________________
साहित्यदर्पणः।
[ पञ्चमःतब प्रष्टव्यम्-किमिदं तत्परले नाम ? तदर्थत्वं वा, तात्पर्यवृत्त्या तरोधकत्वं वा ? आये न विवाद ? ध्यावेऽपि ताईत द्वितीये तु-केयं तात्पर्याख्या वृत्तिः ? अभिहितान्वयः वादिभिरङ्गीकृता, सवन्यादा ? हा दत्तभवोत्तरम् । द्वितीये तु नाममात्रे विवादः । तन्मतेऽपि तुरीयवृत्तिसिद्धः।
भावे । तत्परलं च कार्यपरत्व, तथा च-हायपरत्वाभावे इति निष्कृष्टम् । उन्मत्तवाक्यवत् उन्मत्तोऽसमाहितचेताः । 'उन्मत्तो मुचुकुन्दे स्याद्धत्तूरोन्मादयुक्तयोः।' इति मेदिनी । 'तत्र तस्येव ।' ५। १ । ११६ इति वतुप । अनुपादेयत्वादुपादेयताहानेरित्यर्थः । 'हेतो'रिति शेषः । अत्रेयमनुमितिः-सर्वविधं वाक्यं कार्यपरम् , यदेवं न भवति, तत्तथा न भवति यथोन्मत्तस्य वाक्यम् । इति । अयं पुनर्निष्कर्षः-वाक्यं सर्व द्विविधं. लोकिकमलौकिक चेति । लौकिक तावत् ‘गामानय, अश्वं बधाने 'त्यादि । अलौकिकं पुन:-'विश्वजिता यजेत, शुन्धर्ष दैव्याय कर्मणे इत्यादि । वाक्यं च योग्यताऽऽकाक्षाऽऽसत्तिशाली पदसमूहः । इत्थं द्विविधमप्यशेषजातीयं वाक्यं कार्यपरम् । यतः-'गामानय इति अहरहः सन्ध्यामुपासीते'ति च वाक्यं यथाक्रमं ‘गवानयन'रूपकार्यपरं प्रतिदिनं सन्ध्योपासनरूपकार्यपरं च । यत् पुनर्वाक्यं, वस्तुतः ( वाक्याभासरूपः पदोच्चय इति यावत् ) कार्यपरं न स्यात् तद् वाक्यमपि न, अनुपादेयत्वात् ; यथोन्मत्तजल्पितम् । अतः यद् वाक्यं भवति तत् कार्यपरमुपादेयं च, यथा घटमानये' त्यादि । यन्न वाक्य, तत्कथं कार्यपरमुपादेयं च न स्यात्, यथोन्मत्तजल्पितं 'पपे'त्यादि । इति । च पुनः । ततस्तस्मात् कारणात् । 'वाक्यं सर्व कार्यपरं भवत्येवे'ति नियमात् । काव्यशब्दानां काव्यसम्बन्धिनां शब्दानाम् । निरतिशयमखास्वादव्यतिरेकेण निरतिशयो यदपेक्षयाऽतिशयितो न भवति, सोऽसौ सुखास्वादो यस्मात् स निरतिशयसुखाखादस्तस्य स एव वा व्यतिरेक इति तेन । ‘हेतुने'ति शेषः । प्रतिपाद्यप्रतिपादकयोः। प्रतिपाद्यः श्रोता । प्रतिपादकः पुनर्वक्ता । प्रतिपादनं प्रतिपादस्तत्र साधुस्तस्मै हित इति वेति प्रतिपाद्यः । तत्र साधुः ।' ४।४।९८ इति ' तस्मै हितम् ।' ५।१।५ इति वा यत् । नतु पादार्धाभ्यां च ।' ५।४।२५ इति यत् , तेन तादर्थ्य एव केवलादेव पादशब्दाच तस्य विधानात् । प्रतिपादयति निरूपयति शब्देन खाभिमतार्थमिति प्रतिपादकः । 'वुल्तृचौ।' ३।१।१३३ इति ण्वुलि 'युवोरनाको।' ७।१।१ इत्यकः । प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेः प्रवृत्त्यौपयिक यत् प्रयोजनं तदनुपलब्धेः कारणादित्यर्थः । प्रवृत्तिः काव्यस्य श्रवणे पाठे वा चित्तवृत्तेः प्रावण्यम् । उपायादनपेतमोपयिकम । “विनयादिभ्यष्ठक।' ५।४।३४ इति ठक् । 'उपायो हखत्वं च 'इति ह्रखत्वम् । प्रवृत्त्युपायकारणीभूतप्रयोजनवत्ताया अनुपस्थितेः कारणादिति भावः । निरतिशयसुखास्वादो निरतिशयं यत् सुखं तदास्वाद इति । एव । नतु यत्किञ्चित्सुखास्वाद इत्यर्थः । कार्यत्वेन सम्पाद्यत्वेन तद्रूपेणेति यावत् । अवधार्यते निश्चीयते । 'वाक्यं तावत् सर्वमेव कार्यपरम् । इति नियमोऽस्त्येव, अत: काव्यशब्दाः कार्यपराः स्युस्तेषामपि वाक्यत्वानपायात् । यस्य पुनः कार्यपरत्वं, तस्य पुनरुपादेयत्वमपीत्यपि सिद्धान्तः । अथ काव्यवाक्यस्य किं कार्य किं च तत्परत्वं तस्येति गवेषणीयम । तत्र, कार्य प्रयोजनम् । काव्यं च रसात्मकं वाक्यम् । तस्यैतस्य पुनः कार्य (प्रयोजन)निरतिशयसुखास्वादेन स्वमुपासीनस्याभिमुखीकरणम् , तस्य रसान्वयव्यतिरेकानुविधायित्वात् । रसश्च निरतिशयसुखास्वादान व्यतिरिक्तः । आयातं चैवं रसस्यापि वाक्यकार्यत्वम् । वाक्यकाय च वाच्यमेवेत्युभयमतम् । तथा सति रसस्य वाच्यत्वे खतःसिद्धं व्यङ्गयमात्रस्यापि वाच्यत्वम् । व्यङ्गयत्ववाच्यत्वयोश्चाव्यतिरेके नाममात्रे विवादः । सत्येवं किमर्था व्यन्जना ! इति । न चैतत् प्रपाणागिमभिधानमिल्याह-"यत्परो यस्मिन् बोधनीयत्वेच्छाविषयीभूतेऽर्थे इति यावत् परः कारणत्वेनाभिमत इति तथोक्तः । यत्तात्पर्यमुद्दिश्य प्रवृत्त इत्यर्थः । शब्दः पदरूपो वाक्यरूपो वा । सः । शब्दार्थः शब्दस्यार्थस्तात्पर्य मिति तथोक्तः ।' इतिन्यायात् । इत्येवम्भूतात् सिद्धान्तादित्यर्थः ।" इतीत्येवम् । यत् । उक्तं प्रतिपादितम् ।
इत्येवमन्विताभिधानवादिना रसादेर्व्यङ्गयत्वनिरसनाय युक्त्यन्तरं प्रतिपाद्य सहेलं खण्डयितुमाह-तत्रेत्यादि ।
तत्रेति यत्पुनरुक्त'मिति प्रदर्शिते इति यावत् । प्रष्टव्यं जिज्ञास्यम् । किमित्याह-इदं तथाऽभिमतम् । तत्परत्वं तस्मिन् बोध्येऽर्थे इति यावत् परं तत्त्वम् । नाम प्रसिद्धम् तेन रूपेण प्रसिद्ध मिति यावत्। किंकिंखरूपमिति