________________
साहित्यदर्पणः। -
[पञ्चमःअभिधायाः सङ्केतितार्थमात्रबोधनविरताया न वस्त्वलङ्काररसादिव्यङ्गयबोधने क्षमत्वम् । न च सङ्केतितो रसादिः । नहि विभावाद्यभिधानमेव तदभिधानम् । तस्य तदैकरूप्यत्वात् । न च रसादिशब्देन शृङ्गारादिशब्देन वाऽभिधेयत्वम्, तस्य तदन्वयव्यतिरेकानुविधानात् । (किञ्च.) यत्र (च) स्वशब्देनाऽभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः, क्वचिच्च-'शृङ्गारोऽयम्' इत्यादौ स्वशब्देनाभिधानेऽपि न तत्प्रतीतिः। तस्य स्वप्रकाशानन्दरूपत्वात् । अभिहितान्वयवादिभिरङ्गी. कृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रे परिक्षीणा न व्यङ्ग्यबोधिनी ।
विशेष्ये चोपजायते।' इति न्यायेन विशेषणं प्रत्याय्य विरामात् ॥” इत्यर्थकेन तस्याः विरम्य व्यापारासम्भवात् । 'सामान्यान्यन्यथासिद्धेविशेष्यं गमयन्ति हि।' इति न्यायात्तात्पर्यशक्त्या सामान्यान्याधाराधेयभावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरयन्ति इति तात्पर्येण परस्परान्वितत्वमात्रमेव प्रतीयत इति द्विविधा । जलप्रवाहस्य च घोषाधिकरणत्वमयुक्तमिति प्रमाणन्तरबाधितः सन् गङ्गाशब्दस्तदधिकरणयोग्य तीरं लक्षयतीति तृतीया । तत्र तावत् 'मुख्यार्थबाधे तद्युक्तो ययाऽन्योऽर्थः प्रतीयते । रूढेः प्रयोजनाद वाऽपी'ति नीत्या लक्षणा तत्रितयसत्रिधावेव भवति । तत्र मुख्यार्थवाधा तावत् प्रत्यक्षादिप्रमाणान्तरमूला । यश्च सामीप्यादिसम्बन्धः स च प्रमाणान्तरावगम्य एव । यत् पुनरिदं तीरस्य शैत्यपावनत्वादिलक्षणं प्रयोजनं प्रतीयते तत् शब्दान्तरानुक्तं प्रमाणान्तराप्रतिपन्नं च कुत आगतम् । न तावत प्रत्यक्षादेतत्प्रतीतिः । अस्मादेव शब्दादवगमसिद्धेः, शब्दार्थे च तस्याप्रवृत्तेः । नाप्यनुमानात् । सामीप्येऽपि शैत्यपावनत्वादेरसम्भवादनैकान्तिकत्वात् । न च स्मृतिः । तदनुभवाभावात् । सत्यामपि तस्यां नियतस्मरणं न स्यात् । अस्मादेव च शब्दादेतदेव बुध्यत इति को हेतुः । तस्मादस्यैव शब्दस्यैष व्यापारोऽभ्युपगन्तव्यः । निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात् । स तावन्नाभिधात्मा समयाभावात् । न तात्पर्यात्मा, तस्यान्वयप्रतीतावेव परिक्षयात् । न लक्षणात्मा मुख्यार्थबाधाद्यभावात् । तस्मादभिधातात्पर्यलक्षणाव्यतिरिक्तश्चतुर्थकक्ष्यानिक्षिप्तो व्यङ्गयनिष्ठो व्यञ्जनाव्यापारो व्यञ्जनद्योतनादिसो. दरव्यपदेशनिरूपितोऽभ्युपगन्तव्य इति निष्कर्षः।" इति।'
अथ कारिकोक्तं विवृणोति-अभिधाया इत्यादिना ।
सङ्केतितार्थमात्रबोधनविरतायाः सङ्केतो जातोऽस्येति सङ्केतितः कृतसङ्केत इति यावत् , सोऽसावर्थ इति, स एवेति सङ्केतितार्थमात्रं, तस्य बोधनं ज्ञापनं तस्माद्विरता विरतव्यापारा तस्याः । मात्रपदेन लक्ष्यादेर्व्यवच्छेदः । अभिधायास्तदाख्याया वृत्तेः । वस्त्वलङ्काररसादिव्यङ्ग्यबोधने वस्त्वलङ्काररसादयो येथे व्यङ्गया व्यन्जनामात्रगम्यास्तेषां बोधने ज्ञापनविषये । अत्रादिपदं रसाभासभावभावाभासादिग्राहकम् । न नैव । क्षमत्वं सामर्थ्यम् । 'अस्ती'ति शेषः । अभिधया सङ्केतितरूपो वाच्योऽर्थ एव, न तु लक्ष्यादिरूपोऽपि बोध्यते; सङ्केतितार्थबोधनानन्तरमेव तद्विरामात्। विरतायाश्च तस्या निरुक्तदिशा पुनरुत्थानासम्भवाद् रसवस्त्वलङ्कारादिबोधो व्यजनयैवैकया वृत्त्या न पुनरभिधयाऽपि शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः ।' इति सिद्धान्तात् । ननु यद्यभिधया सङ्केतित एवार्थों बोध्यते ? तर्हि रसादिरपि सङ्केतितार्थखरूपः किं न स्यादित्याह-रसादिः । च पुनः । न नैव । सङ्केतितः । सङ्केतितार्थरूपः । यदसावभिधया बोधितः स्यात् । 'स्वव्यञ्जकपदसङ्केताभाववत्त्वादिति' शेषः। एवं च-रसादेः रसादिपदसङ्केतितत्वेऽपि न क्षतिरिति भावः। 'अस्ती'ति शेषः । हि यतः कारणात् । विभावाद्यभिधानं विभावानुभावादेरभिधानम् । एव । तदभिधानं तस्य रसादेरभिधानम् । न । नैव । 'अस्ती'ति शेषः । विभावादेः रसादिरूपत्वादिति भावः । तदेवोपपादयति-तस्य विभावादेः । तदैकरूप्यानङ्गीकारात्तस्य रसादेरैकरूप्यमेकरूपत्वमभिन्नखरूपत्वमिति यावत्तस्यानङ्गीकारः स्वीकाराभावस्तस्मात् । 'आस्वादरूपरसादिप्रतीतितादात्म्येनैव विभावादेरङ्गीकाराचे'ति शेषः । विभावाद्यभिधानस्य रसायभिधानस्य च भिन्नत्वाद् विभावादेव रसादिस्वरूपत्वाङ्गीकाराच । तस्य चास्वादानतिरिक्तत्वात् कथं भवेद रसादिः सङ्केतिस इति भावः । सकेतस्तस्यैव भवेद् यस्य स्वरूपं निर्देष्टुं शक्यते । विभावाद्यभिधानेन विभावादिस्वरूपस्य निर्दिष्टतया च न रसायभिधानं, - महिवरूपाय निर्देशः सम्पद्यते । वस्तुतस्तु विभावादिरेव रसादिः । सोऽसावास्वादानतिरिक्तभूतः । ततश्चास्वादस्वपाया रसादिप्रत तेस्तादात्म्यमेव विभावादेः । तदेवं नात्राभिधायाः सञ्चारः । तदभाचे च व्यञ्चनैव आस्वादखरूपाया