________________
साहित्यदर्पणः।
[चतुर्थ:
काकाक्षिप्तं यथा"मथ्नामि कौरवशतं समरे न कोपाद्, दुःशासनस्य रुधिर न पियाम्युरस्तः । सऊचूर्णयामि गदया न सुयोधनोरू सन्धि करोतु नृपतिर्भवतां पणेन ।।२०२॥" इत्यत्र ‘मथ्नाम्येव ' इत्यादि व्यङ्गयं वाच्यस्य निषेधस्य सहभावेनैव स्थितम् ।
अपि । शब्दशक्तेः शब्दनिवेशसामर्थ्यात् । एव । रामत्वम् । 'कवयितु'रिति शंषः । अवगम्यते बुध्यते । वचनेन'मयाऽऽप्तं रामत्वम्'इति कथनेन । तु पुनः । सादृश्यहेतुकतादात्म्यारोपणं सादृश्यं रामेण सम साधम्य तद्वेतुकं यत् तादात्म्यारोपणं शब्दशक्तिद्वाराऽऽत्मनि वक्तार रामत्वस्यारोपस्तत् । आविष्कुर्वतावाच्यतां नीत्वा वन्यता निवर्त्य च पामरैरपि बोद्धव्यतां नयता। तदोपनं तस्य गोपनं शब्दशक्तिमात्रवेद्यत्वं ध्वन्यत्वमिति यावत् । अपाकृतम् । तेन सादृश्यस्य गोपनापाकरणेन । वाच्यमभिधया प्रतिपाद्यम् । सादृश्यम् । वाक्यार्थान्वयोप. पादकतया वाक्यार्थस्य रामसादृश्यावगमकस्य पदार्थविशेषस्यान्वयोपपादकतासम्बन्धसङ्घटकता तया । अङ्गताम् । नीतम् । अयम्भावः-खस्य रामेण सम साधये प्रतिपाद्यमानं यावत् पादत्रयं व्यञ्जनया बोध्यं सन्नाभिधेयतां गतम् , 'मयाऽऽप्तं रामत्व'मिति वचनेन चाभिधेयतां नीतम् इति तस्य व्यङ्गयस्य वाच्याङ्गत्वम् । एवं च-शब्दशक्तिमूलकानुरणनेन यच्चमत्कारातिशयेनोपमाया ध्वन्यमानत्वं तत् न्यगभूतम् । इति । यथा वा-'आगत्य सम्प्रति वियोग विसंष्टुलाङ्गीमम्भोजिनीं क्वचिदपि क्षपितत्रियामः । एतां प्रसादयति पश्य शनैः प्रभाते तन्वनि ! पादपतनेन सहस्ररश्मिः ॥” इति, अत्र हि विनैवानुनयमपनीतमानां नायिकां प्रति सख्या उपालम्भोत्तौ नायकवृत्तान्तोऽर्थशक्त्या व्यज्यमानो वाच्ये रविकमलिनीवृत्तान्तेऽभिन्नतयाऽऽरोप्यमाण एतस्याङ्गतां गतः । : काकाक्षिप्तमुदाहर्तुमाह-कावेत्यादि ।
काकाक्षिप्तं काका ध्वनिविशेषेणाक्षिप्तं झटिति बोध्यता नीतम् । 'व्यङ्गय मिति प्रकृतम् । यथा-"मथ्नामी"त्यादि।
"समरे सङ्ग्रामे । कोपात् । कौरवशतं कौरवाणां कुरुपुत्राणां दुर्योधनादीनां शतं तत् । न । मध्नामि | दुःशासनस्य । रुधिरम् । उरस्त उरसो वक्षःस्थलं निर्भयेति यावत् । त्यबर्थयं पञ्चमी । न । पिबामि । गदया। सुयोधनोरू सुयोधनस्य दुर्योधनस्योरू जो ते। न । सऊचूर्णयामि। भवतां (नतु मर्मति त्वाक्षिप्तोऽर्थः) । नृपतिः राजा युथिष्ठिर इति यावत् । पणेन इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् । देहि में चतुरो प्रामान् पञ्चमं कश्चिदेव तु ॥' इत्युक्त्योन्नेयेन । सन्धि मैत्री विरोधशान्ति वा । करोतु । वेणीसंहारे सन्धि. श्रवणेन कुपितस्य भीमसेनस्य सहदेवं प्रत्युक्तिरियम् । वसन्ततिलकं वृत्तम् ॥२०९॥" - उदाहृते पद्ये किं व्यङ्गयमित्यपेक्षायामाह-इत्यत्रेत्यादि।
इत्यत्र प्रागुदाहृते पद्ये । 'मध्नामि कौरवशतम्' इति शेषः । एव 'नतु मनामि' इति शेषः ।' इत्यादि । 'आदिना-'पिबाम्येव, सञ्चूर्णयाम्यवे' त्यनयोर्ग्रहणम् । व्यङ्गम् । वाच्यस्य । निषेधस्य 'न मथ्नामी'त्यादिपदार्थभूतस्य मथनादिविषयकप्रतिषेधस्य । सहभावेन एव 'न तु पार्थक्येने' ति शेषः । स्थितम् । अयम्भावः-कुपितस्य भीमसेनस्य प्रतिज्ञात्रयम्, 'दुर्योधनादीन् अहमेव शतसङ्ख्यकान् धार्तराष्ट्रान् निहनिष्यामि' इत्येका, 'दुःशासनस्य वक्षो विदार्य रुधिरं पास्यामी' त्यन्या, 'दुर्योधनस्य जड्धे गदया चूर्णयिष्यामी' ति तृतीया च प्रतिज्ञा । इत्येवं प्रतिज्ञात्रयवतः 'न मथ्नामी' त्यादिः प्रतिज्ञाविरुद्धोक्तिरिति नलि काकुः, तया च काका नमर्थान्तरं प्रतीयमानं 'न मथ्नामीति, न,' 'न पिबामीति, न,' 'न सञ्चूर्णयामीति, न' इति प्रकृतनञर्था. न्वयीत्यभावाभावरूपं 'मथ्नाम्येवे' त्याद्यवधारणं समुन्नीयते । स्फुटं चैवं व्यङ्गयस्य काकाऽऽक्षिप्तत्वम् । आक्षिप्तत्वं नाम झटिति प्रत्याय्यमानत्वम् । तत्सर्वमभिप्रत्यैव कविराजैः 'वाच्यस्य निषेधस्य सहभावेनैव स्थित' मित्युक्तम् । एवकारेण-"तथाभूतां दृष्टा नृपसदसि पाचालतनयां वने व्याधैः सार्धं सचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥” इत्यादौ 'मयि न योग्यः खेदः, कुरुषु तु योग्य' इति इति काका प्रतीयमानस्यार्थस्य व्यवच्छेदः । इति दिक् ।