________________
३८३ साहित्यदर्पणः।
[पञ्चमःयच्च केचिदाहुः-'सोऽयमिषोरिव दीर्घदीर्घतरोऽभिधाया व्यापार:।' इति, 'यत्तथा धनिकेनोक्तम्। 'तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः । यावत्कार्यप्रसारित्वात्तात्पर्य न तुलाधृतम् ॥' इति ।
तयोरुपरि "शब्दबुद्विकर्मणां विरम्य व्यापाराभावः।" इति वादिभिरेव पातनीयो दण्डः । एवंच-किमिति लक्षणाऽप्युपास्या ? दीर्घदीर्घतराभिधाव्यापारेणापि तदर्थबोधसिद्धेः । किमिति च 'व्राह्मण ! पुत्रस्ते जातः, कन्या ते गभिगी' च्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् ?
ननु किमिदमभिधीयते? शब्दभवणानन्तरं जायमानस्य रावस्याप्यर्थस्य शाब्दत्वात, अभिधाया व्यापारस्य वाणवेगस्व दीर्घदीर्घतरत्वं स्वीकर्तुमुचितत्वात् इति चेन्नेत्याह-यच्चेत्यादिना ।
केचित् । भटमतोपजीविनी लोटप्रमुखा इत्यर्थः । भट्टश्च मीमांसाया आचार्यविशेषः । नामानिर्देश: पुनरे. तन्मतस्य क्षोदाक्षमत्वसूचनार्थः । च तथा । 'इषोणिस्य वलीयसा प्रेरितस्येति शेषः । इव । अभिधायास्तनाम्न्याः वृत्तेः । स परैर्वृत्त्यन्तरस्य व्यापाररूपत्वेन स्वीक्रियमाणोऽपि य इति भावः । अयं सर्वइति शेषः । व्यापारः। दीर्घदीर्घतरोऽतीव यथेष्टं प्रसरणशील: ।' इतीत्येवम् । यत् । आहः कथयन्ति । तथा तथैव । धानकेन तदाख्न केनापि विदुषेत्यर्थः । 'ध्वनिकेने ति पाठेऽपि तदाख्येन केनापि विदुषा इत्येवार्थ: । ध्वनिकारणे'ति पाठस्त्वपपाट: ।
खमतविरुदत्वापत्तेः । धनिकश्च दशरूपक'कर्तेलपि न सम्यक् । दशरूपकेऽनुपलब्धः। 'तात्पर्यव्यातिरेकात्ता. त्पर्यस्यव्यातिरको व्यतिरेकामावस्तम्मान् । यदसत्त्वे यदसत्त्वं व्यतिरेकः । न व्यतिरेकोऽव्यतिरेक: । तात्पर्येण समं गेदाभावात इति भावः । 'यत्परः शब्दः स शब्दार्थः'इत्युक्तनन सर्वविधस्याप्यर्थस्य तात्पर्याव्यतिरेकित्वं च निर्वायम् । च । व्यञ्जकत्वस्य व्यजनोद्धोधकतायाः । व्यञ्जनोटोधकापरपर्यायो व्यकश्च कचिच्छब्दः बचिदर्थः क्वचिपुनतदुभयमिति व्यजकस्य तस्य शब्दाद्यन्यनमस्य यद व्यशनोद्वोधनसम्वन्धि सामर्थ्य तस्येति भावः । ध्यानः । इति व्यपदेश इति शेषः । न नैव । 'सङ्गच्छते'इति शेषः । एवं च तात्पर्य्यमेव सर्वोऽप्यर्थ इति न व्यञ्जकत्वस्य ध्वनिरिति व्यपदेशोपयोगित्वमावश्यकमिति निकृष्टम् । न चेदं (तात्पर्य) संसर्गमेव बोधयित्वा परिक्षीयते, तत् पुनः कथं व्यजनोद्बोधकत्वोपयोगित्वमावहेदिति वाच्यमित्याह-यावत्कार्यप्रसादित्वाद् यावन्ति कार्याणि वाच्या. दीनीति यावत्कार्याणि, तानि तेषु वा प्रसतुं शीलमस्यास्तीति तत्त्वात् । यद्वा-यावत्कार्य यदवधि कार्य तावत्प्रसरणशीलत्वादित्यर्थः । कार्यमवधीकृत्य वर्तमानं यावतूकार्यम् । ' यावदवधारणे ।' २११।८ इति समासः । तात्पर्यमभिप्रायो यत्परः शब्दस्तत्परत्वमिति यावत् । यादृशाभिप्रायको वक्ता भवति तादृशाभिप्रायक एव तस्य शब्द इति सर्वोऽप्यर्थः शाब्दः, स च तत्पर इति तात्पर्य शब्दसम्बन्धित्वं च न भिन्नार्थम् । इति बोध्यम् । तुलाधृतं तुलायां सादृश्ये तनिश्चायके पात्रविशेषे वा घृतं निहितमित्यर्थः । न नैव । 'भवती' ति शेषः । एवं च-तात्पर्य संसर्गमेव न बोधयति,यन व्यजनाकार्यकारीति निष्कृष्टम् । इतीत्येवम् । यत् उक्तं प्रोक्तं प्रतिपादितमिति यावत् । इदमभिहितम् - प्रवलेन वीरेण प्रेरितो यथा वाण एकेनैव स्वीयेनात्यन्तं दोघीयसा वेगेन व्यापारेण रिपोर्म च्छित्त्वा, उरो भित्त्वा, जीवितं हरन् प्रसर्पति, तथा विविधाभिप्रायेण विचक्षणेन निवेदिताऽभिधाऽपि वृत्तिरेकेनैव स्वीयेन तत्तत्पदार्थोपस्थापकत्वरूपेण व्यापारेण तत्तत्पदार्थस्यार्थमुपस्थाप्य, वाक्यार्थमनुभाव्य रसाश्चमत्कारं च सम्भाव्य विजयते इति ये केऽपि यया कयाऽप्यन्ययाऽपि वृत्त्या यस्य यस्यार्थजातस्योपस्थितिं कल्पयन्ति रा सर्वोऽप्यर्थस्तन्मतेऽभिधयैवैकया वृत्त्यो. पस्थाप्यः, तस्य सर्वस्यैव तयैवोपस्थाप्यत्वात् । इत्येकयाऽभिधयैव वृत्त्या निर्वाहे वृत्त्यन्तरकल्पनाया अन्याय्यत्वमिति यदेकेषां भमतोपजीविनां मतम् , धनिकस्य पुनस्तन्मतातुमन्तृणां वायत्परः शब्दः स शब्दार्थ: ' इति न्यायोक्तदिशा यंयमर्थ समवगमयितुं प्रवृत्तः शब्दः स सर्वोऽपि शाब्दः, तत्त्वं च तात्पर्यम् । एवं च शब्दसम्वन्ध्यर्थखरूपत्वं तात्पर्यमिति फलितम् । अथ तात्पर्यस्य महाकायत्वाद् व्यञ्जकसम्बधित्वमपि तदभिन्नम् । व्यञ्जकसम्बन्धी च व्यङ्गय एवार्थः । तदेवं वाच्य इव व्यङ्गय, उभयोरप्यनयो: शाव्दत्वात् । तात्पर्य च यावत्कार्य प्रसरणशीलमिति न परिमेय. मियत्तयाऽनवच्छेद्यत्वात् ।' इति यन्मतम् । इति ।
तयोरुभयोर्मतयोरित्यर्थः । उपर्युपरिष्टात् । 'शब्दन्द्रिकर्मणां शब्दस्य बुद्धः कर्मणश्चेत्यर्थः । तत्र-शब्दो वाचकादिः, बुद्धिर्घटाद्याकारेण परिणगनशीलाऽन्तवृत्तिः, कर्म पुनः पचनादि। विरम्य विश्रम्य विश्रामानन्तरमिति