________________
साहित्यदर्पणः ।
[ चतुर्थ:तदुक्तं तेनैव
"प्रकारोऽयं गुणीभूतव्यङ्गयोऽपि ध्वनिरूपताम् ।
धत्ते रसादितात्पर्यपालोचनया पुनः॥” इति । यत्र तु
“यत्रोन्मदानां प्रमदाजनानामभ्रंलिहणोणमणीमयूखः ।
सन्ध्याभ्रमं प्राप्नुषतामकाण्डेऽप्यनङ्गनेपथ्यविधिं विधत्ते ॥२१७॥" इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेऽङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वेऽपि तैरेष गुणीभूतैः काव्यव्यवहारः ।।
तदुक्तमस्मत्सगोत्रकविपण्डितमुख्यश्रीचण्डीदासपादैः-"काव्यार्थस्याखण्डबुद्धिवेद्यस्य तन्म. यीभावे आस्वाददशायां गुणप्रधानभावावभासस्तावनानुभूयते, कालान्तरे तु प्रकरणादिपालोचनया भवन्नप्यसौ न काव्यव्यपदेशं व्याहन्तुमीशः, तस्यास्वादमात्रायत्तत्वात् इति ।
तदेव ध्वनिकारसम्मत्या समर्थयते--तत् 'यदस्माभिरुक्त मिति शेषः । तेन ध्वनि कृतेत्यर्थः । एव । उक्तम् । किमित्याह
"अयम् । गुणीभूतव्यङ्यः । प्रकारो भदः 'काव्यस्येति शेषः । अपि 'किम्पुनरगुणीभूतव्यङ्गयात्मा प्रकार इति शेषः । रसादितात्पर्यपालोचनया रसादौ यत्तात्पर्य तस्य पालोचनाऽनुसन्धान तथा । पुनः । ध्वनिरूपताम् अगुणीभूतव्यङ्गयताम् धत्ते । अयम्भावः-यथा-"प्रयच्छताच्चैः कुमुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।न किन्निदूचे चरणन केवलं लिलख बापाकुललोचना भुवम् ॥” इत्यादौ 'न किञ्चिदूचे'इत्यादिना व्यङ्गयस्यार्थस्यात्या गुणीभावोऽपि नायिकानायकयोरनुरागातिशयमुपजीव्य व्यज्यमानं शृक्षारमादाय वनिकाव्यलम् । ग्रथा ता'अयं स रसनोत्कर्षी त्यादी शृङ्गारमादाय गुणीभावः, करुणमादाय वनिकाव्यत्वम् । तथा सर्वत्र रसादिप्राधान्ये व्यायान्नारमादाय गुणीभावेऽपि न तस्य गुणीभूतव्यायव्यपदेशात्वम् । इति ।
ननु सर्वत्रैवं निवर्त्ततां नामास्य गुणीभूतव्यङ्गयत्वमित्याशङ्कयाह-यत्र त्वित्यादि। यत्र यस्मिन् । तु
'यत्र यस्यां नगामित्यर्थः । अनंलिहो गगनस्पी अत्युद्गत इति यावत् । शोणमणीमखः शाणाय. मण्यो मणयो रत्नानीति यावत् तासां मयूखः । 'कृदिकारादक्तिन: ।' इति गणसूत्रेण मणिशब्दात् डीषु । उन्मदानां प्रमत्तानाम् । अकाण्डेऽसमये । अपि । सन्ध्याभ्रमम् । प्राप्नुवतां लब्धवताम् । प्रमदाजनानाम् । अनङ्गनेपथ्यविधिमनङ्गः कामस्तस्य नेपथ्यं तद्वर्धको वेषस्तस्य विधिविधानं तम् । विधत्ते सम्पादयति । अत्र टिप्पणीकारा:अत्र शास्त्रसिद्धमपि कर्तुरेकवचनं किमपि अरुचिबीजं सहृदयहदयेष्वाकुरयतीति त एवात्र प्रमाणम् ,' एवं चा: 'शाणमणिप्रकाशः' इति पठनीयम् , अथवा-'यत्रीन्मदानां प्रमदाजनानामभ्रंलिहा विद्रुमवेश्मभासः । सन्ध्याश्रमं प्राप्नुवतामकाले. ऽयुलासयन्ति स्मरवेषलीलाम् ॥ इति । अत्राणि लिहन्तीत्यभ्रंलिहाः । 'वहाभ्रेलिहः ।' ३।२।३२ इनि खश । गगन. एश इत्यर्थः ।' इत्याहुः । 'सा नगरी ति शेषः । उपजातिश्छन्दः ॥ २१७ ॥"
इत्यादौ । रसादीनाम् । नगरीवृत्तान्तादिवस्तुमात्रे । अङ्गत्वमप्रधानत्वम् । नगरीवृत्तान्तादिरूप. परतुमात्रे प्रधानभूते रसादीनामप्राधान्यमित्यर्थः । तत्र 'अत्रे'ति शेषः । तेषां रसादीनाम् । अतात्पर्यविषयले तात्पर्य्यविषयत्वाभावे । अपि । तैः रसादिभिरित्यर्थः । एव । गुणीभूतैः । ' कृत इति शेषः । काव्यव्यवहारः । अयम्भावः-अत्र हि नगरीवर्णने प्रक्रान्ते चरमपादेन स्फुरता शृङ्गारानुभावादीनां तत्रानुपयोगिनामपि न प्रधानव्यपदेशा. हत्वम् , एषां चमत्कारस्य तन्मुखमात्रप्रेक्षित्वात् । अतो रसादेरपि व्यपेक्षया सर्वत्र ध्वनिकाव्यत्वमङ्गीकार्य्यम् । अन एवोक्तं ध्वनिकृता-"प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते । विधातव्या सहृदयन तत्र वनियोजना ॥'इनि ।
उक्तमर्थ प्राचां सम्मत्या समर्थयते-तदुक्तमित्यादिना।
अस्मत्सगोत्रकविपण्डितमुख्यश्रीचण्डीदासपादैरस्माकं सगोत्राः कविपण्डितेषु मुख्याश्च तं श्रीचण्डीदासपादासः । समानं गोत्रं येषां ते सगोत्राः, कवयः काव्यनिर्माणपटवः आलङ्कारिकावा, पण्डिता ब्रह्मविदस्तेषु मुख्या