________________
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । केचित् चित्राख्यमपि तृतीयं काव्यभेदमिच्छन्ति । यदाहुः"शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ।'' इति ।
तन्न । यदि हि अव्यङ्गयत्वेन व्यङ्गयाभावः तदा ! तस्य काव्यत्वमपि नास्तीति प्रागेवोक्तम् , ईषव्यङ्गयमिति चेत् ! किनाम ईषद्वयङ्गयत्वम् ? आस्वाद्यव्यङ्गयत्वम् ! अनास्वाद्यव्यङ्ग्यत्वं वा!! आये प्राचीनभेदयोरेवान्तःपातः, द्वितीये त्वकाव्यत्वम्, यदि च आस्वाद्यत्वं तदाऽक्षु. द्रत्वमेव, क्षुद्रतायामनास्वाद्यत्वात् ।
लन्धमानाः । पादशब्दश्च पूज्यत्वादिप्रत्यायनार्थः । 'एकत्वं न प्रयुञ्जीत गुरावात्मनि चेश्वरे । उत्तमानां स्वरूपं तु पादशब्देन पठ्यते ॥' इत्यभियुक्तोक्तेः । 'चण्डिदासे'ति पाठे तु 'कालिदासे' त्यादिवत् क्वचित्सञ्ज्ञायां हस्खत्वमपीत्याश्रित्य समाधेयम् । तत् । उक्तम् ।“ अखण्डबुद्धिवेद्यस्याखण्डा वासनान्तरेणाविच्छिन्ना या बुद्धिस्तया वेद्योऽनुभाव्यस्तस्य । काव्यार्थस्य रसादेः । तन्मयीभावेन तदभिन्नप्रमातृप्रमेयत्वानध्यवसायीभावेन । आस्वाददशायां तत्तत्स्वरूपानुभवावसरे । गुणप्रधानभावावभासो गुणत्वप्रधानत्वाभ्यां प्रत्यय इति भावः । तावत् याथार्थेन । न। अनुभूयतेऽनुभवगोचरो विधातुं शक्यते । कालान्तरे आस्वादप्रत्ययनिवृत्त्यनन्तरमिति भावः । तु। प्रकरणादिपालोचनया प्रकरणादेः पालोचना मीमांसा तया तद्वारेति यावत् । भवन विद्यमानः । अपि । असौ गुणप्रधामभावः । काम्यव्यपदेशं ध्वनिकाव्यमिदं गुणीभूतव्यङ्गयकाव्यमिदमित्येवं काव्यभेदप्रत्यायिकी सज्ञाम् । न । व्याहन्तुम् । ईशः समर्थो भवति । कुत इत्याह-तस्य काव्यव्यपदेशस्य । आस्वादमात्रायत्तत्वादावादमात्राधीनत्वात् । अयम्भावः-आस्वादानुभवदशायां यादृशो गुणप्रधानभावो यस्य प्रतीतः, तदनन्तरं प्रकरणादिपालोचलनयाऽन्यथा प्रतीयमानोऽप्यसौ न तमन्यथाकर्तुं शक्नोति, तस्यैव ज्यायस्त्वात् प्रमाणकोटौ। तथा च-अनन्तरो. दाहृते पद्ये आखादयाथाऽत्म्यानुभवावसरे गुणीभूतव्यङ्गयतया कृतः प्रत्यय एव तदनन्तरमपि तथाभूतः।" इति बोध्यम् । इति।
सिंहनिरीक्षणनयेन काव्यस्य रसात्मकवाक्यतामात्रं पुनः स्थापयितुं प्रकाशकारादिमतं पालोचतेकेचिदित्यादिना।
केचित् काव्यप्रकाशकारादयः । चित्राख्यं चित्रसज्ञकमित्यर्थः । अपि । तृतीयम् । काव्यभेदम् । इच्छन्ति स्वीकुर्वन्ति । यत् । आहः । 'ते' इति शेषः । “अव्ययं न नास्ति ईषद्वा व्यङ्गयं रसादि यत्र तादृशम् । त। शब्दचित्रम् । वाच्यचित्रम् । 'चेति द्विविध मिति शेषः । अवरं तृतीय काव्यम् । स्मृतम् ।" इति । तत् । न 'सङ्गच्छते' इति शेषः । हि यतः । यदि । अव्यङ्यत्वेन 'अव्यङ्गय मिति विशेषणविशिष्टत्वेनेति भावः । व्यङ्गयाभावो रसादिमत्त्वाभावः 'विवक्ष्यते' इति शेषः । तदा । तस्याव्यङ्गयस्य । काव्यत्वम् । अपि । न । अस्ति । इति । प्राक् काव्यलक्षणसमीक्षणावसरे इत्यर्थः । एव । उक्तम् । ईषद्व्यङ्गयमीषत् किञ्चित् व्यङ्गयं यत्र तदित्यर्थः । 'विवक्ष्यते' इति शेषः । इति । चेत् । 'तर्हि पृच्छयते' इति शेषः । किन्नाम । ईषव्यङ्गयत्वम् ? आस्वाद्यव्यङ्ग्यत्वं रसादिस्फूर्तिमद् व्यङ्गयशालित्वम् । वा अथवा । अनास्वाद्यव्यङ्ग्यत्वं रसादिस्फूर्तिशून्यव्यङ्ग्यवत्त्वम् । 'ईषद्व्यनाथत्वं विवक्ष्यते' इति शेषः । एवं विकल्प्य क्रमादुत्तरयति-आद्ये 'आसाद्यव्यङ्गयमीषव्यङ्गय तदेव काव्यम्' इति मते इत्यर्थः । प्राचीनभेदयोर्ध्वनिगुणीभूतव्यङ्गयाख्ययोर्भेदयोरित्यर्थः । एव । अन्तः पातः। द्वितीये अनास्वाद्यव्यङ्गयमीषद्वयङ्गथम् , तत् काव्यमिति स्वीकारे इत्यर्थः । तु । अका. व्यत्वम् । आद्येऽनुपपत्त्यन्तरमाह-यदि । च । आस्वाद्यरवम् 'व्यङ्गयस्थे'ति शेषः । तदा। अक्षुद्रत्वम् एव । शुद्रतायामीषत्तायामित्यर्थः । अनास्वाद्यत्वात् । एवं च-व्यङ्गयस्यास्वाद्यत्वाङ्गीकारे क्षुद्रताया असम्भवात् , अनास्त्राद्यत्वाङ्गीकारे काव्यताया असम्भवाच्च ईषव्यङ्गयमव्यङ्गयं तच्च शब्दचित्रवाच्यत्वाभ्यां द्विविधं चित्रप्रभेदं काव्यमित्येतत्सर्वं क्षुद्रमिति निष्कृष्टोऽर्थः ।
४८