतस्य गृह्यमाणत्वादन्विता एव (परस्परं सम्बद्धा एव) पदार्था वाक्यार्थः, नतु पदैरभिधया प्रतिपादितानामनामाकाक्षायोग्यताऽऽदिवशाद्भासमानः सम्बन्धरूपोऽप्यपदार्थोऽप्यर्थस्तात्पर्यवृत्त्या वाक्यार्थ इति बोद्धव्यम् । अन्वयबोधार्थ वृत्त्यन्तरकल्पनाया वैयर्थ्यादन्याय्यत्वाच्च । ननु-प्रत्यभिज्ञापशाद् वाक्यान्तरेणान्वीयमानानामपि पदानां तान्येवैतानी' ति प्रत्ययात् कलशमानय, अश्वमानयेत्यादिस्थले 'आनये' त्यादेः कलशान्वितत्वमचान्वितत्वमित्यादिरूपो नार्थः, किन्तूभयत्र साधारण्याय साधारण्येनापरपदार्थान्वितानयनत्वादिनाऽपरपदार्थान्वितानयनादिरूप एवार्थः, सति चैवं निरुक्तस्थल कलशान्वयरूपविशेषान्वयावगमाय स्वीकार्य तात्पर्यवृत्तिरिते चेन्न । साधारण्यादपरपदार्थान्वितत्वेन सङ्केतेऽप्याकाक्षादिवशात् समभिव्याहृततत्तत्पदार्थान्वयबलाच तत्तदन्वितत्वरूपविशेषान्वयस्यैवावगमात् । सम्बद्धानां हि पदार्थानां साधारण्येन विशेषस्यैवावगमः ।"इत्याहुरन्विताभिधानवादिनः । एतन्मते सर्वमभिधानं सर्वदेवान्वितं भवति, न चान्वयावगमापेक्षितं किमप्यभिधानमिति तात्पर्यवृत्तिरपि न स्वीकार्या । अथ तात्पर्यवृत्तिस्वीकारः प्राहः-प्रथमत एव न भवति किसिदन्वितमभिधानम्, सर्वस्यैवाभिधानस्यानन्विततयोपस्थानं च निर्बाधं प्रत्यक्षसिद्धं च सूक्ष्मदृशाम् । इति तदर्थ काऽपि वृत्तिरवश्यं स्त्रीकर्तव्येति स्थिते तात्पर्याख्यैव, तस्यतस्याभिहितस्य तात्पर्य गवेषणार्थमेव वृत्तेरपि गवेषणीयत्वात् । इति । एवं चैते एवाभिहितान्वयवादिन इत्यप्यूह्यम् भेदश्चात्र-'अन्वितं