________________
... साहित्यदर्पणः । ..
[चतुर्थःकिश्च-यो दीपकतुल्ययोगिताऽऽदिषु उपमाऽऽद्यलङ्कारो व्यङ्ग्यः, स गुणीभूतव्यङ्गय एव, काव्यस्य दीपकादिमुखेनैव चमत्कारविधायित्वात् । तदुक्तं ध्वनिकृता
"अलङ्कारान्तरस्यापि प्रतीतो यत्र भासते।
तत्परत्वं न काव्यस्य नासौ मागोंध्वनेर्मतः॥" यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः।
गमनसम्भावनैव नास्तीति वाच्यम् । गृहकर्मान्तःपातिजलाहरणादिच्छलेनापि तत्सम्भवात, रतेरुपनायकविषयत्वेन विप्रलम्भाभासस्यैव वक्तुमुचितत्वाच ।" इति च ।
एवं गुणीभूतव्यङ्गयस्याष्टौ भेदान् लक्ष्यलक्षणाभ्यां निर्दय गुणीभूतव्यङ्गयत्वमेवमन्यत्रापि निद्रष्टव्यमिति वनिभ्रमसम्भवनिरासपूर्वक निर्देष्टुमुपक्रमते-किश्चेत्यादिना ।
किश्च निरूपणीयान्तरमस्तीति भावः । दीपकतुल्ययोगिताऽऽदिषु तदाख्येष्वलङ्कारेषु। आदिना व्याजस्तुतिसमासोक्त्यादीनां ग्रहणम् । उपमाऽऽद्यलङ्कारः । आदिना श्लेषादीनां ग्रहणम् । यः । व्यङ्गयः। सः । गुणीभू. तव्यङ्गयो गुणीभूतं व्यङ्ग्यं यत्र तादृशः । एव । ननु कोऽत्र हेतुरित्याशङ्कयाह 'काव्यस्य व्यज्यमानोपमाऽऽद्यलङ्कारस्थेति शेषः । दीपकादिमुखेन दीपकादिद्वारा । एव । चमत्कारविधायित्वात् । अयम्भावः-यत्र दीपकादिसद्भावे उपमाऽऽदेर्व्यज्यमानत्वं तत्र दीपकाऽऽद्यन्वयव्यतिरेकानुविधायित्वमिति न व्यज्यमानस्याप्युपमादेश्चमत्कारका. रित्वे प्राधान्यम्, किन्तु दीपकादेरेव । इति ।
उक्तमथ ध्वनिकारसम्मत्या समर्थयते-तदक्तमित्यादिना । तत् 'यत्प्रागुक्त' मिति शेषः । ध्वनिकृता वनिमार्गस्थापकाचाय॑णानन्दवर्धनेनेत्यर्थः। उक्तम् । किमित्याह
"अलङ्कारान्तरस्यान्यो वाच्याद्भिन्नोऽलकार इति तस्य । यत्र यस्याम् । प्रतीतौ कथमपि व्यक्तौ 'सत्या' मिति शेषः । अपि 'किं पुनरसत्या'मिति शेषः । काव्यस्य । तत्परत्वं तस्मिन् प्रतीयमानेऽलङ्कारे परः कृतनिष्ट. स्तस्य भावस्तत्त्वम् । न | भासते प्रकाशते । असौ स इत्यर्थः । ध्वनेः । मार्गो विषयः । । मतः। अयम्भाव:दीपकादौ या ह्यपमाऽऽदेः प्रतीतिस्तत्र यदि प्रकृतस्य काव्यस्य चारुत्वापादनौन्मुख्यं न प्रत्यवतिष्ठेत तन्न ध्वनिः: किन्तु व्यङ्गयस्य गुणीभाव एव । अत एवोक्तं चनिकृता "तथा च दीपकादावलङ्कारे उपमाया गम्यमानत्वेऽपि तत्परत्वेन चारुत्वस्याव्यवस्थानान्न ध्वनिव्यपदेशः । यथा-"चंदमऊएहिं णिसा णालिणीकमलेहिं कुसुमगुच्छेहिं लआ। हंसेहिं सर. असोहा कव्वकहा सज्जणेहिं करइ गुरुद ॥” इति ।" यथा वाऽस्यैव च्छायाभूते-"रजनी हिमकरकिरणविंसिनी नलिने. स्तरङ्गिणी सलिलैः । वल्ली कुसुमस्तबकैः काव्यकथा भूष्यते सुजनैः ॥” इत्यादौ तुल्ययोगिताऽऽदौ उपमाऽऽदे: प्रती. यमानस्यापि वाच्यालङ्कार ( तुल्ययोगिताऽऽदि ) द्वारेणैव चारुत्वमिति न तस्य ध्वनिव्यपदेश्यत्वम् । इति दिक् ।
प्रकारान्तरेण व्ययस्य वाच्यापेक्षया न्यग्भावं लक्षयितुमाह-यत्रेत्यादि।
यत्र यस्मिन् काव्ये । च । गोपनकृतचारुत्वस्य गोपनेन 'यथैः पदैः पिशुनयेच रहस्यवस्तु ।' इत्युक्तदिशा द्वयर्थैः पदैरभिधानेन कृतं यच्चारुत्वं चमत्कारस्तस्य। शब्दान्तरादिना शब्दान्तरं विजातीयः शब्दस्तदादिना । आदिपदं च तद्विजातीयेगिताऽऽदिबोधकम् । विपर्यासोगोपनीयत्वापाकरणम् । 'तत्रापि गुणीभावों व्यङ्गयस्येति शेषः । ___ १ " चन्द्रमयूखैर्निशा, नलिनी कमलैः, कुसुमगुच्छलता । हंसैः शारदशोभा, काव्यकथा सजनैः क्रियते गुर्वी ॥" इति संस्कृतम् ।