________________
offerrer व्याख्या समेतः ।
"जनस्थाने भ्रान्तं कनक मृगतृष्णाऽन्धित धिया, वो वै देहीति प्रतिपदमुदश्रु प्रलपितम् । कृताऽलङ्का (S) भर्त्तुर्वदनपरिपाटीषु घटना, मयाऽऽ रामत्वं कुशलवसुता न त्वधिगता ॥ २०८ ॥ "
इत्यत्र रामश्वं प्राप्तम् इत्यवचनेऽपि शब्दशक्तेरेव रामत्वमवगम्यते । वचनेन तुसादृश्यहेतु कतादात्म्यारोपणमाविष्कुर्वता तद्रोपनमपाकृतम् । तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयागतां नीतम् ।
परिच्छेदः )
३६९
राजविषयकरतेरङ्गम् । “ अविरलकरवालकम्पनैर्भुकुटीनर्त्तनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥ " इति अत्र हि वैरिगतस्य गर्वापरपर्यायस्य मदभावस्य शान्तिः कविनिष्टायां राजविषयकरतावङ्गम् । यथा वा-" साकं कुरङ्गकदृशा मधुपानलीलाः कर्तु सुहृद्भिरपि वैरिणि ते प्रवृत्ते । अन्याभिधायि तव नाम विभो ! गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥” इति, अत्र हि विषमावस्थानव्यङ्ग्यस्य त्रासभावस्योदयो राजविषयकरतेरङ्गम् । यथा वा - " असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विस्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात् कपटवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥ " इति, अत्र हि आवेगधैर्ययोस्त्वरापदशैथिल्यपदव्य
यो महादेवनिष्ठयोः सन्धिः कविनिष्टाया महादेवविषयिण्या रतेरङ्गम् । यथा वा-" पश्येत् कश्चिच्चलचपल ! रे ! का स्वरा ! Sहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः कासि यासि । इत्थं पृथ्वीपरिवृढ ! भवद्विद्विषोऽरण्यवृत्तेः कन्या कञ्चित् फलकिसलयान्यादधानाऽभिधत्ते ॥” इति, अत्र हि ' पश्येत् कश्चिदित्यनेन शङ्कायाः, 'चल चपल !' इत्यनेना सूयायाः, ' का त्वरा' इत्यनेन धृतेः, ' अहं कुमारी ' इत्यनेन स्मृतेः, 'हस्तालम्बं वितरे' त्यनेन श्रमस्य, 'हहह त्यनेन दैन्यस्य, 'व्युत्क्रमः ' इत्यनेन विबोधस्य, 'क्कासि यासि' इत्यनेन औत्सुक्यस्य च व्यज्यमानस्य शलता विनि नृपतिविषयके रतिभावेऽङ्गम् । इति ।
एवं रसादेरभूतत्वेन व्ययस्य गुणीभूतत्वमुदाहत्य वाच्यार्थस्यानभूतत्वेनापि व्ययस्य गुणीभाव शतराजव्यपदेशा है इति सूनयन्नुदाहरति-जनस्थाने.." इत्यादि ।
"जनस्थाने जनानां स्थानं ग्रामनगरादि, तत्र ( दण्डकारण्ये इति तुष्टोऽर्थ ) कनकमृगतृष्णाऽस्थित धिया कनकस्य सुवर्णस्य मृगतृष्णा निष्फलाऽऽशा तयाऽन्विता अन्धभूता या धीतया यद्वा-अमिता धीर्यस्तेन - 'भयेति शेषः ( कनकमृगस्य तृष्णा लाभेच्छा तयाऽन्विता धीर्यस्य वातेन तथा वेति तुष्टोऽर्थः ) । भ्रान्तं भ्रमण कृतम् । वै निश्रये । देहि सम्प्रददस्त्र (वेदेहि हे सीते ! इति तु चिषः) । इति । वचः । प्रतिपदम् (इदं क्रियावि शेषणम् ) । उदश्रु उद्गतमश्रु यत्र तद् यथा तथा ( इदमपि क्रियाविशेषणम्) । प्रलपितम् । भर्तुः स्वामिनो धनिन इति यावत् । वदनपरिपाटीषु वदनानि कथनानि प्रार्थननीति यावत् तेषां परिपाण आनुपूर्यस्तासु । का । घटना | अलम् | अनैवेत्यर्थः कृता धनिनः पुरस्तात् प्रार्थनानां सन्तान का न घटना कता ! अपितु सर्वा अपि प्रार्थनाः कृता न तत्र काऽपि त्रुटिर्विहितति भावः । यद्वा-काभर्त्तुरीषद्धर्तेति काभर्त्ता तस्य । 'ईषदर्थे ।' ६ । ३ । १०५ इति कादेशः वदनपरिपाटीपु वदनानि कथनानि प्रार्थनानि तेषां परिपाव्यस्तास्विति पूर्ववत् । घटना समर्थनार्थी युक्तिः । अलम् कृता । यद्वा-लङ्कानां कुलटानां नतु दीनानां भर्त्ता पोषकस्तादृशस्य | 'लका रक्षःपुरी शाखाशाकिनी कुलटा व ।' इति मेदिनी । वदनपरिपाटीपु स्तवनपरम्परासु । घटना कृता ('लङ्काभर्तुः रावणस्य वदनपरिपाटीपु घटना मस्तकानुसम्पात घटनेत तु लिष्टोऽर्थः ) । इत्थम् - मया । रामत्वं रामधत्तम् । आप्तं प्राप्तं लब्धमिति यावत् । तु किन्तु । कुशलवसुता कुशलं निपुणं स्वकुटुम्ब परिपोषणोपयोगीति यावत् वसु धनं यस्य तस्य भावस्तत्ता ( कुशलचौ खुतौ यस्यास्तया सदृशी सीतेत्यर्थस्तु श्लिष्टः) । न । अधिगता लब्धा । अत्र श्लेषोपस्थितानां जनस्थानादिपदार्थानामभेदा रोपाद्रामत्वोपपत्तिया । नानायत्नोत्तरमप्यलब्धधनस्य कंवरुक्तिरियम् । भट्टवाचस्पतेः पद्यमिदम् । शिखरिणीवृत्तम् ॥ २०८ ॥
उदाहरणं सङ्गमयति-- इत्यत्रेत्यादिना ।
इत्यत्रेत्यस्मिन्नुदाहृते इति यावत् । ' रामस्वं रामधर्मः । प्राप्तम् ।' इत्यवश्वने इति कथनाभावे ।
४७