________________
पञ्चमः परिच्छेदः ।
अथ केभिनवा व्यञ्जना नाम वृत्तिरित्युच्यते
२९८ वृत्तीनां विश्रान्ते-रभिघातात्पर्यलक्षणाख्यानाम् । अङ्गीकार्यातुर्यावृत्तिधे रसादीनाम् ॥ २९३ ॥
निधानं भव्यानां धृततनु च भव्यं विभविनां फलं भूयस्तेषां सुकृतविभवानां समुदितम् । फलस्याप्याधानं, परममनघं तस्य च पदं निरस्तानर्थौघं मम शरणमेकं भवतु तत् ॥ १ ॥ ननु काव्यस्य रसात्मकत्वमभिहितं, रसच व्यङ्गयं वस्तु तदिति तदेव काव्यस्य व्यपदेशबीजं, तस्य पुनर्व्यजनया बोध्यत्वं सत्यसाक्षिकमेव, अथैवं व्यञ्जनाया अप्रामाणिकत्वेऽसिद्धत्वे च तत् सर्वमप्रामाणिकमसिद्धं च स्वत एव स्यादित्यवश्यं तत्र प्रमाणमुत्रेयं, तत्सिद्धि युक्तिपुरःसरगवस्थाप्येति मन्वानः पञ्चमपरिच्छेदरूपस्यास्य प्रकरणान्तरस्यावतरणिकाभूतामाशङ्कामुपन्यस्यति अथेत्यादिना ।
अथ रसात्मकवाक्यस्वरूपस्य काव्यस्य भेदनिरूपणानन्तरमित्यर्थः । इयं सहृदयानामनुभवास्पदत्वेन साक्षादिव निष्टतया निर्देष्टुं शक्येत्यर्थः । अभिनवा नूतना । अनादरणीयेति भावः । नवीनरेव कैश्विदुद्घोष्यमाणा न तु वस्तुयाथात्म्य विद्धिनैयायिकैरत एव नूतना क्षोदक्षमत्य शून्यत्वेन वस्तुनाऽनङ्गीकार्येति निष्कर्षः । व्यञ्जना व्यज्यते न त्वभिधीयते लक्ष्यते वा रसादिरनयेति । नाम प्रसिद्धा । का किम्प्रमाणा विरूपा चेत्यर्थः । वृत्तिः । 'अस्ती 'ति शेषः । इति । सिंहावलोकनन्यायेनेति शेषः । ( इत्येवं सिंहावलोकनन्यायमनुसन्दधानेन ग्रन्थकृतेति निष्कृष्टोऽर्थः । उच्यते । प्रमाणोपन्यास पुरःसरं तस्याः स्वरूपं निरूप्यते - २९० वृत्तीनामित्यादिना ।
अत्रेदमभिव्यज्यते यत्सद्भावे एव सन्देहः कथं साक्षात्तदभिधानं सङ्गच्छेत ? इदमाऽभिधानं च दृश्यमानस्य, निश्चितत्वेनादृश्यमानस्यापि दृश्यमानस्येवाभिधेयस्य वा; अन्यथा तद्वतां भ्रममूलं, तथाऽभिधानं वा वञ्चनमात्रम् । प्रकृते च व्यञ्जना येषामज्ञातरूपा कथं ते 'केय' मित्याशङ्कितुं शक्ताः । तदिति तेषां तथाऽऽशङ्कनं भ्रमास्पदत्वं वा वञ्चनमात्रत्वं वाsse - अथेत्यादि । ननु 'विरतास्वभिधाऽऽयास्वि' त्यादिना व्यञ्जनायास्तावन्निरूपितमेव स्वरूप (लक्षण) म्, उपन्यस्तं च तत्र व्यञ्जनध्यननावगमनप्रत्यायनादिव्यपदेशविषये त्यनेन प्रमाणम् । अथ कथमाशङ्कयते - अथेत्यादिनेति चेत् ? दप्रत्ययप्रतिपत्तये प्रमाणान्तरोपन्यासार्थं चेति गृहाणेति बोध्यम् ।
२९८ अभिघातात्पय्र्यलक्षणाऽऽख्यानामभिधाऽऽख्यायास्तात्पर्याख्याया लक्षणाख्यायाश्चेत्यर्थः । ' द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते ' इति नयेनाभिधाऽऽदिभिः प्रत्येकं सम्बन्धः । तात्पर्यस्यान्तर्निवेशश्च वृत्त्यन्तरोपयोगि त्वानुकूलत्वोपलक्षणार्थम् । वृत्तीनां शब्दार्थयोर्व्यापारभूतानाम् । विश्रान्तेर्विश्रामात्तदनन्तरम् । स्वस्वव्यापारमुद्भाव्य विरतत्वात् । विरतत्वं च व्यापारान्तरमुद्भावयितुमशक्तत्वम् । 'अपादाने पञ्चमी । २।३।२८ इति पञ्चमी । रसादीनां रसभावतदाभासादिक्वलङ्काराणाम् । बोधे वोधनिमित्तं बोधविषये वेत्यर्थः । तुर्या चतुर्थी अभिघातात्पर्य लक्षणाख्याभ्यो वृत्तिभ्यो विलक्षणेति यावत् । 'चतुररछयतावाद्यक्षरलोपश्च ' इति चतुर लोपो यत्प्रत्ययश्च । वृत्तिः । ' व्यञ्जने 'ति शेषः । अङ्गीकार्या । ' आलङ्कारिकै रिति शेषः ॥ २९३ ॥
अत्राहुष्टिप्पणीकारा:-' अत्रेदं तत्त्वम् - " गङ्गायां घोषः । इत्यत्र 'गङ्गाशब्दो' घोष' शब्दश्च सामान्यात्म के जलप्रवाहे आभीरगृहनिकुरम्बे च सङ्केतितौ । सामान्ये एवोद्योगात् । विशेषस्य हि संतकरणे आनन्त्यं व्यभिचारश्च स्यात् । ततश्च अभिवया जलप्रवाहमात्रं तद्गृहनिकुरम्बमात्रं च प्रतीतमिति प्रथमा कक्ष्या । एतत्प्रतिपाद्यान्यप्रतिपादनायाप्यभिधा न समर्था । 'विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे ।' इति नयेन " अभिवाशक्तिर्विशेष्यं व्यक्तिरूपं धर्मिणं न गच्छेन्न यायात् । यतो विशेष जातिरूपे उपाधौ क्षीणशक्तिर्विरतव्यापारा । 'नागृहीतविशेषणा बुद्धि