________________
३७३ साहित्यदर्पणः।
[ चतुर्थः"ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यश्च वो मित्रमन्यथा दुर्मनायते ॥ २१॥" इत्यत्र 'परशुरामो रक्षःकुलक्षयं करिष्यति' इति व्ययस्य वाच्यस्य च समं प्राधान्यम् । "सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः । अल्लावद्दीननृपतौ न सन्धिर्न च विप्रहः ॥२१३॥"
इत्यत्र अल्लावद्दीनाख्ये नृपतौ दानसामादिमन्तरेण नान्यः प्रशमोपाय इति व्यङ्ग्यं व्युत्पन्नानामपि झटित्यस्फुटम् ।।
"अनेन लोकगुरुणा सतां धर्मोपदेशिना । अहं व्रतवती स्वैरमुक्तेन किमतः परम् ॥२१॥" तुल्यप्राधान्यमुदाहरति-'ब्राह्मणेत्यादिना ।
"ब्राह्मणातिक्रमत्यागो ब्राह्मणानामतिक्रमोऽवमानस्तस्य त्यागोऽनाचरणम् । भवताम् । एव नतु ब्राह्मणानाम् । ब्राह्मणानां हि भूतेर्जामदग्न्ये जीवति स्वतःसिदत्वात् तदर्थ चान्यस्यापेक्षाविरहादिति भावः । भूतये सम्पदेऽस्तु । वो. युष्माक। च। जामदग्न्यो जमदग्निनन्दनः । मित्रं 'महादेवशिष्यत्वेनोभयेषां सतीर्थ्यतया मित्रत्वम् । अन्यथा ब्राह्मणातिकमे । दुर्मनायते झटिति दुर्मना भविष्यतीति भावः । वर्तमानमामीप्ये वर्तमानवद्वा ।' ३।३।१९१ इति भविष्यत्सामीप्ये वर्तमाननिर्देशः । अयम्भावः-ब्राह्मणातिक्रमे भवतामकल्याणम् , भवन्मित्रस्य जामदग्न्यस्य च क्षोभः । ब्राह्मणानतिक्रमे च भवतां कल्याणम् , जामदग्न्यस्य च क्षोभाभावः । इति । महावीरचरितम्येदं पद्यम् । 'रावणमुदिक्ष्य रावणाभात्यम्माल्यवन्तं प्रति परशुरामेण प्रेषिते पत्रे पद्यमिदम् ॥२१२॥"
अत्र कम्य व्यङ्गयस्य कस्य च वाच्यस्य समं प्राधान्यमित्याशङ्कयाह-इत्यत्रेत्यादि ।
इत्यत्र । 'परशुरामः । ब्रामणातिकमे' इति शेषः । रक्षःकुलक्षयम । 'क्षत्रफुलक्षयमिवेति शेषः । करिष्यति।' इति । व्यङ्गयस्य । वाच्यस्य 'ब्राह्मणानतिकमो युष्माकं सम्पतये, जामदग्न्यस्य च युष्माकं मैञ्ये. इति तस्याप्येवमेव प्रमोद' इत्यात्मकस्य । च । समं तुल्यम् । प्राधान्यम् । अयम्भावः 'परशुरामो ब्राह्मणातिको क्षत्रियाणामिव रक्षसामपि क्षयं करिष्यतीति दण्डरूपं व्यायमिव ब्राह्मणातिकमे युष्माकं मित्रं परशुरामो दुर्मनायते । ब्राह्मणानतिकमे च युष्माकं सम्पत्ति'रिति सामरूपं वाच्यमपि 'अन्यथा दुर्मनायत इति गगीरोनया प्रधानम, विषह. मत्स-धेरपि अनर्थनिवारकतया विवक्षितत्वाच । इत्येतयोः समं प्राधान्यम् । इति ।
अस्फुटं व्यङ्गयमुदाहरति- “सन्धा"वित्यादिना ।
"सन्धौ ‘कर्तव्य इति शेषः । सर्वस्वहरणम् । विग्रहे युद्धे 'कर्तव्य इति शेषः । प्राणनिग्रहः प्राणानां निग्रहो दण्डः । अतः-अल्लावद्दीननपती (विषये सप्तमीयम् )। सन्धिर्मेलनोपायः । न 'सम्भवतीति शेषः । विग्रहो युद्धम् । च । न । अल्लावद्दीनाख्यस्य यवनेन्द्रस्य स्तुतिरियम् ॥ २१३ ॥
व्यङ्गयस्यास्फुटता दर्शयति-इत्यत्रेत्यादिना ।
इत्यत्र । अल्लावहीनाख्ये । नृपतौ । दानसामादिम् । आदिना शुभ्रूपाया ग्रहणम् । अन्तरेण विना । अन्यः। प्रशमोपायः कोपशान्त्युपाय इत्यर्थः न । इति । व्ययम् । व्युत्पन्नानां सहदयानाम् । अपि । झटिति । अस्फुटन स्कुटम् । अयम्भाव:-अलावद्दीनेन सन्धिविग्रहावुभावपि न युक्ताविति वाच्येन व्यज्यमानं 'दानाद्येव युक्त'मिति न स्फुटम् , तस्य हेतोः 'न कथमपि तस्य कुपितस्य कोपोपशमोपाय'इत्येवं प्रत्यायने स्फुटमुपपत्तेः । इति ।
अगूढं व्यायमुदाहरति-अनेनेत्यादिना।
"सतां महताम् । धर्मोपदेशिना धर्मोपदेशकेन । अत एव-लोकगुरुणा। लोकस्य जगतो गुरुरधर्मतो निवर्तकत्वेनाज्ञाननिवर्तकत्वेन वाऽऽचार्य्यस्तत्त्वेन ख्यातस्तथोक्तेन । अनेन । 'तिर्यग्योषिद्धलादुपभुज्यते स्मेति शेषः । ननु त्वया कि नासौ तदा प्रबोधित इत्यत आह-अहं तस्य गृहिणीत्यर्थः । व्रतवती पतिव्रता तदनुकूलत्वाचरणनियमपरेति यावत् । अतो न किमपि वक्तुं क्षमेत्याह-अतः । परम् । स्वैरं यथेष्टमुच्चारति यावत् । उक्तेन कथनेन । भावे क्तः । किम् । न किमपि फलमिति भावः । शाक्यमुनि तिर्यग्योषितमुपगतवन्तमसहमानातस्यात्पन्या उक्तिरियम् । अतोऽत्र प्रकरणद्वयङ्गयोऽर्थो वाच्यायते ॥२१४॥"