________________
परिच्छेदः ]
यथा
रुचिराख्यया व्याख्यया समेतः ।
"दृष्टया केशव ! गोपरागहतया किञ्चिन्न दृष्टं मया, तेनेह स्खलिताsस्मि नाथ ! पतितां किन्नाम नालम्बसे ? एकस्त्वं विषमेषु (-) खिन्नमनसां सर्वाबलानां गतिगोप्यैवं गदितः खलेशमवताङ्गोष्ठे हरिर्वश्विरम् ॥ २१६ ॥ "
३७५
इत्यत्र गोपरागादिशब्दानां 'गोपे राग' इत्यादिव्यङ्ग्यार्थानां 'सलेश' मिति पदेन स्फुटतया - वभासः, 'सलेश' मिति पदस्य परित्यागे हि ध्वनिरेव ।
किश्व-यत्र वस्त्वलङ्काररसादिरूपव्ययानां रसाभ्यन्तरे गुणीभावः तत्र प्रधानकृत एव काव्यव्यवहारः ।
उदाहरति यथा । " दृष्ट्या " इत्यत्र ।
" हे केशव कृष्ण ! गोपरागतया गवां परागा धूलयस्तैर्हता विनष्टा स्वकाय्र्यक्षमत्वतश्चाविति यावत् तया तथाभूतां । (गोप त्वयि यो रागोऽनुरागस्तेन हतयेति तु गोपितोऽर्थः ) । दृष्टया दर्शनेन ( विचारेणेति तु गोपितोऽर्थः ) । किञ्चित् प्रस्तरादिकमिति शेषः ( परत्वादिकं धर्म्मविरुद्धाचरणादिजन्यप्रत्यवायादीति तु गोपनार्थम् ) । न । मया । दृष्टम् ( विचारितमिति गोपितोऽर्थः । तेन निरुक्तेन हेतुना । इहास्मिन् प्रस्तरादिदेश इति भाव: ( अस्मिंस्त्वयि ' प्रवृद्धमन्मथतयेति शेषः । ' इति गोपनीयोऽर्थः ) । हे नाथ रक्षक ! स्खलिता पतिता ( च्युतधैय्यैति गोपनीयोऽर्थः ) । अस्ति । अतः - पतितां प्रस्तरादिदेशे च्युताम् ( त्वयि चलितचित्ततया वा भ्रष्टाम् उपभोक्तुमर्हतां वा प्रतिपाद्य शयितामिति गोपनीयोऽर्थः ) । ' मा ' मिति शेषः । किन्नाम । न । आलम्बसे उद्धरसि करावलम्बदानेन रक्षसीति यावत् (स्वकीयां मत्वा कृतार्थयसे इति गोपितोऽर्थः ) । ननु किमहमेव रक्षिताऽस्मि तदन्यमाश्रयमित्याशङ्कयाह - विषमेषु सङ्कटेषु । खिन्नमनसा मुद्विग्नानाम् ( विषमेषुः पञ्चशरः काम इति यावत् तेन खिनं मनो यासां तादृशीनामिति गोपनीयोऽर्थ : ) । सर्वाबलानां सर्वेषां निर्बलानाम् ( सर्वासां सुन्दरीणामिति पितोऽर्थः ) । एकोऽनन्यः । त्वम् । गतिराधयः । एवम् । सलेशं लेशोऽशोऽभिप्रायाविष्करणार्थं सूक्ष्ममीहितमिति यावत् तेन सहिता यत्र तद् यथा भवेत्तथा । गोप्या । गदितः कथितः । गोष्ठे गोमण्डले ' स्थित ' इति शेषः । हरिः । चिरम् । वो युष्मान् । अवतात् रक्षतु । अत्र ' सर्वाबलानाम् ' इत्यंशे सर्वशब्दस्य गुणीभावेऽपि श्लेषोपकारितया नाविमृष्टविधेयांशतामावहतीत्यस्यानित्यदोषत्वमिति बोध्यम् । शार्दूलविक्रीडितं वृत्तम् ॥ २१६ ॥ ”
लक्ष्यं सङ्गमयति- इत्यत्रेत्यादिना ।
इत्यत्र । 'गोपरागादिशब्दानाम् । आदिना - दृष्ट्यादिपदानां ग्रहणम् । 'गोपे राग' इत्यादिव्ययार्थानाम् |' आदिना ' विचारित ' मित्याद्यर्थानां ग्रहणम् । ' सलेश' मितिपदेन ( साधने तृतीयेयम् ) । स्फुटतया । अवभासः । अतः क्षौमान्तरितकामिनीकुचकलशयुगलस्येव व्यङ्गयस्य गूढत्वमपेक्षितमपि निवत्तमिति न ध्वनिव्यपदेश्यत्वमेतस्येति भावः । तदेव युक्त्या समर्थयते - हि यतः । ' सलेश ' मितिपदस्य | परित्यागे ' कृते सती 'ति शेषः । ध्वनिः । एव । तथा च - ' गोप्येवं गदितः समुद्धृतिपरः पायाश्चिरं वो हारः । ' इति पठनी - यमिति भावः ।
एवं गुणीभूतव्यङ्गष्वपि यत्र रसादितात्पर्यपर्यालोचनेन काव्यत्वं तद्धनिरूपमेवेत्याह- किञ्चेत्यादिना ।
किञ्च वक्तव्यान्तरमस्त्येति भावः । किं तदित्याह - यत्र यस्मिन् । रसाभ्यन्तरे । रसे वस्त्वलङ्काररसादिरूपव्यङ्गानाम् । गुणीभावः । तत्र । प्रधानकृतः प्रधानेन यत्र वस्त्वादीनां गुणीभावस्तेन रसेन कृतः । एव 'न तु गुणीभूतव्यङ्गयवस्त्वादिकृत' इति शेषः । काव्यव्यवहारः । अयम्भावः -प्रधाने रसेऽङ्गभूतादेवस्त्वलङ्कारादेव गुणीभाव इति रसादीनां गुणीभावमादाय गुणीभूतव्यङ्गयकाव्यत्वं वक्तुमर्हत्वेऽपि 'प्राधान्येन व्यपदेशा भवन्ती' ति न्यायेनः रसस्य प्राधान्यमादाय काव्यस्य प्रधानत्वम् । नहि सागरेऽन्तर्भवतां नदीनदानां गौणत्वमादाय तस्य तुच्छत्वं शक्यते, किन्तु सागरस्य गभीरतामादायागाधत्वमेव । इति ।