________________
३७८
साहित्यदर्षणः।
[ चतुर्थः परिच्छेदः] तदुक्तं ध्वनिकृता
"प्रधानगुणभावाभ्यां काव्यस्यवं व्यवस्थिते।
उभे काव्ये ततोऽन्यद यत । तचित्रमभिधीयते ॥” इति । इति साहित्यदर्पण ध्वनि-गुणीभूतव्यङ्गयाख्य-काव्यभेदनिरूपणो नाम चतुर्थः परिच्छेदः ।
तदेव प्राचां सम्मत्याऽनुगमयति-तत् । उक्तम् । ध्वनि कृता "एवं निरुक्तप्रकारेण । काव्यस्य । प्रधा. नगुणभावाभ्याम् । उभे द्वे ध्वनिगुणीभूतव्यङ्गयात्मके इति यावत् । काव्ये । व्यवस्थिते। ततस्ताभ्याम् । अन्यत् भिन्नम् । यत् 'तृतीयप्रभेदक मिति शेषः । तत् । चित्रमाभासरूपम् , नतु वास्तवं काव्यमिति भावः । अभिधीयते ॥” इति ।
अत्राहुष्टिप्पणीकारा:-" व्यङ्ग्यार्थस्य प्राधान्ये ध्वनिः, गुणभावे तु गुणीभूतव्यङ्गयता; ततोऽन्यद्रसभावादितास्पयरहितं व्यङ्गयार्थविशेषप्रकाशनशक्तिशून्यं च काव्यं केवलवाच्यवाचकवैचित्र्यमात्राश्रयण उपनिवद्धमालेख्यप्रख्यं यदाभासते, तचित्रम् , तथ द्विविधम् , इति ध्वनिकृतव अग्रिमकारिकया व्यवस्थापितम्-“ चित्रं शब्दार्थभेदेन द्विविध च व्यवस्थितम् । तत्र किश्चिच्छब्दचित्रं वाच्यचित्रमतः परम् ॥” इति । तत्र, किञ्चिच्छब्दचित्रं यथा दुष्करयमकादि, वाच्यचित्रम् अतः शब्दचित्रादन्यत् व्याथार्थसंस्पर्शरहितं प्राधान्येन वाक्यार्थतया स्थितं रसादितात्पर्य्यरहितमुत्प्रेक्षादि । अथ किमिदं चित्रं नाम ! यत्र न व्यङ्गयार्थसंस्पर्शः । तत्र, यत्र वस्तु अलङ्कारान्तरं वा व्यङ्गथं नास्ति स नाम चित्रस्य कल्प्यतां विषयः । यत्र तु रसादीनामविषयत्वं स काव्यप्रकारो न सम्भवत्येव, यस्मादवस्तुसंस्पर्शिता काव्यस्य नोत्पद्यते । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य चाशत्वं प्रतिपद्यते विभावत्वेन चित्तवृत्तिविशेषा हि रसादयः । न च तदस्ति वस्तु किञ्चित् यत्न चित्तवृत्तिविशेषमुपजनयति, तदनुत्पादने वा कविविषयतैव तस्य न स्यात् । कविविषयश्च कश्चिनिरूप्यते । अत्रोच्यते, सत्यम् । न ताहक काव्यप्रकारोऽस्ति यत्र रसादीनामविप्रतिपत्तिः, किन्तु, यदा रसभावादिविवक्षाशून्यः कविः शब्दालङ्कारमालकारं वा उपनिबध्नाति तदा तद्विवक्षाऽपेक्षया रसादिशून्यताऽर्थस्य परिकहप्यते । विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः, वाच्यसागर्यवशेन च कविविवक्षाविरहेऽपि तथाविधे विषये रसादिप्रतीतिर्भवन्ती परिदुर्यला भवतीत्यनेनापि प्रकारण नीरसत्वं परिकलय चित्रविषयो व्यवस्थाप्यते, तदिदमुच्यते" रसभावादिविषयविवक्षाविरहे सति । अलङ्कारनिवन्धो यः स चित्रविषयो मतः ॥ रसादिषु विवक्षा तु स्यात्तात्प. यवती यदा । तदा नास्त्येव तत्काव्य ध्वनेयत्र न गोचरः ॥” इति । एतेन-तृतीयकाव्यभेदं प्रत्याचक्षाणस्य ग्रन्थकृती मतं न सहृदयहृदयमधिरोहति ।" इत्यादि, सर्वमेतत् प्रागल्भ्योज्जम्भितम् । कथमन्यथा तत्र ध्वनिकृतैव-":एतच चित्रं कवीनां विशृङ्खलगिरां रसादितात्पर्यमनपश्चैव काव्यप्रवृत्तिदर्शनादस्माभिः परिकल्पितम् । इदानीन्तनानां तु न्याय्ये काव्यनयव्यवस्थापने क्रियमाणे नास्त्येव ध्वनिव्यतिरिक्तः काव्यप्रकारः । यतः परिपाकवता ( सहृदयानां ) कवीनां रसादितात्पर्य्यविरहे व्यापार एव न शोभते। रसादितात्पर्य्य च नास्त्येव तद्वस्तु यदभिमतरसाङ्गतां नीयमानं न प्रगुणीभवति ।" इत्यादि प्रतिपादितं सङ्गच्छेत ? को वाऽनुन्मत्तः सन् 'काव्यस्यात्मा ध्वनिरिति प्रतिपाद्य "शब्दचित्रं वाच्यचित्रं च काव्य"मिति प्रतिपादयन् 'रसादितात्पर्यविवक्षाविरहे' इत्यादि प्रतिपादयेत् । वस्तु. तस्तु-तथा सति काव्यजावातावासत्वम्, कथं पुनश्चित्रं काव्यम् इति वुकता लज्जाऽभाव इत्येव चित्रम्
एवमवान्तरं प्रकृतं समापयन्नाह-इतीत्यादि ।
इति श्रीविश्वनाथकविराजकृते' इति शेषः । ध्वनिगुणीभूतव्ययाख्यकाव्यभदनिरूपणोध्वनिगुणीभू. ताख्यौ यो काव्यभेदौ तयोनिरूपणं यत्र । तादृशः । नाम | चतुर्थः। परिच्छेदः। 'समाप्तः' इति शेषः ।
सहृदयानुभवैककलेवरं सकलतापनिवारणभेषजम् ।
सुकृतिदिथ्यविभूतिनिदर्शनं स्मरति तं रतितन्त्रमय न कः। इति श्रीशिवनाथसूरिसूनुना कविरत्नेन थ्रीशिवदत्तशर्मणा रचितायां रुचिराऽऽख्यायां
साहित्यदर्पणव्याख्यायां चतुर्थः परिच्छेदः समाप्तः ।