________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
३७३ इत्यत्र प्रतीयमानोऽपि शाक्यमुनेस्तिर्यगयोषिति बलात्कारेणोपभोगः स्फुटतया वाच्यायमान इत्यगूढम्। "वाणीरकुडंगुड्डीणसउणिकोलाहणं सुणतीए । घरकम्मवावडाए बहुए सीति अंगाई ॥ २१५॥"
इत्यत्र 'दत्तसङ्केतः कश्चिल्लतागृह प्रवृष्ट'इति व्यङ्गयात् 'सीदन्त्यगानी'ति वाच्यस्य चम कारः सहृदयसंवेद्य इत्यसुन्दरम् ।
इत्यत्र को व्यङ्गयोऽर्थः स्फुट इत्यत आह-इत्यवेत्यादि । स्पष्टम् । यथा वा मम-"अम्माकमेष एको जीवितमेनं विना कथं स्यामः । इत्यनुरक्ता नित्यं स्त्रीपुत्राद्या भवन्ति यत्र म्म॥ सोऽहं तेषां भरणाद्विमुखी विकलेन्द्रियादिसामयः । . तृणतोऽपि तैः परास्तः श्वसिमीति बतास्य वैभवं जगतः ॥” इति । अत्र हि 'जीवन्नपि मृत' इति श्वसिमीति पदेन, 'लोकोऽयं स्वार्थपर'इति च 'बतास्य वैभवं जगत' इत्यनेन च व्यन्यमानोऽथो नितान्तं स्फुटो वाच्यतां पत्ते।
अमन्दरं व्यङ्गयमुदाहरति-“वाणीरे"त्यादिना ।
"वाणीरकुडंगड़ीणसउणिकोलाहलं वानीरकुञ्जोड्डीनशकुनिकोलाहले वानीरा वेतसास्तेषां कुजा गहनस्थानानि तेभ्य उहीना उत्थायाकाशमार्ग उत्पतिता ये शकुनयः पक्षिणस्तेषां कोलाहल: कलकलशब्दस्तम् । 'अध वेतमे। रथाभ्रपुष्पविदुलशीतवानीरवञ्जुलाः ।' इति, निकुञ्जकुजौ वा क्लीबे लताऽदिपिहितोदरे।' इति, 'कोलाहल: कलकलः' इति च नामलिङ्गानुशासनम् । सुणंतीए शृण्वन्त्याः । घरकम्मवावडाए गृहकर्मव्यापृतायाः । बहुए वध्वाः। अंगाई अङ्गानि।सीअंति सीदन्ति विषीदन्तीतियावन् । गृहपार्श्ववर्तिनि वेतसकु दत्तसङ्केतायास्तदुत्पतत्पक्षिकोलाहलतर्कितोपनायकप्रवेशाया गुरुजनपारजन्येण गृहकर्मणि व्यापृताया अत एव तत्र गन्तुं स्पृहायामप्यशन्नुवत्या अवस्थावर्णनमिदम् । मुखविपुला छन्दः । ताक्षणं च यथोक्तम्, “मला गणत्रयमादिमं शकलयाईयोर्भवति पादः । यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥” इति, 'इयं विपुला चपलावन्मुखजघनभेदभिन्ना भवति, प्रथमेऽध मुखविपुला, उत्तरार्धे जघनचपला ।' इति च ॥ २१५ ॥"
कथं व्यङ्गयस्यासुन्दरत्वमित्यपेक्षायामाह-इत्यत्रेत्यादि।
इत्यत्र । 'दत्तसङ्केतो दत्तः सङ्केतो यस्येति तथोक्तः । कश्चित् 'उपनायक'इति शेषः । लतागृहम् । प्रविष्टः।' इति व्यङ्गन्यात तमपेक्ष्येति भावः । 'अङ्गानि गात्राणि । सीदन्ति विषीदन्ति ।' इति । वाच्यस्य । 'विप्रलम्भपरिपोषकत्वादिति शेषः । चमत्कारस्तस्यातिसौन्दर्यादिना मुग्धाया अतीवौत्सुक्यातिपय्यवसायी बोध. विशेषः । सहदयसंवेद्यः सहृदयाः काव्यतत्त्वज्ञास्तत्संवेद्यः । अयम्भाव:-'मया स दत्तसङ्केत आगतः' इति व्यङ्गयम् , तदपेक्षयाच 'तत्कोलाहलश्रवणसमकालमेव नायिकायाः सर्वाङ्गावसादन मिति वाच्यस्य 'तदलाभे नायिकाया अतीवौत्सुक्य. मासी'दित्यत्र पर्यवसायी चमत्कारः सुन्दर इति व्यङ्गयस्य गुणीभूतत्वम् । इति । तथाऽऽहुः 'दत्तसङ्केतः स उपेत'इति व्यङ्गय शरीरावसादस्य विप्रलम्भानुभावभूतस्य वाच्यस्यौत्सुक्यावेगसंबलितानुरागोद्रेकजनितमदनपारतव्यपरश्चमत्कारः सुन्दरः ।' इति । "शकुनिकोलाहलश्रवणेन उपनायकस्य लतागृहप्रवेशानुमानम् , तंतो हर्षावेगौ, ताभ्यामनुरागोद्रेकः । ततो मदनपरवशताप्रतीतिः, एवं च-व्यङ्गयस्य चमत्काराप्रत्यासन्नत्वमेवासुन्दरत्वमिति फलितम् । केचित्तु रसादिवोध. जनने वाच्यसापेक्षत्वमेवासुन्दरत्वम् । इति । व्यङ्गयादिति । इत्यादिव्यङ्गयादित्यर्थः । तथा च वधूश्च न तत्र गतेत्ये. तत्पर्यन्तादित्यर्थः । वध्वा अगमनमेव न केवलं तदीयविप्रलम्भव्यजकम्, किन्तु-शकुनिकोलाहलश्रवणेन सीदन्त्या वध्वा अगमनमिति वाच्याङ्गावसादसहकारेणैव रसव्यञ्जनाया वाच्यमुखनिरीक्षकत्वात्तदपेक्षया न्यूनचमत्कारी।' इति वदन्ति, तन; अङ्गावसादव्यङ्ग्यविषादसहकृतस्यैव वध्वगमनस्य विप्रलम्भव्यञ्जनसम्भवेन वाच्याङ्गावसादमुखनिरीक्षणायोगात्तदानीन्तनगमनाभावसत्त्वेऽपि गमनसम्भावनया विप्रलम्भासम्भवात् । न च 'गृहकर्मव्यापृताया'इत्यनेन गमनाभावनिश्चयेन
..
१ "वानीरकुञ्जोडीनशकुनिकोलाहलं शृण्वन्त्याः । गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥” इति संस्कृतम् । -