________________
३६८
साहित्यदर्पणः ।
[ चतुर्थ:
"अयं स रसनोत्कर्षो पीनस्तनविमर्दनः । नाभ्वूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ २०६॥" इत्यत्र शृङ्गारः करुणस्याङ्गम् ।
" मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वत्सैन्यसागररवोद्गतकर्णतापः ।
हाहा कथं नु भवतो रिपुराजधानीप्राखादसन्ततिषु तिष्ठति कामिलोकः २०७॥ " इत्यत्र औत्सुक्यत्रास सन्धिसंस्कृतस्य वरुणस्य राजविषयरतावङ्गभावः ।
“स प्रागनुभूतनाभ्यूरुजघनोत्कर्षणादितत्तच्छृङ्गारावस्थः । अयं दृश्यमानदुरवस्थः । रसनोत्कर्षो रसनायाः उत्कर्षी आकर्षक इति तथोक्तः । उत्कर्षतीत्याकर्षतीत्युत्कर्षी । 'सुप्यजातौ णिनिस्ताच्छील्ये ३।२।७८ इति णिनिः । पीनस्तनविमर्दनः पीनौ पुष्टौ यौ स्तनौ तयोर्विमर्दनो विमर्दकः । नाभ्यूरुजघनस्पर्शी नामिवोरूच जघनं च तानि स्पृशतीति तथोक्तः । नीवीविस्त्रसनो नीव्या नाभितलगतवसनग्रन्थेर्विस्रंसन उन्मोचक: । ' aaaaaaa | मूलद्रव्ये परिपणे' इति हैमः । करः । महाभारते स्त्रीपर्वणि चतुर्विंशेऽध्याये रणभूमौ पतितं भूरिश्रवसः च्छिनं हस्तं गृहीत्वा तत्पत्न्याः प्रलापोऽयम् ॥ २०६ ॥ "
उहाहरणं समर्थयते इत्यत्रेत्यादिना ।
इत्यत्र प्रागुदाहृते ये । शृङ्गारो नायकाश्रयो रतिस्थायिभावको रसः । करुणस्य नायिकाश्रयस्य शांक'स्थायिभावस्य रसस्य । अङ्गम् । अयम्भावः - प्राणप्रियस्य वियोगे युवत्यास्तेन कृतस्य शृङ्गारोचितस्य रसनोत्कर्षणादेः स्मरणं हृदयं विगलयच्छोकावेगं प्रवर्धयतीति शृङ्गारः करुणाङ्गभूतः, रतेः शोकोपकारितया प्रस्तुतत्वान्न शृङ्गारः प्रधानभूततां प्राप्तः, शोकस्य तथा प्रवृद्धत्वात् तत्स्थायिभावकः करुणः पुनः प्रधानतां प्राप्तः । तथा च शृङ्गारमपेक्ष्यास्य गुणीभूतव्यङ्ग्यकाव्यत्वम्, करुणमपेक्ष्य पुनरस्यैव ध्वनिकाव्यत्वम् । इति ।
इतरस्य रसादेरित्यादिपदेन निर्वेदादीनां ग्रहणमिति द्योतयन्नुदाहरति- " मानोन्नतामित्यादि ।
"भो राजन् ! ( इतिसम्बुद्धिपदमूह्यम् ) भवतः । रिपुराजधानीप्रासादसन्ततिषु रिपूणां शत्रूणां राजधान्यो राजनगर्यस्तासु याः प्रासादसन्ततयः प्रासादश्रेणयस्तासु । ' प्रासादो देवभूभुजाम् । इत्यमरः । कामिलोकः कामी जनः । मानोन्नतां मानेनाग्रहेण उन्नतोद्धता ताम् । प्रणयिनीम् प्रियाम् । अनुनेतुकामः प्रसादयितुमिच्छुः । त्वत्सैन्यसागररवोद्गत कर्णतापस्तव सैन्यमेव सागरः समुद्रस्तस्य रखो गर्जनं तेनोद्गत उत्थित उत्पन्न इति यावत् कर्णतापो यस्य तादृशः । हाहा । कथंनु । तिष्ठति । वसन्ततिलकं वृत्तम् ॥ २०७ ॥
"
उदाहृते किं कस्याङ्गमित्यपेक्षायामाह - इत्यत्रेत्यादि ।
इत्यत्र प्रागुदाहृते पद्ये । औत्सुक्यत्राखसन्धिसंस्कृतस्योत्सुक्यत्रासयोः सन्धिराविर्भावतिरोभावयोर्मध्यावस्था तेन संस्कृतो विशेषितस्तादृशस्य । करुणस्य तदाख्यस्य रसस्य । राजविषयरतौ राजविषयिण्यां रतावित्यर्थः । अङ्गभावो गौणात्मनाऽवस्थानम् । अयम्भावः - अत्र हि प्रथमेन पादेनौत्सुक्यस्य द्वितीयेन त्रासस्याभिव्यक्तिः, इत्येवं तयोः सन्धिना विशेषितस्तृतीयेनाभिव्यज्यमानः करुणः कवे राजविषयिण्यां रतौ न्यभूतः । इति ।
यथा वा-" कैलासालयभाललोचनरुचा निर्वर्त्तितालंक्तकव्यक्तिः पादनखद्युतिर्गिरिभुवः सावम् सदा त्रायताम् । स्पर्धाबन्धसमृद्धयेव रूढा यया नेत्रयोः कान्तिः कोकनदानुकारसरसा सद्यः समुत्साध्यते ॥ " इति, अत्र हि " त्रायता " मित्यभिव्यक्तस्य पार्वतीविषयिण्या रतेर्महादेवनिष्टः पार्वतीविषयक : सम्भोगः शृङ्गारोऽङ्गम् । यथा वा" अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाऽम्भोधयस्तानेतानपि विभ्रती किमपि न क्लान्ताऽसि तुभ्यं नमः । आश्वर्येण मुहुर्मुहुः स्तुतिमिमां प्रस्तौमि यावद्भुवस्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ " इति, अत्र हि भूमिविषया रती राजविषयाया रतेरङ्गम् । यथा वा-" बन्दीकृत्य नृप । द्विषां मृगदृशस्ताः पश्यतां प्रेयसां व्यन्ति प्रणमन्ति लान्ति परितम्बन्ति ते सैनिका: । अस्माकं सुकृतैर्दृशोर्निपतितोऽस्यौचित्यवारान्निधे ! विश्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ॥ ' इति, अत्र हि प्रथमार्धे संनिकनिष्टः परस्त्रीविषयकतया श्रृङ्गारः, द्वितीयार्धे च प्रत्यर्थिनिष्टो निजशत्रुभूतराजविषयकतया रतिभावश्चेत्येवमनौचित्यात्तदुभयमप्याभासरूपं सत् कविनिष्टस्य
-