________________
परिच्छेदः ]
रुचिराख्यया व्याख्या समेतः ।
यत् पुनरुक्त- “पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वेऽनुपादेयत्वादुन्मत्तवाक्यवत्, ततश्च काव्यशब्दानां निरतिशय सुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेर्निरतिशय सुखास्वाद एव कार्यत्वेनावधार्यते । 'यत्परः शब्दः शब्दार्थः ।" इति न्यायात् । " इति ।
૨૮૨
यावत् । ' स्थिताना 'मिति शेषः । व्यापाराभावो व्यापारोन्मुखीभावाभावः । एकं कार्य निष्पाद्य कार्यान्तरं निष्पादयितुमव्यापृतत्वं क्षीणशक्तिकत्वात् सकृदेव कार्यकारित्वोपयोगिशक्तिशालित्वाच्चेति भावः । 'भवती 'ति शेषः ।" इतिवादिभिरितिवक्तृभिः । ' आचार्यैरिति शेषः । एव 'न त्वस्माभिरपी'ति शेषः । दण्ड: । 'स्वविरोधफलं प्रदर्शयितु' मिति शेषः । पातनीयः पातनाहः । इति । अत्रेदमभिहितं भवति ये हि 'वाणस्य वेगइवाभिधाया व्यापारो दीर्घदीर्घतर इति सर्वेषामप्यर्थानामभिधेयत्व' मिति, ये च - 'सर्वोऽप्यर्थः शाब्दस्तात्पर्य्यरूपत्वानपायात् । तात्पर्यं च शब्दसम्बन्धि | तस्यापरिमेयतया व्यायमपि तथाभूतमिति न व्यञ्जनोपास्या, न च सा सार्थाऽन्यथाऽपि तदर्थसिद्धेः । एवं च व्यञ्जकत्वं वाचकत्वं च न भिन्नस्वरूप न वा व्यङ्ग्यत्वं वाच्यत्वं चेति मन्वते; ते सर्वेऽपि ' शब्दबुद्धिकर्मणां विरम्यव्यापाराभावः' इति सिद्धान्तविरुद्धाभिधाना देवानांप्रियाः । तदिति तान् स्वयंमेव ' शब्दबुद्धिकर्मणां व्यापाराभावः ' इति सिद्धान्तिन उत्तरविष्यन्ति वयं पुनस्तत्रोदास्म हे इति । अथापि - जिज्ञासवः पृच्छामः - एवं ' सिद्धान्ते सती 'ति शेषः । च । लक्षणा शब्द सम्बन्धरूपाऽन्यावृत्तिः । अपि । 'व्यञ्जनाया इवैतस्या अपि परिहारौचित्यात् । ' इति शेषः । किमिति किमर्थं किमभिप्रेत्येति वा । उपास्या निषेव्याऽपेक्ष्या स्वीकार्येति यावत् । दीर्घदीर्घतराभिधाव्यापारेणात्यन्तं सुदीर्घेणाभिधायास्तत्तत्समस्तपदार्थोपस्थापकेन व्यापारेणेत्यर्थः । अपि एव । अव्ययानामनेकार्थकत्वादत्रैवार्थेऽपिरिति बोध्यम् । तदर्थबोधसिद्धेस्तया लक्षणया कृतो योऽर्थस्तद्बोधसिद्धेरित्यर्थः । ' तृतीया तत्कृतार्थेन गुणवचनेन ।' २।१।३० इति समासः । यद्वा तस्या लक्षणायास्तत्सम्वन्धिनीति यावद्, याऽर्थबोधसिद्धिस्तस्मात्तद्रूपात् कारणादित्यर्थः । इह सम्बन्धसामान्यविवक्षया षष्ठी तया पुनः समासः । लक्षणयाऽपि प्रतिपायस्याबोध यदि कल्पितेनाभिधाव्यापारेण तेन सम्पद्येत, किं पुनस्तस्या अपि 'स्वीकारौचित्यम् । इति भावः । च तथा । 'ब्राह्मण ! ते तत्र । पुत्रः । जात उत्पन्नः । ते तव । कन्याऽनूढा पुत्री । गर्भिणी गर्भवती । ' जाते 'ति शेषः । इत्यादौ ' वाक्यकदम्वे ' इति 'शब्दे' इति 'उच्चरिते' इति च शेषः । अपि । हर्षशोकादीनां 'जायमानाना' मिति शेषः । अपि । आश्रर्यम् । वाच्यत्वम् । न 'स्वीक्रियते' इति शेषः ।
इदमभिहितम् - यदीषोर्वेगेन रिपोर्वर्मशरीरच्छेदादिरिवाभिधाया व्यापारेणैव सर्वोऽपि तस्यतस्य शब्दस्यार्थःसम्पत्स्यते, तर्हि तेन व्यङ्ग्यइव लक्ष्योऽपि कुतो न सम्पद्येत, किंवा व्यञ्जनाया इव लक्षणाया अपि व्यापारान्तरखीकारौ चित्यम् । व्यञ्जनाया इव लक्षणाया अप्यभिघातो भिन्नत्वेन तस्या अपि आनर्थक्यम् । अन्यथा किमपराद्धं व्यञ्जनया, किं वा लक्षणयोपकृतम् । इति पिक् ।
ननु मैवं भूद् व्ययस्य वाच्यस्यार्थस्य च नाममात्रे विवादास्पदत्वम्, किन्तु - 'यत्परः शब्दः स शब्दार्थ:' इत्युक्त दिशा सर्वेषां शब्दानां कार्यपरत्वस्य विचिकित्सितत्वे रसात्मक वाक्यस्वरूपस्य काव्यस्य शब्दानां च निरतिशयमुखास्वादस्त. रूपरसाविभिन्नतायां सहृदयहृदयसाक्षिकायां तेषां पुनः काय्यैपरतया, कार्यस्य च निरतिशयमुखास्वादानतिरेकितया परैरभ्युपगतो व्यङ्गयो रसोऽपि कुतो न शब्दार्थ : ? इति प्रकारान्तरेण व्यायस्य वाच्यात्मकतामभिदधतामन्विताभिधानवादिनां मतं परिहर्तुं तत्र तावत् तदेवोपपादयति-यत्पुनरित्यादिना ।
पुनः । निरुक्तदिशा रसस्य व्यङ्गयमात्रस्य वा वाच्यतायां परिहृतायां सत्यामित्यर्थः । ' प्रकारान्तरेण पुनस्तामेव समादधानैः कैश्चिदिति शेषः । " पौरुषेयं लौकिकम् । पुरुषाणामिदमिति तथोक्तम् । 'शुभ्रादिभ्यश्च ।' ४। १ ।१२३ इति ढक् । च तथा । अपौरुषेयमलौकिकम् । न पौरुषेयमिति तथोक्तम् । सर्वं यावदस्ति तावत् तत्प्रकारक मिति यावत् । एव । वाक्यं पदोच्चविशेषः । कार्यपरं कार्ये परं परायणं तत्कर्तुं समुद्युतमिति यावत् । कार्य च वाक्यस्यार्थबोधनम्, तथा च - अर्थबोधने सदैवोद्यतमिति निष्कृष्टम् । 'अस्ती 'ति शेषः । अतत्परत्वे तत्परत्वा