________________
खाहित्यदर्पणः।
[पञ्चमःवाच्यादसम्बद्धोऽर्थस्तावन्न प्रतीयते । अन्यथाऽतिप्रसङ्गः स्यात् । इति बोध्यबोधकयोरर्थयोः कश्चित् सम्बन्धोऽस्त्येव । ततश्च बोधकोऽर्थो लिङ्गम् , बोध्यश्च लिङ्गी, घोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव । सपक्षसत्त्वविपक्षव्यावृत्तत्वे अनिबद्धे अपि सामर्थ्यादवसेये । तस्मात्-अत्र यो वाच्याऑल्लिङ्गरूपाल्लिङ्गिनो व्यङ्यार्थस्यावगमः सोऽनुमानं एव पर्यवस्यति । ' इति । तन्न ।
तथाहि-अत्र 'भम धम्मिअ-'इत्यादौ 'गृहे श्वनिवृत्त्या विहितं भ्रमणं गोदावरीतीरे सिंहोपल
वह्निमान् धूमवत्त्वाद् यथा महानस'मित्यादौ पर्वतादिस्तत्र सन् तदवृत्तिस्तत्त्वं यथा धूमत्वादिः समानः पक्ष इति, सपक्षः, स च निश्चितसाध्यवत्स्वरूपो यथा महानसादिः तत्र सत्त्वं धृमत्वादिविपरीतः पक्ष इति विपक्षः, स च साध्याभाववान् । यथा जलाशयादिः । तस्माद् व्यावृत्तस्तवृत्तिस्तत्त्वं धूमत्वादि । तद्विशिष्टं तदवच्छिन्नं तस्मात् । लिडाचिहात् 'धूमादिरूपात्'इति यावत् । लिझिनो लिङ्गं चिहमस्यास्मिन् वाऽस्तीति तस्य वह्नयादे रिति भावः । ज्ञानं निश्चयः । 'मत'मिति शेषः । अर्थः शाब्दबोधः । तावत् साकल्येन 'यावत्तावच साकल्येऽवधौ मानेऽवधारणे' इत्यमरः । वाच्यात असम्बद्धः सम्बन्धित्वानवच्छिन्नः । न । प्रतीयते अन्यथा । ननु वाच्यादसम्बद्धोऽपि प्रतीयेत का हानिरिति चेन्न यत इति भावः । अतिप्रसडोऽतिव्याप्तिः । स्याद भवेत् । इत्येवं सति । बोध्यबोधकयोर्बोध्यो व्यङ्गयो बोधकस्तद्भिन्नोऽर्थस्तयोः । अर्थयोः। कश्चित् ।सम्बन्धो वैशिष्टयम् । अस्ति । एव नत्वत्र सन्देहावसरः । ततस्तस्मात्। 'कारणा' दिति शेषः । सम्बन्धस्यावश्यं सद्भाव इति स्वरूपात् । बोधको 'व्यङ्गथार्थस्ये ' ति शेषः । अर्थों नतु शब्दः । 'एवे' ति शेषः । लिई चिह्नम् तत्स्वरूप इति यावत् । च । बोध्यः लिडी । च तथा सति बोधकस्य व्यङ्गयार्थबोधकस्य । अर्थस्य । पक्षसत्त्वं पक्षे विद्यमानत्वम् । निबद्धं सिद्धम् । एव खलु । अथसपक्षसत्त्वविपक्षव्यावृत्तत्वे सपक्षसत्त्वं विपक्षतश्च व्यावृत्तत्वम् । अनिबद्ध अपि । सामर्थ्यात् संस्कारवलात् 'पक्षसत्त्वं समुद्दिश्य तत्र प्रकल्प्यमानादिति ' यावत् । अवसेये अनुमेये। ईदूदेद्विवचनं प्रगृह्यम् । ' १।१।११ इति प्रगृद्यत्वे संहिताऽभावः । तस्मात् 'कारणा'दिति शेषः । लिडरूपात । वाच्यार्थात । वाच्यार्थमाश्रित्य 'ल्यबलीपे कर्मण्यधिकरणे च' * इति पञ्चमी । लिडिनो लिङ्गिसम्बन्धी। यः । व्यङ्यार्थस्य । अवगमो बोधः । सः । अनुमाने निरुक्तलक्षणे प्रमाणे । एव । पर्यवस्यति पर्यवसितो भवति निश्चितो जायते इति यावत् । इतीस्येवम् । 'यद्यक्तिविवेककाराः प्राहुः' इति शेषः । तत् 'कथन' मिति शेषः । न ‘सङ्गच्छते' इति शेषः । ___अत्रेदं बोध्यम्-पक्षः पर्वतादिः, सपक्षः पुनर्महानसादिः, तत्र सन् विद्यमानः, स एव विपक्षाद् व्यावृत्ती धूमादिस्तत्त्वं च धूमादित्वम् । अथ-विशिष्टमवच्छिन्नम्, एवं सति धूमत्वावच्छिन्नमिति, तच्च धूमरूपमेव, तदादि लिझं पुनधूर्मादि । ततश्च धूमवदादिज्ञानमनुमानम् । धूमवानग्निः । 'पर्वतोऽयमग्निमान् धूमवत्त्वाद् यथा महानसम्'। इत्यस्य च 'पर्वतेऽस्मिन् धूमबानग्निः यथा महानसे; कुत एतत्-धूमवत्त्वा' दिति शाब्दबोध एवानुमानपर्यवसायीति । तत्र-पक्षः, 'एष एतद्वा' निति यत्र हेतुपुरःसरं सिसाधयिष्यते; सपक्षः पुनः, यत्र तादृशं हेतुं पतिपद्य तादृशत्वं प्रथमत एव प्रतिपन्नम् ; एवं विपक्षः, यत्र तादृशहेत्वभावे तादृशत्वाभावो निश्चितः स्यात् । इति यत्रयत्र व्यञ्जनास्वीकारो यादृशं व्यञ्जनया प्रतिपाद्यमानमर्थमुररीकुर्वन्ति, तत्रतत्रैव वयमनुमितिविषयं तादशं साधयामः, तस्मात्-पक्षः स एव, 'भम धम्मिअ-'इत्यादिः, 'जलके लि-'इत्यादि । अत्र सत्त्वं तस्य वाच्यस्य, यस्माद् व्यङ्गयोऽर्थः प्रतीयते; एतम्मादेव हि अनुमेयोऽर्थः । सपक्षः पुनः, तादृशवाच्यार्थशाली खलु । तत एव तादृशानुमितिसिद्धेः । अत्र सत्त्वं पुनः तादृशस्यैव वाच्यस्य, तादृशादेव तथा प्रतिपत्तेरभ्युपगमात् । अथ-विपक्षः, तादृशवाच्याभाववान् ; तत्रैव तत्त्वाभावप्रतिपत्तेः । लिङ्ग तादृशबोध्यबोधकयोः सम्बन्धविशेषः । अस्ति हि सर्वोऽपि बोध्यो बोधकश्च परस्पर यत्किञ्चित्सम्बन्धशाली; तत्त्वमनीकृत्यातिप्रसङ्गापत्तेः । तथाहि-'भमधम्मिअ-'इत्यादौ भ्रमणाभावस्येव घटाभावादेरपि बोधः स्यात् । इति यदाहुर्व्यक्तिविवेककाराः, तन्न क्षोदक्षमम् । इति । तदेवोपपादयति-तथाहि-'यथा तन्त्र सङ्गच्छत' इति शेषः । अत्रास्मिन् । 'भम धम्मि'- त्यादौ श्लोक'इति शेषः । श्वनिवत्या शुनौ निवृत्ति मे आगत्य गोदावरीकुजवासिना सिंहेन मारित इत्येव तस्यानुपलब्धिस्तया । 'हेतुने ति शेषः । ग्रहे। 'एवेति शेषः । विहितं प्रतिपादितम् । भ्रमणं 'शुनकादपि भीतस्येति शेषः ( कर्तृ ) । गोदावरीतीरे गोदावर्यास्तदाख्याया